Page loading... Please wait.
5|4|124 - धर्मादनिच् केवलात्‌
॥ तस्मै पाणिनये नमः ॥
5|4|124
SK 863
धर्मादनिच् केवलात्‌   🔊
सूत्रच्छेदः
धर्मात् (पञ्चम्येकवचनम्) , अनिच् (प्रथमैकवचनम्) , केवलात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
केवलाद् यो धर्मशब्दः तदन्ताद् बहुव्रीहेः अनिच् प्रत्ययो भवति समासन्तः। कल्याणो धर्मो ऽस्य कल्याणधर्मा। प्रियधर्मा। केवलातिति इम्? परमः स्वो धर्मः अस्य परमस्वधर्मः। यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति, परमः स्वो धर्मः अस्य इति? एवं तर्हि केवलातिति पूर्वपदं निर्दिश्यते, केवलात् पदाद् यो धर्मशब्दो न पदसमुदायात्, तदन्ताद् भौव्रीहेः प्रत्ययः।
`असमस्तः` [नास्ति--काशिकायाम्] इति। असमासः क्रियत इत्यर्थः। `परमस्वधर्मः` इति। स्वश्चासौ धर्मश्चेति स्वधर्मः, परमश्चासौ स्वधर्मश्चेति परमस्वधर्मः। `यद्येवम्? इत्यादि। यदि केवलग्रहणेन धर्मो विशेष्यते परमस्वधर्मश्चेति न, परमस्वधरहृएति स्यात्। `केवलात्? पूर्वपदात्` इति। धर्मस्य असहायात्? पूर्वपदादित्यर्थः। `न पदसमुदायात्` इति। परमो धर्म इति प्रकृतेन सम्बन्धः। अत्र व्याख्याने त्रिपदे बहुव्रीहौ न भवति प्रसङ्गः, पदसमुदायाद्धि परमो धर्मशब्दो न केवलात्? पूर्वपदात्। अनिचश्चित्करणं पूर्वपदप्रकृतिस्वरं बाधित्वाऽन्तोदात्तमेव यथा स्यात्॥
परमः स्वो धर्मोऽस्य परमस्वधर्म इति। ठ्सर्वनामसंख्ययोरुपसंख्यानम्ऽ इति स्वशब्दस्य पूर्वनिपातो न भवति; प्राप्तस्य चाबाधा व्याख्येयेति, आहिताग्न्यादेराकृतिगणत्वाद्वा ॥
सिद्धान्तकौमुदी
केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥
धर्मादनिच् केवलात् - धर्मादनिच्केवलात् ।पूर्वपदा॑दित्यध्याह्मत्यकेवला॑दित्यस्य तद्विशेषणत्वमाह — केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मद्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचियस्येति चे॑त्यकारलोपः । परम इति । परमः स्वो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात्ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह — स्वशब्दो हीह न केवलं पूर्वपदमिति । किं त्विति । किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु केवलं, मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्य वाचिना मध्यमपद्तावनाक्रान्तत्वलाभादित्यर्थः । इदंचइजादे॑रिति सूत्रभाष्ये स्पष्टम् ।एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् ।सर्वनामसङ्ख्ययोरुपङ्ख्यान॑मिति स्वशब्दस्य पूर्वनिपातस्तु "वाहिताग्न्यादिषु" इति पाक्षिकत्वान्न भवति । नन्वेवं सति सन्दिग्धः साध्यो धर्मो यस्य ससन्दिग्धसाध्यधर्मे॑त्यत्र कथमनिच् । अत्र हि सन्दिग्धेति केवलं पूर्वपदं, धर्मशब्दस्तस्म#आत्परो न भवति । यस्मात्साध्यशब्दात्परो धर्मशब्दः, तस्य तु न पूर्वपदत्वं, मध्यमपदत्वादित्यत आह — सन्दिग्धेति । सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः । सन्दिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः । एवञ्च सन्दिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात्तत्राऽनिच्निर्बाध #इति भावः । एवं चेति । उक्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वो धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साद्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद्यथायोग्यमनिजिति भावः ।
धर्मादनिच् केवलात् - धर्मादनिच् । अनिचोऽकारश्चिन्त्यप्रयोजन इत्येके । अन्ये तु धर्मं करोत्याचष्टे वा,तत्करोती॑ति ण्यन्तात्क्विपि धर्म्, परमो धर्म् यस्य सः परमधर्म् । एकदेशविकृतस्यानन्यत्वाद्धर्मशब्दोऽयमित्यकारोच्चारणमिह सप्रयोजनमेवेत्याहुः । बहुव्राहिणात्र पूर्वपदमाक्षिप्यत इत्यनुपदमेव वक्ष्यति । तच्चकेवला॑दित्यनेन विशेष्यत इत्याह — -केवलात्पूर्वपदादिति । प्राचा तूत्तरपदमपि विशेषितम् । प्रसादकृतापि केवलादिति धर्मशब्दस्य पूर्वपदस्य च विशेषणमिति व्याख्यातम्, तदुभयमपि चिन्त्यम् । आवृत्तौ मानाऽभावात्, धर्मपदविशेषणे प्रयोजनाऽभावाच्च । न च धर्मशब्दान्तं यत्रोत्तरपदं तव्द्यवृत्तिः फलमिति वाच्यं , तत्र बहुव्रीह्रवयवीभूतपूर्वपदात्परस्य धर्मपदेऽसम्भवादेवाऽदोषत्वात् । मध्यमत्वादिति । न चसर्वनामसङ्ख्ययो॑रिति स्वशब्दस्य पूर्वनिपातः शङ्क्यः, आहिताग्न्यादेराकृतिगणत्वादिति हरदत्तदिभिः समाहितत्वात् । आपेक्षिकमिति । नन्वत एव केवलग्रहणं व्यर्थं, पूर्वशब्दस्य समासप्रथमावयवे रूढत्वेनैव मध्यमपदव्यावृत्तिसम्भवादिति चेत् । अत्राहुः — पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन केवलपदस्य सार्थकत्वादिति । कर्मधारयपूर्वपद इति । नन्वत्राऽनिच् द#उर्लभः,केवला॑दित्यस्य समासानातच्मकत्वादित्यर्थादिति चेत्, मैवम् । केवलग्रहणस्य समासानात्मकपूर्वपदपरत्वे मानाऽभावात् ।निवृत्तिधर्मा हि स्थानी भवती॑त्यादिप्रयोगविरोधाच्च । अस्मदुक्तार्थस्तुधृञ् धारणे॑इति धातौ माधवग्रन्थे स्पष्टः । एतेन साध्योः धर्मोऽस्येति साध्यधर्मा, संदिग्धश्चासौ साध्यधर्मा चेति विग्रहः । स च सन्देहः साध्यधर्मद्वारक एव पर्यवस्यतीति केषाञ्चिव्द्याख्यानं परास्तम् । उक्तिरीत्यैव साध्यस्य साक्षात्सन्दिग्धत्वलाभे तत्समर्थनप्रयासस्य व्यर्थत्वात् । साध्वेवेति । परमश्चासौ स्वश्च परमस्वः, स धर्मो यस्येति यदा विगृह्रते तदेत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.