Page loading... Please wait.
5|4|111 - झयः
॥ तस्मै पाणिनये नमः ॥
5|4|111
SK 682
झयः   🔊
सूत्रच्छेदः
झयः (पञ्चम्येकवचनम्)
अनुवृत्तिः
टच् 1/1  5|4|91 (पञ्चमीबहुवचनम्) , अव्ययीभावे  5|4|107 (सप्तम्येकवचनम्) , अन्यतरस्याम्  5|4|109 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
झयः अव्ययीभावे अन्यतरस्याम् टच्
सूत्रार्थः
यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति ।
यस्मिन् अव्ययीभावसमासे अन्तिमवर्णः "झय्" प्रत्याहारस्य (= वर्गचतुर्थः / वर्गतृतीयः / वर्गद्वितीयः / वर्गप्रथमः) वर्णः अस्ति, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति ।

यथा -

1. समिधः समीपम् = उप + समिध् + टच् → उपसमिध । पक्षे (टच्-प्रत्ययं विना) - उपसमिद् । समिधः समीपम् तत् उपसमिधम् उपसमिद् वा ।
2. दृषदः समीपम् = उप + दृषद् + टच् → उपदृषद । पक्षे - उपदृषद् । दृषदः समीपम् तत् उपदृषदम् उपदृषद् वा ।
3. वाचः समीपम् = उप + वाच् + टच् → उपवाच । पक्षे - उपवाच् । वाचः समीपम् तत् उपवाचम् उपवाक् वा ।
4. मरुतः समीपम् = उप + मरुत् + टच् → उपमरुत । पक्षे - उपमरुत् । मरुतः समीपम् तत उपमरुतम् उपमरुत् वा ।

स्मर्तव्यम् -
1. यद्यपि अत्र "झय्" इति प्रत्याहारः निर्दिश्यते, तथापि झय्-प्रत्याहारस्य सर्वे वर्णाः अव्ययीभावसमासस्य अन्ते नैव दृश्यन्ते । अतः सर्वाणि उदाहरणानि अत्र न उपलभ्यन्ते ।
2. केभ्यश्चन झयन्तशब्देभ्यः नित्यम् टच्-प्रत्ययः विधीयते । एतेषाम् सङ्कलनम् अव्ययीभावे शरत्प्रभृतिभ्यः 5|4|107 इत्यत्र कृतम् अस्ति ।
3. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन अम्-आदेशः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ज्ञयः इति प्रयाहारग्रहणम्। ज्ञयन्तादव्ययीभावादन्यतरस्याम् टच् प्रत्ययो भवति। उपसमिमिधम्, उपसमित्। उपदृषदम्, उपदृषत्।
Text Unavailable. Please use feedback link below to provide the text if you have.
झय इति प्रतयाहारग्रहणमिति। झकारयकारयोस्तु ग्रहणं न भवति; तदन्तस्याव्ययीभावस्यासम्भवात्। योगविबागश्चिन्त्यप्रयोजनः ॥
सिद्धान्तकौमुदी
झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥
झयः - झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह — झयन्तादिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.