Page loading... Please wait.
5|4|11 - किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे
॥ तस्मै पाणिनये नमः ॥
5|4|11
SK 2004
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे  
सूत्रच्छेदः
किम्-एत्-तिङ्-अव्यय-घात् (पञ्चम्येकवचनम्) , आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
किम्-एत्-तिङ्-अव्यय-घात् अद्रव्यप्रकर्षे आमुः
सूत्रार्थः
"किम्" शब्दः, एकारान्तशब्दाः, तिङन्तशब्दाः तथा च अव्ययवाचकशब्दाः - एतेषाम् "घ"प्रत्ययान्तरूपेभ्यः यदि द्रव्यस्य प्रकर्षः न निर्दिश्यते, तर्हि स्वार्थे "आमु" इति प्रत्ययः नित्यम् विधीयते ।
अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् केचन बिन्दवः प्रारम्भे ज्ञेयाः -
1. "घ" इति व्याकरणविशिष्टा संज्ञा अस्ति । तरप्तमपौ घः 1|1|22 अनेन सूत्रेण "तरप्" तथा "तमप्" एतयोः प्रत्यययोः "घ"-इति संज्ञा भवति ।
2. "तरप्" तथा "तमप्" एतौ द्वौ तद्धितप्रत्ययौ । द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 अनेन तरप्-प्रत्ययः, तथा अतिशायने तमबिष्ठनौ 5|3|55 इत्यनेन तमप्-प्रत्ययः विधीयते ।
3. "प्रकर्षः" (द्वयोः प्रकर्षेण एकः / अनेकेषु प्रकर्षेण एकः - one with highest quality amongst two or many) अस्मिन् अर्थे "तरप्" तथा "तमप्" एतौ प्रत्ययौ प्रयुज्येते । यथा - देवदत्तयज्ञदत्तयोः देवदत्तः पटुतरः । सर्वेषु छात्रेषु देवदत्तः पटुतमः - आदयः ।
4. एतौ "तरप्" तथा "तमप्" प्रत्ययौ तिङन्तेभ्यः अपि भवितुम् अर्हन्ति । यथा - "देवदत्तः प्रकर्षेण पचति = देवदत्तः पचतितमाम्" ।

एतौ "तरप्" तथा "तमप्" प्रत्ययौ यदि "किम्" शब्दात्, "एदन्त"शब्दात्, "तिङन्त" शब्दात् उत अव्ययवाचकशब्दात् विधीयेते, तर्हि तेभ्यः अग्रे "आमु" इति प्रत्ययः स्वार्थे विधीयते - इति वर्तमानसूत्रस्य आशयः । "आमु" इत्यस्मिन् प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । हलन्त्यम् 1|3|3 इति इत्संज्ञा मा भूत् - इति स्पष्टीकर्तुम् अयम् उकारः स्थापितः अस्ति । प्रयोगात् पूर्वम् अस्य लोपः भवति, अत "आम्" इत्येव प्रयोगे दृश्यते ।

क्रमेण उदाहरणानि पश्यामः -

1. "किम्" शब्दः
अयम् सर्वनामशब्दः । यत्र वस्तूनाम् विद्यमानेषु अनेकेषु विशेषेषु प्रकृष्टस्य विषयस्य विषये प्रश्नः क्रियते, तत्र "किम्" शब्दात् द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 अनेन तरप्-प्रत्ययः, तथा च अतिशायने तमबिष्ठनौ 5|3|55 इत्यनेन तमप्-प्रत्ययः विधीयते ।अस्मात् तरप्/तमप्-प्रत्ययान्तरूपात् अग्रे वर्तमानसूत्रेण "आम्" इति प्रत्ययः स्वार्थे भवति । यथा -

द्वयोः अतिशयेन किम् (specifically what amongst the two)
= किम् + तरप् + आमु [ द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 अनेन तरप्-प्रत्ययः । वर्तमानसूत्रेण "आमु" प्रत्यय"]
→ किम् + तर् + आम् [पकारस्य इत्संज्ञा, लोपः । रेफोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः । मकारोत्तरः उकारः अपि उच्चारणार्थः, तस्यापि लोपः ।]
→ किंतराम् [मोऽनुस्वारः 8|3|23
→ किंतराम्, किन्तराम् [वा पदान्तस्य 8|4|59 इति वैकल्पिकः परसवर्णः]

एवमेव - अनेकेषु अतिशयेन किम् = किन्तमाम्, किंतमाम् ।
यथा - किन्तराम् स उवाच / किन्तमाम् स उवाच । (द्वयोः / अनेकेषु कम् विशेषरूपेण दृष्ट्वा / सम्बुद्ध्य सः उवाच - इति अस्य अर्थः । Whom did he primarily talk to while speaking in a group - इति आशयः ) ।

स्मर्तव्यम् - कुत्रचित् "किम्" इति शब्दः "कुत्सितः" / "यःकश्चित्" (something worth ignoring / hated) अस्मिन् अर्थे अपि प्रयुज्यते । यथा -
द्वयोः अतिशयेन किम् (The more hated amongst the two) = किंतराम् / किन्तराम् ।
अनेकेषु अतिशयेन किम् (The more hated amongst the many) = किंतमाम् / किन्तमाम् ।
यथा - अयम् विचारः एतयोः किन्तराम् । इदम् चिन्तनम् एतेषु किन्तमाम् । Amongst the two / many, this particular thought is most hated.

2. एदन्तशब्दाः
यस्य शब्दस्य अन्ते "ए" वर्णः विद्यते सः शब्दः "एदन्तः" अस्ति इत्युच्यते । अस्मात् विहितात् "तरप्" / "तमप्" प्रत्ययात् अग्रे स्वार्थे आम्-प्रत्ययः भवति । यथा - अ) प्राह्णे (प्रातःकाले / in the morning) -
द्वयोः अतिशयेन प्राह्णे (earliest in the morning / explicitly in the morning - प्राह्णे + तरप् + आम् → प्राह्णेतराम् । एवमेव - प्राह्णेतमाम् ।
आ) अपराह्णे (in the afternoon) -
द्वयोः अतिशयेन अपराह्णे (precisely in the afternoon / explicitly in the afternoon) अपराह्णे + तरप् + आम् → अपराह्णेतराम् । एवमेव - अपराह्णेतमाम् ।
यथा - पितापुत्रयोः पिता प्राह्णेतराम् उत्तिष्ठति । गृहे मातामही प्राह्णेतमाम् उत्तिष्ठति ।

विशेषः - यस्मिन् शब्दे कालवाचकशब्दः "अहन्" इत्यस्य पूर्वपदरूपेण आगच्छति (यथा - पूर्वाह्ण, अपराह्ण - आदयः) तस्मात् यदि "तरप्" / "तमप्" प्रत्ययः भवति, तर्हि प्रक्रियायाम् घकालतनेषु कालनाम्नः 6|3|17 इत्यनेन विकल्पेन सप्तम्याः अलुक् भवति, येन "पूर्वाह्णेतराम्" / "पूर्वाह्णेतमाम्" एतौ शब्दौ सिद्ध्यतः । एतेभ्यः अपि स्वार्थे आम्-प्रत्ययः भवति । प्रक्रिया इयम् -

अयम् पूर्वाह्ण, सोऽपि पूर्वाह्णः, द्वयोर्मध्ये अतिशयेन यः पूर्वाह्णः , तस्मिन् काले
→ पूर्वाह्णे + तरप् [द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 अनेन तरप्-प्रत्ययः ]
→ पूर्वाह्ण + तरप् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति विभक्तिप्रत्ययस्य लुक्]
→ पूर्वाह्णे + तरप् [ घकालतनेषु कालनाम्नः 6|3|17 इत्यनेन विकल्पेन सप्तम्याः अलुक्]
→ पूर्वाह्णे + तरप् + आम् [वर्तमानसूत्रेण एदन्तात् आम्-प्रत्ययः]
→ पूर्वाह्णेतराम् ।
यथा - पूर्वाह्णेतराम् काले ।
एवमेव "पूर्वाह्णेतमाम्" इति शब्दः अपि सिद्ध्यति । तथैव "प्रगेतराम्", "प्रगेतमाम्" एते शब्दाः अपि सिद्ध्यन्ति ।

स्मर्तव्यम् - यत्र सप्तमीविभक्त्यन्तात् "तरप्" / "तमप्" प्रत्ययौ विधीयेते तत्रैव घकालतनेषु कालनाम्नः 6|3|17 इत्यनेन सप्तम्याः अलुक् भवितुम् अर्हति, अन्यत्र न । यथा - "अयम् पूर्वाह्ण, सोऽपि पूर्वाह्णः, द्वयोर्मध्ये अतिशयेन यः पूर्वाह्णः, सः कालः" इति उच्यते चेत् अत्र प्रारम्भे "पूर्वाह्ण + तरप्" इत्येव विद्यते । इत्युक्ते, अत्र सप्तम्याः प्रारम्भे लुक् एव न भवति, अतः अलुक् अपि नैव भवितुम् अर्हति । अस्यां स्थितौ वर्तमानसूत्रस्य अपि प्रसक्तिः नास्ति, केवलम् "पूर्वाह्णेतरः कालः / पूर्वाह्णेतमः कालः" इत्येव प्रयोगः भवति ।

3. तिङन्तशब्दाः -
प्रायः सर्वे तद्धितप्रत्ययाः सुबन्तेभ्यः / प्रातिपदिकेभ्यः एव विधीयन्ते । परन्तु केचन तद्धितप्रत्ययाः तिङन्तेभ्यः अपि भवितुम् अर्हन्ति । यथा, "तरप्" तथा "तमप्" प्रत्ययौ द्वावपि तिङन्तेभ्यः विधीयेते । यथा - "एतौ द्वौ पचतः, अयम् एतयोः अतिशयेन पचति, अतः अयम् पचतितराम्" । अत्र "पचति" इत्यस्मात् "तरप्" प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण "आम्" प्रत्ययः स्वार्थे विधीयते । प्रक्रिया इयम् -
पचति + तरप् + आम् → पचतितराम् ।
पचति + तमप् + आम् → पचतितमाम् ।
यथा - देवदत्तः पचतितराम् । देवदत्तः पचतितमाम् । "प्रकर्षण पचति" इत्यर्थः ।

4. अव्ययशब्दाः
अव्ययवाचकेभ्यः शब्देभ्यः विहितयोः तरप्/ तमप् प्रत्यययोः परयोः अपि स्वार्थे "आम्" इति प्रत्ययः विधीयते । यथा -
उच्चैस् + तरप् + आम् → उच्चैस्तराम् ।
उच्चैस् + तमप् + आम् → उच्चैस्तमाम् ।
यथा -
अ) एतौ द्वौ उच्चैः आक्रोशति , अयम् एतयोः अतिशयेन उच्चैः आक्रोशति , अतः अयम् उच्चैस्तराम् आक्रोशति ।
आ) सर्वेषु छात्रेषु देवदत्तः नीचैस्तराम् वदति ।
एवमेव - प्रातस्तराम्, प्रातस्तमाम्, अतितराम्, अतितमाम्, सुतराम्, सुतमाम् - एते शब्दाः अपि सिद्ध्यन्ति ।

अस्य सूत्रस्य विषये एकः मुख्यः बिन्दुः अत्र ज्ञेयः । अस्मिन् सूत्रे "अद्रव्यप्रकर्षे" इति निर्दिश्यते । अतः यदि द्रव्यस्य प्रकर्षः विधीयते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । The आम् प्रत्यय given by the current sutra is not to be applied if an object is the topic of discussion. कानिचन उदाहरणानि स्वीकृत्य पश्यामः -
1) किम् शब्दः -
किम्-शब्दस्य विषये प्रश्नवाचकशब्दात् प्रत्ययः विधीयते, अत्र द्रव्यप्रकर्षः नैव भवितुम् अर्हति, अतः अत्र विहितात् तरप् / तमप् प्रत्ययात् नित्यम् "आम्" प्रत्ययः विधीयते ।
2) एदन्तशब्दाः -
"प्राह्णे", "प्रगे", "पूर्वाह्णे" "अपराह्णे" इत्यत्र समयस्य कस्यचन विभागस्य निर्देशः कृतः अस्ति । अयम् विभागः द्रव्यम् नास्ति इति मन्यते ।The part of a day, like morning, afternoon etc are not considered to be objects in this context. अतः एतेभ्यः विहितात् "तरप्" / "तमप्" प्रत्ययात् नित्यम् "आम्" प्रत्ययः भवितुम् अर्हति । (अस्मिन् विषये अधिकम् पिपठिषवः न्यासं पश्यन्तु) ।
3) तिङन्ताः -
तिङन्तशब्दाः नित्यम् क्रियाम् दर्शयन्ति, न हि द्रव्यम् । अतः एतेभ्यः विहितात् "तरप्" / "तमप्" प्रत्ययात् नित्यम् "आम्" प्रत्ययः भवति । यथा - पचतितमाम्, पचतितराम् ।
4) अव्ययशब्दाः -
अव्ययशब्दाः यदि द्रव्यस्य निर्देशं कुर्वन्ति, तर्हि तेभ्यः विहितात् "तरप्" / "तमप्" प्रत्ययात् वर्तमानसूत्रेण "आम्" प्रत्ययः न भवति । यथा-
अ)एतौ द्वौ उच्चैः पर्वतौ । अयम् एतयोः अतिशयेन उच्चैः । अतः अयम् उच्चैस्तरः - अत्र उच्चैः इत्यनेन शब्देन "पर्वत" इत्यस्य प्रकर्षः क्रियते ।"पर्वत" इति तु द्रव्यवाचीशब्दः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।
आ)एतौ द्वौ उच्चैः क्रन्दतः । अयम् एतयोः अतिशयेन उच्चैः क्रन्दति । अतः अयम् उच्चैस्तराम् क्रन्दति - अत्र "उच्चैः इत्यनेन शब्देन "क्रन्दनक्रियायाः" इत्यस्य प्रकर्षः क्रियते । इदम् वस्तु / द्रव्यम् न । अतः अत्र वर्तमानसूत्रस्य प्रयोगः अवश्यम् भवति ।

विशेषः - अष्टाध्याय्याम् उच्चैस्तरां वा वषट्कारः 1|2|35 इत्यस्मिन् सूत्रे "उच्चैस्तराम्" इति शब्दः स्वयं पाणिनिना प्रयुक्तः अस्ति ।

अनेन प्रकारेण अद्रव्यप्रकर्षस्य विषये वर्तमानसूत्रेण तरप्/तमप् प्रत्ययान्तशब्दात् स्वार्थे "आम्" इति प्रत्ययः विधीयते ।

ज्ञातव्यम् -
1. "आमु" प्रत्ययान्तशब्दाः सर्वे तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । स्वरादिगणे अपि "आम्" इति प्रत्ययः पाठ्यते, अतः स्वरादिनिपातमव्ययम् 1|1|37 इत्यनेनापि अस्य अव्ययसंज्ञा भवति ।
2. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, तथापि अत्र विकल्पः न विधीयते । इत्युक्ते, अद्रव्यप्रकर्षस्य विषये विहितात् "तरप्" "तमप्" प्रत्ययान्तशब्दात् वर्तमानसूत्रेण उक्तः "आम्" प्रत्ययः नित्यम् भवति । "आम्" प्रत्ययं विना रूपम् नैव प्रयोक्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किम एकारान्तात् तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात् प्रातिपदिकातद्रव्यप्रकर्षे आमुप्रत्ययो भवति। यद्यपि द्रव्यस्य स्वतः प्रकर्षो न अस्ति, तथा अपि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदा ऽयं प्रतिषेधः। क्रियागुणयोरेव अयं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्तमाम्। अद्रव्यप्रकर्षे इति किम्? उच्चैस्तरः। उच्चैस्तमः।
`अद्रव्यप्रकर्षे` इति। ननु च द्रव्यस्य न प्रकर्षोऽस्ति; तथा च भाष्ये उक्तम्--`न वै द्रव्यस्य प्रकर्षोऽस्ति` इति, अतः प्रतिषेधोऽनर्थकः? इत्यत आह--`यद्यपि` इत्यादि। दृश्यते चाधेयधर्मस्याधार उपचारः, यथा--मञ्चाः ऋशन्तीति। तस्मादाधाराधेययोः क्रियागुणयोर्धर्मः प्रकर्षः। स यदाधारद्रव्य उपचर्यते तदासौ द्रव्यधर्मत्वादुपचारेण द्रव्यधर्मो भवति। अतोऽयं प्रतिषेधः क्रियते। `क्रियागुणयोरेव` इत्यादि। क्रियाया गुणस्य प्रकर्षो यदा द्रव्ये नोपचयंते क्रियागुणयोरेव प्रकर्षः, तत्रैव प्रत्ययः। यदि तु द्रव्ये उपचर्यते ततो द्रव्यप्रकर्ष इति वचनात्। `किन्तराम्` इति। वस्तुनो बहवो विशेषाः, तत्र प्रश्नः किंशब्दार्थः। `पूर्वाह्णेतराम्` इति। `घकालतनेषु कालानाम्नः` 6|3|16 इति सम्पम्या अलुक्। ननु च पूर्वाह्णः कालः, कालश्च द्रव्यम्, द्रव्यप्रकर्षे प्रत्ययेन न भवित्व्यम्; अद्रव्यप्रकर्ष इति प्रतिषेधात्? नैव दोषः; न ह्रत्र प्रातिपदिकार्थः प्रकर्षे वत्र्तते, किं तर्हि? विभक्त्यर्थः, स च गुम एव; द्रव्यशक्तिस्वरूपत्वात्? कारकाणाम्। अथ वा--वचनसामथ्र्यात्? कालप्रकर्षे भवति। न हि कालादन्यस्यस्मादेकारात्? परो घ#ओ भवति। `कालनाम्नः` इति परतः सप्तम्या अलुग्विधानात्। `उच्चैस्तराम्` इति॥
किम एकारान्तादित्यादि। अर्थप्रदर्शनपरमेतत्, सूत्रे तु षष्ठीसमासः, योगविभागाद्वा पञ्चमीसमासः। यद्यपीति। द्रव्यं विशेष्यं पर्यवसानभूतम्, तस्य स्वरूपेण प्रकर्षो नास्ति, प्रवृत्तिमितद्वारक एव तु तस्य प्रकर्षः, यथोक्तं भाष्ये--गुणस्यैव प्रकर्षो न द्रव्यस्येति। गुणः प्रवृत्तिनिमितम्। हरिरप्याह--- द्रव्यस्याव्यपदेश्यस्य न विना भेदहेतुना। प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ॥ क्रियागुणस्य इति। प्रवृत्तिनिमितभूतस्य सहचरितस्य धर्ममात्रस्योपलक्षणं क्रियागुणग्रहणम्। द्रव्य उच्यत इति। द्रव्यनिष्ठोऽभिधीयत इत्यर्थः। क्रियागुणयोरेवेति। यो द्रव्यनिष्ठयोरनुविधीयते स तयोरेव प्रकर्षः। किंतरामिति। इदं च किमिदं च किम्, इदमनयोरतिशयेन किम् इति तरप् प्रत्ययः। यत्र स्वरूपेण ज्ञातस्य वस्तुनो विशेषाकारा बहवो जिज्ञासितास्तत्र किंशब्दार्थः प्रश्नप्रकृष्ट इव भवति, तदाश्रयः प्रत्ययः। पूर्वाह्णेतरामिति। ठ्घकालतनेषुऽ इति सप्तम्या अलुक्। तत्रासत्वभूतस्य विभक्त्यर्थस्य प्रकर्षः, न कालस्येति नायं द्रव्यप्रकर्षः । उच्चैस्तरामिति। आत्राप्युचचैःशब्दस्याधिकरणप्रधानत्वान्नायं द्रव्यप्रकर्षः। उत्चैस्तरः पर्वत इति। नात्राधिकरणप्रधान उच्चैःशब्दः, किं तर्हि? उच्चैस्त्वं नाम गुणस्तद्गतः प्रकर्षः पर्वतनिष्ठोऽभिधीयते, स्वभावाच्च तरबन्तस्यात्र सत्वभूतार्थाभिदायित्वम्, लिङ्गसंख्यायोगश्च। उदित्करणं किम्? ठामि सर्वनाम्नः सुट्ऽ इत्यत्रास्य सामान्यग्रहणं मा भूत्। यदि स्यात्? किन्तरामित्यत्र परत्वाद्यस्येतिलोपं बाधित्वा ठ्ह्रस्वनद्यापःऽ इति नुट् प्रसज्येत, मकारस्य त्वित्संज्ञा प्रयोजनाभावादेव न भविष्यतीति ॥
सिद्धान्तकौमुदी
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे - द्वित्रिभ्यां ।षे॑ति लुप्तप्रथमाकं पदम् । द्विमूद्र्ध इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । "नस्तद्धिते" इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतुरिति । नक्षत्रे विद्यमानो यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरब्वक्तव्य इत्यर्थः । नेता-नायकः । मृगो नेतेति । मृगः=मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि बोध्यम् । मृगनेत्रा इति । मृगनेतृशब्दादप्, ञकारस्य यण्, रेफः, टाप् । पुष्यनेत्रा इति । पुष्टो नेता यासामिति विग्रहः ।
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे - किमेत् । ओमोरुकारो यदि नुटा त्यज्येत तर्हि पचतितरामित्यादौह्यस्वानद्यापः॑इति नुटिपचतितरणा॑मिति स्यात्,यस्येतिलोपस्य परेण नुटा बाधात् । सिद्धान्ते तुनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधौ नाऽस्य ग्रहणम् ।
लघुसिद्धान्तकौमुदी
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.