Page loading... Please wait.
5|4|109 - नपुंसकादन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
5|4|109
SK 680
नपुंसकादन्यतरस्याम्   🔊
सूत्रच्छेदः
नपुंसकात् (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
टच् 1/1  5|4|91 (पञ्चमीबहुवचनम्) , अव्ययीभावे  5|4|107 (सप्तम्येकवचनम्) , अनः  5|4|108 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
नपुँसकात् अनः अव्ययीभावे टच् अन्यतरस्याम्
सूत्रार्थः
यस्य अव्ययीभावसमासस्य अन्ते अन्नन्त नपुँसकलिङगवाची शब्दः विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति ।
यदि कश्चन अन्नन्तः नपुँसकलिङ्गवाचकः शब्दः अव्ययीभावसमासस्य उत्तरपदरूपेण विधीयते, तर्हि तस्मात् अनश्च 5|4|108 इत्यनेन प्राप्तः "टच्" इति समासान्तप्रत्ययः वर्तमानसूत्रेण विकल्प्यते ।

यथा -

1. चर्मणः समीपम्
= उप + चर्मन् + टच् [वैकल्पिकः टच्-प्रत्ययः]
→ उप + चर्म् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ उपचर्म ।

पक्षे टच्-प्रत्ययस्य अभावे "उपचर्मण" इत्यपि रूपम् सिद्ध्यति । चर्मणः समीपम् उपचर्म उपचर्मणम् वा ।

एवमेव =
2. ब्रह्मणः समीपम् उपब्रह्म उपब्रह्मणम् वा ।
3. नाम अनुसृत्य अनुनामअनुनामनम् वा ।


स्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन अम्-आदेशः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनः इत्येव। नपुंसकग्रहणम् उत्तरपदविशेषणम्। अन्नन्तं यद् नपुंसकं तदन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म।
Text Unavailable. Please use feedback link below to provide the text if you have.
नपुंसकग्रहणमुतरपदविशेषणमिति। नाव्ययीभावविशेषणम्; अव्यभिचारात् ॥
सिद्धान्तकौमुदी
अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥
नपुंसकादन्यतरस्याम् - नपुंसकादन्यतरस्याम् । "अन" इत्यनुवृत्तं नपुंसकस्य विशेषणं । तदन्तविधिः । अन्नन्तात्क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादि । उपचर्मम् उपचर्मेति । चर्मणः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः । अम्भावः । टजभावे उपचर्मेति रूपम् ।
नपुंसकादन्यतरस्याम् - नपुंसकादन्य । नपुंसकग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य, अव्यभिचारादित्याह — अन्नन्तं यत्क्लीवमिति । अन्नन्तचेन चाव्ययीभावविशेषणात्तदन्तविधिरित्याह — तदन्तादिति । उपचर्ममिति । टचि टिलोपपोऽदन्तत्वादम्भावश्च । तत्त्व] ।
लघुसिद्धान्तकौमुदी
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.