Page loading... Please wait.
5|4|108 - अनश्च
॥ तस्मै पाणिनये नमः ॥
5|4|108
SK 678
अनश्च  
सूत्रच्छेदः
अनः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
टच् 1/1  5|4|91 (पञ्चमीबहुवचनम्) , अव्ययीभावे  5|4|107 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
अन्-अव्ययीभावे टच्
सूत्रार्थः
यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
यस्य अव्ययीभावसमासस्य उत्तरपदम् "अन्" इत्यनेन समाप्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि -

1. राजानं प्रति
= प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ प्रति + राज् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ प्रतिराज ।
राजानं प्रति प्रतिराजम् ।

2. आत्मनि इत्येव
= अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ अध्यात्मन् + टच् [इको यणचि 6|1|77 इति यणादेशः]
→ अध्यात्म् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ अध्यात्म ।
आत्मनि इत्येव अध्यात्मम् ।

3. पञ्चानाम् समीपम्
= उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः]
→ उप + पञ्च् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ उपपञ्च
पञ्चानां समीपम् उपपञ्चम् ।

स्मर्तव्यम् -
1. यदि अन्नन्तः शब्दः नपुँसकलिङ्गवाची अस्ति, तर्हि नपुंसकादन्यतरस्याम् इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते ।
2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन अम्-आदेशः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्।
`उपराजम्, प्रतिराजम्` इति। उपशरदं प्रतिशरदमितिवदव्ययीभावः। `अव्यात्मम्` इति। आत्मन्यधीति विभक्त्यर्थे। `प्रत्यात्मम्` इति। पूर्ववदाभिमुख्ये॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
अनश्च - अनश्च । "अव्ययीभावे" इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । "अन" इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अन्नन्तादव्ययीभावाट्टच् स्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.