Page loading... Please wait.
5|4|103 - अनसन्तान्नपुंसकाच्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|4|103
SK 3505
अनसन्तान्नपुंसकाच्छन्दसि   🔊
सूत्रच्छेदः
अन्-असन्तात् (पञ्चम्येकवचनम्) , नपुंसकात् (पञ्चम्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
टच् तत्पुरुषस्य 6/1 [5|4|86]  5|4|91 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य अन्-असन्तात् नपुँसकात् छन्दसि टच्
सूत्रार्थः
यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते "अन्" तथा "असन्" इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति ।
यस्मिन् तत्पुरुषसमासे विद्यमानम् उत्तरपदम् "अन्" उत "असन्" इत्यनेन समाप्यते, तथा च यत्र समस्तपदम् नपुँसकलिङ्गे प्रयुज्यते, तस्मात् वेदेषु "टच्" इति समासान्तप्रत्ययः भवति ।
यथा, काठकसंहितायाम् "ऋषभचर्मे अभिषिञ्चति" इति निर्देशः विद्यते । अत्र "ऋषभस्य चर्म" अत्र तत्पुरुषसमासे कृते "टच्" इति समासान्तप्रत्ययः भवति येन "ऋषभचर्म" इति अकारान्तशब्दः सिद्ध्यति ।

अत्र एकम् वार्त्तिकम् ज्ञेयम् - अनसन्तान्नपुंसकाच्छन्दसि वावचनम् । इत्युक्ते, अनेन सूत्रेण उक्तः टच्-प्रत्ययः वेदेषु विकल्पेनैव भवति । यथा, "ब्रह्मणः साम" इत्यस्मिन् अर्थे टच्-प्रत्ययं विना "ब्रह्मसाम" तथा टच्-प्रत्ययं प्रयुज्य "ब्रह्मसामम्" एतौ द्वौ अपि प्रयोगौ दृश्येते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्नन्तातसन्तात् च नपुंसकलिङ्गात् तत्पुरुषात् टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। ऋषभचर्मे ऽभिषिच्यते। असन्तात् देवच्छन्दसानि। मनुष्यच्छन्दसम्। अनसन्तातिति किम्? बिल्वादारु जुहोति। नपुंसकातिति किम्? सुत्रामाणं पृथिवीं द्यामनेहसम्। अनसन्तान्नपुंसकाच्छन्दसि वावचनम्। ब्रहमसाम, ब्रहमसामम्। देवच्छन्दः, देवच्छन्दसम्।
`हस्तिचर्म` इत्यादयः षष्ठीसमासाः। `सुत्रामाणम्` इति। शोभनस्त्रामा इति प्रादिसमासः, `अन्येषामपि वृश्यते` 6|3|136 इति पूर्वपदस्य दीर्घः, द्वितीयै कवचनम्? `सर्वनामस्थाने च` 6|4|8 इत्यादिनोपधादीर्घत्वम्, `अट्? कुप्वाङ्` 8|4|2 इत्यादिना णत्वम्। `अनेहसाम्` इति। अनेहःशब्दात्? पुंल्लिङ्गात्? षष्ठीबहुवचनम्। वावचनमित्यनुवत्र्तत इति शेषः। वावचनशब्देनेह प्राग्ग्रहणं विवक्षितम्; तेन विकल्प्य उच्यन्ते, प्रत्याय्यते प्रत्ययोऽनेनेति कृत्वा। तदेतदुक्तं भवति--` `खार्याः प्राचम्` 5|4|101 इत्यतः प्राग्ग्रहणमनुवत्र्तते` इति। प्राग्ग्रहणानुवृत्तौ तु यदिष्टं सिध्यति तद्दर्शयति---`ब्राहृसाम` इति। `देवच्छन्दः` इति। उभयत्र षष्ठीसमासः॥
सुत्रामाणमिति। सुष्ठुअ त्रायते इति ठातो मनिन्ऽ, उपपदसमासः। अनेहसमिति। ठ्नञ्याहन एह चऽ इत्याङ्पूर्वाद्धन्तरेसिप्रत्ययः, धातूपसर्गयोश्चेहादेशः, नञ उपपदसमासः, द्वितीयैकवचनम्। अन्तग्रहणं विस्पष्टार्थम् ॥
सिद्धान्तकौमुदी
तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
2380 अनसन्तान्नपुंसकाच्छन्दसि (विकल्पोपसंख्यानभाष्यम्) अनसन्तान्नपुंसकाच्छन्दसि वेति वक्तव्यम्। ब्रह्मसामम्, ब्रह्मसाम। देवच्छन्दसम्, देवच्छन्दः।।