Page loading... Please wait.
5|4|101 - खार्याः प्राचाम्
॥ तस्मै पाणिनये नमः ॥
5|4|101
SK 803
खार्याः प्राचाम्   🔊
सूत्रच्छेदः
खार्याः (पञ्चम्येकवचनम्) , प्राचाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
टच् तत्पुरुषस्य 6/1 [5|4|86]  5|4|91 (प्रथमैकवचनम्) , द्विगोः  5|4|99 (पञ्चम्येकवचनम्) , अर्धात्  5|4|100 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य अर्धात् द्विगोः च खार्याः टच्
सूत्रार्थः
यस्मिन् तत्पुरुषसमासे "खारी" शब्दः उत्तरपदरूपेण विद्यते, तथा च "अर्ध" शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र "टच्" इति समासान्तप्रत्ययः भवति ।
यस्मिन् तत्पुरुषसमासे "खारी" (किञ्चन परिमाणम्, quintal इत्याशयः) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च "अर्ध" शब्दः पूर्वपदरूपेण विद्यते, तस्मात् प्राचाम् आचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) "टच्" इति समासान्तप्रत्ययः भवति । तथा च, यस्मिन् द्विगुसमासे "खारी" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् अपि प्राचाम् आचार्याणाम् मतेन (इत्युक्ते, विकल्पेन) टच् इति समासान्तप्रत्ययः भवति ।

उदाहरणे एते -

1. अर्धम् खार्याः (half quintal) [अर्धं नपुँसकम् 2|2|2 इति प्रथमातत्पुरुषसमासः]
→ अर्ध + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]
→ अर्ध + खार् + अ [यस्येति च 6|4|148 इति टिलोपः]
→ अर्धखार
अर्धं खार्याः अर्धखारम् ।
पक्षे (टच्-प्रत्ययस्य अभावे) अर्धखारि इत्यपि रूपम् सिद्ध्यति । प्रक्रियायाम् "अर्ध + खारी" इति स्थिते ह्रस्वो नपुँसके प्रातिपदिकस्य 1|2|47 इत्यनेन "खारी" इत्यस्य ह्रस्वादेशः भवति इति विशेषः ।

2. द्वयोः खार्योः समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति द्विगुसमासः]
→ द्वि + खारी + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः]
→ द्वि + खार् + अ [यस्येति च 6|4|148 इति टिलोपः]
→ द्विखार [स नपुँसकम् 2|4|17 इत्यनेन नपुँसकलिङ्गम्]

द्वयोः खार्योः समाहारः द्विखारम् ।
पक्षे (टच्-प्रत्ययस्य अभावे) द्विखारि इत्यपि रूपम् सिद्ध्यति । अत्रापि "द्वि + खारी" इति स्थिते ह्रस्वो नपुँसके प्रातिपदिकस्य 1|2|47 इत्यनेन "खारी" इत्यस्य ह्रस्वादेशः भवति ।

विशेषः - अस्मिन् सूत्रे "अतद्धितलुकि" इति न अनुवर्तते, यतः खारी-शब्दस्य विषये तद्धितप्रत्ययस्य लुक् न सम्भवति । अस्मिन् विषये खार्या ईकन् 5|1|33 इत्यत्र विस्तारेण उक्तम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्विगोः, अर्धच् च इति द्वयम् अप्यनुवर्तते। खारीशब्दान्तात् द्विगोरर्धाच् च परो यः खारीशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति प्राचाम् आचार्याणां मतेन। द्वे खर्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्धं खार्याः अर्धखारम्, अर्धखारि।
`द्विखारि` इति। `त्रिखारि` इति। पूर्ववदुपसर्जनह्यस्वः। क्वचिदर्धखारीति पाठः। अत्रैचोरुपसर्जनह्यस्वत्वे कृते `सर्वतोऽक्तिन्नर्थादित्येके` (ग। सू।51) इति बह्वादिपाठान्? ङीष॥
द्विखारीति। टजभावपक्षे नपुंसकह्नस्वत्वम्। अयं योगः शक्योऽवक्तुम् त्रिखारमिति? खारीशब्देन समानार्थः खारशब्दोऽस्ति यथा च ठ्तदस्य परिमाणम्ऽ , ठ्संख्यायाः संज्ञाऽ इत्यत्र ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति वार्तिकम् ॥
सिद्धान्तकौमुदी
द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥
खार्याः प्राचाम् - खार्या) प्राचाम् । खारीशब्दान्ताद्द्विगोरर्धपूर्वकात्खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच् ।यस्येति च॑ ।स नपुंसक॑मिति नपुंसकत्वम् । टजभावपक्षेस नपुंसक॑मिति नपुंसकत्वान्नपुंसकह्यस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत्समासः । टजभावपक्षेपरवल्लिङ्ग॑मिति स्त्रीत्वम् । एकविभक्तावषष्ठन्तवचनादुपसर्जनत्वाऽभावान्न ह्यस्वः । "अर्धखारि" इति काचिद्ध्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्यस्वः ।
खार्याः प्राचाम् - अद्र्धखारमिति । अद्र्धनावमिव क्लीबत्वं लोकात् । टज्वा स्याद्द्विगाविति । द्विगाविति किम् । द्वयोरञ्जलिः — -व्द्यञ्जलिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.