Page loading... Please wait.
5|4|100 - अर्धाच्च
॥ तस्मै पाणिनये नमः ॥
5|4|100
SK 802
अर्धाच्च   🔊
सूत्रच्छेदः
अर्धात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
टच् तत्पुरुषस्य 6/1 [5|4|86]  5|4|91 (प्रथमैकवचनम्) , नावः  5|4|99 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य अर्धात् नावः टच्
सूत्रार्थः
यस्मिन् तत्पुरुषसमासे "अर्ध" शब्दः पूर्वपदरूपेण विद्यते तथा च "नौ" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति ।
यस्मिन् तत्पुरुषसमासे "अर्ध" शब्दः पूर्वपदरूपेण विद्यते तथा च "नौ" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति । यथा -

अर्धम् नावः (half part of a boat) [अर्धं नपुँसकम् 2|2|2 इति प्रथमातत्पुरुषसमासः]
→ अर्ध + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ अर्ध + नौ + अ
→ अर्ध + नाव् + अ [एचोऽयवायावः 6|1|78 इति आवादेशः]
→ अर्धनाव

अर्धम् नावः अर्धनावम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति। अर्धं नावः अर्धनावम्। अर्धं नपुंसकम् 2|2|2 इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वात् लिङ्गस्य।
`अर्धनावम्` इति। ननु च `परवल्लिङ्गं द्वन्दतत्पुरुषयोः` 2|4|26 इति स्त्रीलिङ्गेनात्र भवितव्यमिति? अत आह--`परवल्लिह्गं न भवति` इत्यादि॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥
अर्धाच्च - अद्र्धाच्च । अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति ।अर्धं नपुंसक॑मिति समासः, टच्, आवादेशः । अत्र परवल्लिङ्ग॑मिति स्त्रीत्वामशङ्क्याह — क्लीबत्वं लोकादिति ।
अर्धाच्च - अद्र्धखारीति ।परवल्लिङ्ग॑मिति स्त्रीत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.