Page loading... Please wait.
5|3|98 - लुम्मनुष्ये
॥ तस्मै पाणिनये नमः ॥
5|3|98
SK 2053
लुम्मनुष्ये   🔊
सूत्रच्छेदः
लुप् (प्रथमैकवचनम्) , मनुष्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
कन्  5|3|95 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , इवे  5|3|96 (सप्तम्येकवचनम्) , संज्ञायाम्  5|3|98 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
इवे मनुष्ये संज्ञायाम् कनः लुप्
सूत्रार्थः
"इव" इत्यस्य प्रयोगेन मनुष्यस्य संज्ञायां गम्यमानायाम् स्वार्थे विहितस्य कन्-प्रत्ययस्य लोपः भवति ।
संज्ञायां च 5|3|97 इत्यनेन सूत्रेण "इव" इत्यस्य प्रयोगेन संज्ञायाः निर्देशे कन्-प्रत्ययः विधीयते । परन्तु इयम् संज्ञा मनुष्यस्य संज्ञा अस्ति चेत् अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति । यथा -

1. चञ्चा (scarecrow) इव अयम् मनुष्यः = चञ्चा + कन् → चञ्चा + X → चञ्चा । यथा चञ्चा वातम् वर्षाम् वा न सहते तथैव यः मनुष्यः वातवर्षादीन् सोढुम् न शक्नोति, तस्य निर्देशार्थम् इयं संज्ञा प्रयुज्यते । Just like a scarecrow (A human-shaped object placed in farms to scare bird away) cannot sustain rains / winds, in the same way a human who cannot sustain heavy rains / winds etc is termed as चञ्चा.

2. दासी इव अयम् मनुष्यः = दासी । यः मनुष्यः दासीवत् वर्तनम् करोति, तस्य अयम् निर्देशः ।

विशेषः -
1. अत्र प्रत्ययस्य लोपः "लुप्" इति संज्ञया उक्तः अस्ति । लुपि युक्तवद्व्यक्तिवचने 1|2|51 इत्यनेन लुपि कृते प्रकृत्याः लिङ्गम् वचनम् च तद्धितान्तस्य विषये अपि विधीयेत - इति निर्देशयितुम् अयम् निर्देशः अत्र आवश्यकः । इत्युक्ते, "चञ्चा इव अयम् मनुष्यः" इत्यनेन निर्दिष्टः मनुष्यः यद्यपि पुमान् अस्ति, तथापि "चञ्चा" इति स्त्रीवाचकात् शब्दात् कन्-प्रत्ययं तस्य च लुप् कृत्वा "चञ्चा" इति तद्धितान्तः शब्दः यः जायते, सः स्त्रीलिङ्गे एव स्यात् - इति अत्र आशयः । अतः "अयम् चञ्चा मनुष्यः" इत्येव प्रयोगः साधु अस्ति ।

2. अस्मिन् सूत्रे काशिकाकारः वदति - " देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः" । इत्युक्ते, काशिकाकारस्य मतेन वर्तमानसूत्रस्य न काऽपि आवश्यकता, यतः अनेन सूत्रेण येषाम् शब्दानाम् विषये लोपः विधीयते ते सर्वे शब्दाः देवपथादिभ्यश्च 5|3|100 इत्यत्र निर्दिष्टे "देवपथादिगणे" आकृतिगणत्वात् भवितुम् अर्हन्ति एव ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
संज्ञायाम् इत्येव। संज्ञायां विहितस्य कनो मनुस्ये ऽभिधेये लुब् भवति। चञ्चेव मनुष्यः चञ्चा। दासी। खरकुटी। मनुस्ये इति किम्? अश्वकः। उष्ट्रकः। गर्दभकः। देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः।
चञ्चे इति तृणपुरुष उच्यते। सादृश्याच्च मनुष्यश्चञ्चा। `लुपि युक्तवद्व्यक्तियचने` 1|2|51 इति प्रकृतिगतमेव लिङ्गं भवति। ननु च `मनुष्यलूपि प्रतिषेधः` (वा।21) इति वचनाद्युक्तवद्भावो न प्राप्नोति? नैतदस्ति; विशेषणानां प्रतिषेधः, न लुबन्तस्य॥
चञ्चाउतृणपुरुषः, तत्सदृशो मनुष्यश्चञ्चा। लुपि युक्तवद्भावः। ठ्मनुष्यलुपि प्रतिषेधःऽ इत्येततु विशेषणविषयम् ॥
सिद्धान्तकौमुदी
संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
लुम्मनुष्ये - लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु "इवेप्रतिकृतौ" इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः । चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे — चञ्चा तृणमयः पुमानिति । चञ्चेति । चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति । वर्ध्रि चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः । लुपि युक्तवत्वात्स्त्रीत्वम् । वचनं तु विशेष्यवदेव,हरीतक्यादिषु व्यक्ति॑रित्युक्तेः । तेन "चञ्चे इव मनुष्यौ" इत्यत्र चञ्चा इति न भवति ।
लुम्मनुष्ये - चञ्चा । वर्ध्रिकेति । लुपि युक्तवद्भावात्स्त्रीलिङ्गता ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लुम्मनुष्ये (2256) (कनो लुबधिकरणम्) (आक्षेपभाष्यम्) किमर्थं मनुष्ये लुबुच्यते, न लुगेवोच्येत? (5897 समाधानवार्तिकम्।। 1 ।।) - लिङ्गसिद्ध्यर्थम् लुब्मनुष्ये - (भाष्यम्) लिङ्गसिद्ध्यर्थं मनुष्ये लुबुच्यते। चञ्ञ्चेव चञ्ञ्चा। वध्रिकेव वध्रिका। खरकुटीव खरकुटी।।