Page loading... Please wait.
5|3|86 - ह्रस्वे
॥ तस्मै पाणिनये नमः ॥
5|3|86
SK 2041
ह्रस्वे   🔊
सूत्रच्छेदः
ह्रस्वे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
ह्रस्वे प्रातिपदिकात् कः
सूत्रार्थः
"ह्रस्व" इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययः भवति ।
"ह्रस्व" (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे "क" प्रत्ययः उत तस्य अपवादः विधीयते । यथा -

1. ह्रस्वः वृक्षः इत्येव = वृक्ष + क → वृक्षकः ।
2. ह्रस्वः स्तम्भः (stem of a tree) इत्येव = स्तम्भ + क → स्तम्भकः ।
3. ह्रस्वः प्लक्षः (= किञ्चन फलम्) इत्येव = प्लक्ष + क → प्लक्षकः ।

विशेषः - अस्मिन् प्रकरणे प्रायः सर्वेषु सूत्रेषु "तिङः" इति अनुवृत्तिः स्वीकृता अस्ति । परन्तु अत्र अस्याः किमपि प्रयोजनम् न, अतः अत्र इयम् अनुवृत्तिः न स्वीक्रियते ।

ज्ञातव्यम् - पूर्वसूत्रे अल्पे 5|3|85 इत्यत्र "अल्प" इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् प्रत्ययविधानं कृतम् अस्ति । अस्मिन् सूत्रे "ह्रस्व" इत्यस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । "अल्प" तथा "ह्रस्व" एतयोर्मध्ये सूक्ष्मः भेदः विद्यते । "अल्प" इत्यनेन प्रमाणस्य मापनं क्रियते, तथा च "ह्रस्व" इत्यनेन आयामस्य-
(अ) अल्प = little quantity ; यथा - अल्पम् तैलम् ।
(आ) ह्रस्व = short in length or size ; यथा - अल्पः पटः ।
इत्युक्ते, भाषायाम् "अल्प" तथा "ह्रस्व" शब्दाः भिन्नेषु अर्थेषु प्रयुक्ताः दृश्यन्ते । यत्र "अल्प" इति शब्दः साधु अस्ति तत्र "ह्रस्व" इत्यपि शब्दः साधु एव स्यात् इति नैव आवश्यकम् । अतएव द्वयोः अपि शब्दयोः भिन्नरूपेण ग्रहणम् क्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोही ह्रस्वः। ह्रस्वो वृक्षः वृक्षकः। प्लक्षकः। स्तम्भकः।
`दीर्घप्रतियोगी ह्यस्वः` इति। स पुनर्यमपेक्ष्य दीर्घो भवति स वेदितव्यः। ननु च दीर्घत्वापचये सति ह्यस्वो भवति; यत्र दीर्घत्वापचयस्तत्राल्पतास्तीति पूर्वेणैव सिद्धम्? न सिध्यति; न ह्रयं नियोगः--यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति, तथा हि--सत्यप्यपचये महत्त्वगुणयुक्तं यद्वस्तु तदमहदेव भवति, न चाल्पम्॥
यद्यपि वंशादिष्वल्पत्वह्रस्वत्वयोः समावेशो दृष्टः, तथापि घृतादिषु द्रवद्रव्येषु न कश्चिदाह--ह्रस्वं घृतम्, ह्रस्वं तैलमिति; तथा विस्तीर्णेष्वायामहीनेषु ह्रस्वः पट हत्युच्यते, न कश्चिदाह--अल्पः पट इति; तस्मादुभयनिर्देशः--ठल्पेऽ, ठ्ह्रस्वेऽ इति ॥
सिद्धान्तकौमुदी
ह्रस्वो वृक्षो वृक्षकः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ह्रस्वे (2244) (कनोऽधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिमावुभावर्थौ निर्दिश्येते, न यदल्पं ह्रस्वमपि तद्भवति, यच्च ह्रस्वमल्पमपि तद्भवति? (समाधानभाष्यम्) नैतयोरावश्यकः समावेशः। अल्पं घृतम्, अल्पं तैलमित्युच्यते। न कश्चिदाह ‐ ह्रस्वं वृतम्, ह्रस्वं तैलमिति। तथा ह्रस्वः पटः, ह्रस्वः शाटक उच्यते, न कश्चिदाह ‐ अल्पः पटः, अल्पः शाटक इति।।