Page loading... Please wait.
5|3|80 - प्राचामुपादेरडज्वुचौ च
॥ तस्मै पाणिनये नमः ॥
5|3|80
SK 2036
प्राचामुपादेरडज्वुचौ च   🔊
सूत्रच्छेदः
प्राचाम् (षष्ठीबहुवचनम्) , उपादेः (पञ्चम्येकवचनम्) , अडच्-वुचौ (प्रथमाद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अनुकम्पायाम्  5|3|76 (सप्तम्येकवचनम्) , तद्युक्तात्  5|3|77 (पञ्चम्येकवचनम्) , च  5|3|77 (अव्ययम्) , नीतौ  5|3|77 (सप्तम्येकवचनम्) , मनुष्यनाम्नः  5|3|78 (पञ्चम्येकवचनम्) , वा  5|3|78 (अव्ययम्) , बह्वचः  5|3|78 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
अनुकम्पायाम् नीतौ तद्युक्तात् उपादेः बह्वचः मनुष्यनाम्नः प्राचाम् अडच्-वुचौ च
सूत्रार्थः
अनुकम्पायाम् गम्यमानायाम् अनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायाम् अनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य "उप" इत्यनेन प्रारभ्यमाणम् नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे प्राचाम् वैयाकरणानाम् मतेन विकल्पेन "अडच्" तथा "वुच्" प्रत्ययौ भवतः ।
अनुकम्पायाम् 5|3|76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे "क" प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात्‌ 5|3|77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् "नीतिम् अनुसृत्य प्रयुक्तम् यत् साधनम्", तस्मात् स्वार्थे "क"प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः बह्वचो मनुष्यनाम्नष्ठज्वा 5|3|78 इत्यनेन ठच्-प्रत्ययः , तथा च घनिलचौ च 5|3|79 इत्यनेन "घन्" तथा "इलच्" प्रत्ययौ - एते सर्वे विकल्पेन विधीयन्ते । अस्मिन्नेव सन्दर्भे यदि प्रकृतिः (= मनुष्यस्य बह्वच् नाम) "उप" इत्यनेन प्रारभ्यते, तर्हि तस्मात् स्वार्थे "अडच्" तथा "वुच्" एतौ द्वौ प्रत्ययौ वर्तमानसूत्रेण विधीयेते ।

उदाहरणद्वयम् पश्यामः -

1. कश्चन देवदत्तः उपेन्द्रदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् "उपेन्द्रदत्त" इति अस्ति । अत्र "उपेन्द्रदत्त" इति मनुष्यस्य नाम अस्ति, अस्य प्रारम्भः "उप" इत्यनेन भवति, तथा च अस्मिन् शब्दे पञ्च स्वराः विद्यन्ते, अतः अयम् "बह्वच्" शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे "अडच्" तथा "वुच्" एतौ प्रत्ययौ भवतः । प्रक्रिया इयम् -
उपेन्द्रदत्त + अडच् / वुच्
→ उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । युवोरनाकौ 7|1|1 इति "वु" इत्यस्य "अक" आदेशः ।]
→ उप + अडच् / अक [ठाजादावूर्ध्वं द्वितीयादचः 5|3|83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः "ए" इति अस्ति, तथापि इदम् सन्ध्यक्षरम् अस्ति, अतः ठाजादावूर्ध्वं द्वितीयादचः 5|3|83 इत्यत्र पाठितेन द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः अनेन वार्त्तिकेन तस्य छेदं कृत्वा "अ + इ" इति प्राप्ते "अ" इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते । अस्मिन् विषये नागेशेन कश्चन अन्यः पक्षः लघुशब्देन्दुशेखरे उक्तः अस्ति, जिज्ञासुभिः सोऽपि द्रष्टव्यः]
→ उप् + अड / अक [यस्येति च 6|4|148 इति अकारलोपः]
→ उपड / उपक

2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै "उपेन्द्रदत्तः" नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् "उपेन्द्रदत्तः" इति मनुष्यः अस्ति । अत्रापि पूर्ववदेव प्रकियां कृत्वा "उपड" तथा "उपक" एतौ शब्दौ सिद्ध्यतः ।
अनुकम्पायाः साधनम् यः उपेन्द्रदत्तः , सः उपडः उपकः वा - इति आशयः ।

ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे -
[अ] बह्वचो मनुष्यनाम्नष्ठज्वा 5|3|78 इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा "उपिक" इति शब्दः सिद्ध्यति ।
[आ] घनिलचौ च 5|3|79 इत्यनेन वैकल्पिकं घन्/ इलच् प्रत्ययौ कृत्वा "उपिय" / "उपिल" एतौ शब्दौ अपि भवतः ।
[इ] औत्सर्गिकम् क-प्रत्ययं संस्थाप्य "उपेन्द्रदत्तक" इति अपि शब्दः सिद्ध्यति ।
अनेन प्रकारेण "अनुकम्पितः उपेन्द्रदत्तः" उत "अनुकम्पायाः साधनम् उपेन्द्रदत्तः" एतेषु सन्दर्भेषु "उपड / उपक / उपिक / उपिय / उपिल / उपेन्द्रदत्तक" एते षट् शब्दाः सिद्ध्यन्ति ।

विशेषः - अस्मिन् सूत्रे "प्राचाम्" इत्यनेन कृतः "पूर्वदिशि विद्यमानानाम् वैयाकरणानाम् निर्देशः" पूजार्थम् / आदरार्थम् अस्ति । पूर्वसूत्रात् अत्र "वा" इत्यनुवर्तते, अतः अत्र "प्राचाम्" इत्यस्य पदस्य प्रयोगः आचार्येण विकल्पार्थम् नैव कृतः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्ववत् सर्वम् अनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुस्यनाम्नः। अडच्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः ठच् च वा। उपडः, उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।
उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह--`वेत्येव हि` इत्यादि। अत्र हे वेत्यनुवत्र्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात्? तदर्थग्रहणं नोपपद्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न ।
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेः ।बह्वचो मनुष्ये॑त्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरूपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात्उपादे॑रिति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्चउपक॑उपड॑इति रूपे न स्यातां, किं तुउपयक॑उपयड॑इति रूपे स्याताम् । एवं घनिलच्ठच्ष्वपि दोष एव । तस्मादिहैवद्वितीयं सन्ध्यक्षरं चे॑दिति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः — -प्रकारान्तरेण निर्वाहसंभवान्नोक्तम् । तथाहि — -आद्गुणे कृतेद्वितीयं सन्ध्यक्षर॑मित्यादिना अकारस्यापि लोपप्रक्त्या गुणात्पूर्वमेवाऽकृतव्यूहपरिभाषया प्रत्ययः । नच परिनिष्ठितत्वपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषाबाधः शङ्क्यः ।प्राग्दिशः॑इति सूत्रेसमर्थग्रहणं निवृत्त॑मित्युक्तत्वात् ।अकृतसन्धे॑रिति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्यार्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्रः ष उपगुः, उपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विसेषेऽध्यवसेयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.