Page loading... Please wait.
5|3|76 - अनुकम्पायाम्
॥ तस्मै पाणिनये नमः ॥
5|3|76
SK 2031
अनुकम्पायाम्   🔊
सूत्रच्छेदः
अनुकम्पायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
च  5|3|56 (अव्ययम्) , तिङः  5|3|56 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
अनुकम्पायाम् प्रातिपदिकात् तिङः च कः
सूत्रार्थः
अनुकम्पायाम् गम्यमानायाम् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः उत तस्य अपवादः विधीयते ।
"अनुकम्पा" इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र अनुकम्पा दृश्यते, तत्र "अनुकम्पायाः यत् कर्म, तस्मात् प्रातिपदिकात्, तथा च अनुकम्पाविहिता या क्रिया, तस्मात् तिङन्तात् स्वार्थे यथाविहितं प्रत्ययः भवति । यथा -

[अ] प्रातिपदिकेभ्यः प्रत्यविधानम्
1. अनुकम्पितः पुत्रः (A sympathized son) । अत्र अनुकम्पायाः कर्म (object of compassion) पुत्रः अस्ति, अतः अस्मिन् सन्दर्भे "पुत्र"शब्दात् औत्सर्गिकः "क" प्रत्ययः भवति । अनुकम्पितः पुत्रः पुत्रकः ।
एवमेव -
2. अनुकम्पितः बुभुक्षितः = बुभुक्षितकः ।
3. अनुकम्पितः वत्सः = वत्सकः ।
4. अनुकम्पितः दुर्बलः = दुर्बलकः ।


[आ] तिङन्तेभ्यः प्रत्ययविधानम् - यत्र क्रिया अनुकम्पासहिता विद्यते, तत्र तिङन्तात् वर्तमानसूत्रेण प्रत्ययविधानम् भवितुम् अर्हति । तिङन्तेभ्यः क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः 5|3|71 इत्यनेन अकच्-प्रत्ययः भवति इति स्मर्तव्यम् । यथा -
1. अनुकम्पितम् विश्वसिति = विश्वसित् + अकच् + इ → विश्वसितकि । The act of belief involves compassion - इत्याशयः ।
2. अनुकम्पितम् स्वपिति = स्वपितकि । The act of sleeping involves compassion - इत्याशयः ।
उभयत्र क्रियायाः अनुकम्पा निर्दिश्यते ।
स्मर्तव्यम् - तिङन्तेभ्यः अकच्-प्रत्ययेन निर्मिताः शब्दाः क्रियापदरूपेणैव प्रयुज्यन्ते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कारुण्येन अभ्युपपत्तिः परस्य अनुकम्पा। तस्या गम्यमानायां सुबन्तात् तिङन्ताच् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि।
`कारुण्णेन` इत्यादि। अभ्युपपत्तिरनुग्रह एव। `स्वपितकि, आसितकि` इति। `रुदादिभ्यः सार्वधातुके` 7|2|76 इट्, अदादित्वाच्छपो लुक्॥
कारुण्येनेति। करुणैव कारुण्यम्। अभ्युपपतिरिति। अनुग्रहः, उपकार इति यावत्। परस्योति कर्मणि षष्ठी। तस्यां गम्यमानायामिति। अनेनग्रयोक्तृधर्मोऽनुकम्पा आवाधवद्, न तु प्रशंसादिवत्प्रकृत्यर्थविशेषणमिति दर्शयति। अन्ये तु प्रकृत्यर्थविशेषणमेव मन्यन्ते, तथा चाजिनान्तस्येत्यादिषु विग्रह दर्शयिप्यन्ति--ठनुकम्पितो व्याव्राजिनः, अनुकम्पितो बृहस्पतिदतः, अनुकम्पितः शेवलदतःऽ इति, न च प्रयोक्तृधर्मस्य विग्रहे दर्शनमस्ति। स्वपितकि, श्वसितकीति। अदादित्वाच्छपो लुक्, ठ्रुदादिभ्यः सार्वधातुकेऽ इतीट् ॥
सिद्धान्तकौमुदी
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥
अनुकम्पायाम् - अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा=दया ।
अनुकम्पायाम् - अनुकम्पायाम् ।कृपा दयाऽनुकम्पा स्या॑दित्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.