Page loading... Please wait.
5|3|75 - संज्ञायां कन्
॥ तस्मै पाणिनये नमः ॥
5|3|75
SK 2030
संज्ञायां कन्   🔊
सूत्रच्छेदः
संज्ञायाम् (सप्तम्येकवचनम्) , कन् (प्रथमैकवचनम्)
अनुवृत्तिः
कुत्सिते  5|3|74 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
कुत्सिते प्रातिपदिकात् संज्ञायां कन्
सूत्रार्थः
"कुत्सितः" इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।
सर्वेभ्यः प्रातिपदिकेभ्यः कुत्सिते 5|3|74 इत्यनेन स्वार्थे "क" प्रत्ययः भवति । परन्तु केचन संज्ञावाचकाः शब्दाः केभ्यचन प्रातिपदिकेभ्यः "कन्" प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् साधुत्वज्ञापनार्थम् अस्य सूत्रस्य निर्माणम् कृतम् अस्ति । यथा -

1. कुत्सितः (= निन्दितः) शूद्रः = शूद्र + कन् → शूद्रकः । कस्यचन राज्ञः इयम् संज्ञा ।
2. कुत्सितः राधः (= inappropriate gift) = राध + कन् → राधकः ।
2. कुत्सितः पूर्णः = पूर्णकः ।

ज्ञातव्यम् - "क" प्रत्ययेन अपि ते एव शब्दाः सिद्ध्यन्ति ते "कन्" प्रत्ययेन सिद्ध्यन्ति । परन्तु द्वयोर्मध्ये स्वरभेदः जायते । यथा, "क"प्रत्ययान्तस्य "शुद्रक" शब्दस्य ककारोत्तरः अकारः आद्युदात्तश्च 3|1|3 इत्यनेन उदात्तत्वं प्राप्नोति ।परन्तु "कन्"प्रत्ययान्तस्य "शूद्रक"शब्दस्य शकारोत्तरः उकारः ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन उदात्तसंज्ञां प्राप्नोति । संज्ञारूपेण प्रयुज्यमाने "शूद्रक" शब्दे शकारोत्तरः उकारः उदात्तः अस्ति, न हि ककारोत्तरः अकारः । अतएव अस्य शब्दस्य निर्माणार्थम् भिन्नरूपेण "कन्" प्रत्ययः अस्मिन् सूत्रे उच्यते । एवमेव "राधकः", "पूर्णकः" एतादृशानां शब्दानां विषये अपि ज्ञेयम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुत्सिते इत्येव। कुत्सितत्वोपाधिके ऽर्थे वर्तमानात् प्रातिपैद्कात् कन्प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥
संज्ञायां कन् - संज्ञायां कन् । कुत्सिते इत्यनुवर्तते । तदाह — कुत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.