Page loading... Please wait.
5|3|6 - सर्वस्य सोऽन्यतरस्यां दि
॥ तस्मै पाणिनये नमः ॥
5|3|6
SK 1952
सर्वस्य सोऽन्यतरस्यां दि   🔊
सूत्रच्छेदः
सर्वस्य (षष्ठ्येकवचनम्) , सः (प्रथमैकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्) , दि
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
सर्वस्य सः दि प्राग्दिशः अन्यतरस्याम्
सूत्रार्थः
प्राग्दिशीये दकारादौ तद्धितप्रत्यये परे "सर्व" इत्यस्य विकल्पेन "स" इति आदेशः भवति ।
"सर्व" इति सर्वनामशब्दः । सर्वैकान्यकिंयत्तदः काले दा 5|3|15 इत्यनेन "दा" इति दकारादिः प्राग्दिशीयः विभक्तिसंज्ञकः तद्धितप्रत्ययः अस्मात् शब्दात् विधीयते । अस्मिन् प्रत्यये परे "सर्व" इत्यस्य वर्तमानसूत्रेण विकल्पेन "स" इति आदेशः भवति । सर्व + दा → सर्वदा, सदा । "सर्वस्मिन् काले" इति उभयोः शब्दयोः अर्थः ।

स्मर्तव्यम् - अस्मिन् सूत्रे "दकारादौ प्रत्यये परे" इति उच्यते । प्राग्दिशीय-प्रकरणे द्वौ दकारादौ प्रत्ययौ पाठ्येते - "दानीम्" तथा "दा" । एताभ्याम् "दानीम्" इति प्रत्ययः "सर्व" शब्दात् नैव विधीयते, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् "दा" प्रत्यये परे एव अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सर्वस्य स इत्ययम् आदेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो ऽन्यतरस्याम्। सर्वदा। सदा। प्राग्दिशीये इत्येव, सर्वं ददाति इति सर्वदा ब्राह्मणी।
`दीति` दकारादियं सप्तमी। तत्र दकारमात्रस्य प्राग्दिशीयस्याभावात्? `यस्मिन्विधिस्तदादावल्ग्रहणे` (वा। 14) इत्यतो दकारादौ विधिज्र्ञायत इत्याह--`प्राग्दिशीये दकारादौ` इत्यादि। `सर्वदा ब्राआहृआणी` इति। `आतोऽनुपसर्गे कः` 3|2|3 , ततष्टाप्॥ बाल-मनोरमाआत्मनश्च 948, 5.3.6 तत्रात्मनश्चेत्यंशं व्याक्यातु पृथगुपादत्ते--आत्मनश्चेति। चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह--आत्मनस्तृतीयाया अलुगिति। `उत्तरपदे परे` इति शेषः। पूरण इति वक्तव्यमिति। नाऽत्र पूरणशब्दो गृह्रते, किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् `प्रत्ययग्रहणे` इति तदन्तविधिरित्यभिप्रेत्याह--पूरणप्रत्ययान्ते इति। आत्मनापञ्चम इति आत्मा पञ्चम इत्यर्थः। प्रकृत्यादित्वात्प्रथमार्थे तृतीया। यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः। करणे तृतीया। करोतिक्रियान्तर्भावेण तस्याः `तृतीया तत्कृते`ति समासः। पक्षद्वयमपीदं भाष्ये स्थितम्। ननु सङ्खर्षणप्रद्युम्नाऽनिरुद्धास्त्रयो विष्णुव्यूहाः। जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम्। तत्रेदमाहुः पौराणिकाः--`जनार्दनस्त्वात्मचतुर्थ एवे`ति। तत्र तृतीयाया अलुकि `आत्मनाचतुर्थ` इति भवितव्यमित्यत आह--जनार्दनास्त्विति। बहुव्रीहिरिति। आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः। एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः। तदिदं भाष्ये स्पष्टम्। बाल-मनोरमासर्वस्य सोऽन्यतरस्यां दि 1927, 5.3.6 सर्वस्य सो। `दि` इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम्। `यस्मिन्विधि`रिति तदादिविधिः। तदाह--प्राग्दिशीये दकाराविति। सदा इत्युदाहरणम्।
ठ्दिऽ इति दकारदियं सप्तमी, तत्र ठ्यस्मिन् विधिःऽ इति तदादेर्ग्रहणं विज्ञायत इत्याह--दकारादौ प्रत्यये परत इति। सर्वदा ब्राह्मणीति। किमर्थं स्त्रीलिङ्गोपन्यासः ? यो हि मन्यते--दीति दाशब्दादियं सप्तमी न तु दकारात्, तत्र क्त्वो ल्यप्, ठ्हलःऽ ठ्श्नःऽ इत्यादिवदातो लोप इति, तं प्रति दाशब्दः प्रत्युदाहृतः। एवमपि लाक्षणिकत्वादत्र दाशब्दस्य न भविष्यति ? एवं विजन्तमेतद् द्रष्टव्यम्, एवं च कृत्वा पुंल्लिङ्गमप्युदाहरणं भवत्येव ॥
सिद्धान्तकौमुदी
प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥
सर्वस्य सोऽन्यतरस्यां दि - सर्वस्य सो । "दि" इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् ।
सर्वस्य सोऽन्यतरस्यां दि - आत्मनापञ्चम इति । तृतीयेति योगविभागात्समासः । इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके । आत्मना कृतः पञ्चमः इति करोतिक्रियापेक्षा सेत्यन्ये । पूरण इति वक्तव्यम् । बहुव्रीहर्बोध्य इति । एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः ।
लघुसिद्धान्तकौमुदी
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.