Page loading... Please wait.
5|3|58 - अजादी गुणवचनादेव
॥ तस्मै पाणिनये नमः ॥
5|3|58
SK 2006
अजादी गुणवचनादेव   🔊
सूत्रच्छेदः
अजादी (प्रथमाद्विवचनम्) , गुणवचनात् (पञ्चम्येकवचनम्) , एव (अव्ययम्)
अनुवृत्तिः
अतिशायने  5|3|55 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अजादी अतिशायने गुणवचनात् एव
सूत्रार्थः
"अतिशय" अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
अतिशायने तमबिष्ठनौ 5|3|55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 एतयोः सूत्रयोः "अतिशय" अस्मिन् सन्दर्भे "तमप्", "इष्ठन्", "तरप्", "इयसुन्" एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ प्रत्ययौ (= इष्ठन्, ईयसुँन्) अजादी स्तः । एतयोः प्रयोगः वर्तमानसूत्रेण नियम्यते । केवलम् गुणवाचिनः ये शब्दाः (= words indicating a quality), तेभ्यः एव एतयोः प्रत्यययोः प्रयोगः भवति । (तरप्-तमप् प्रत्ययौ तु गुणवाचिभ्यः शब्देभ्यः अपि विधीयन्ते, अगुणवाचिभ्यः शब्देभ्यः चापि विधीयन्ते इति स्मर्तव्यम्) ।
यथा - "शुक्ल", "कृष्ण", "लघु", "गुरु" एतादृशेभ्यः गुणवाचकेभ्यः शब्देभ्यः "इष्ठन्" तथा "ईयसुँन्" प्रत्ययौ विधीयेते -

1. एते सर्वे शुक्लाः, अयम् एतेषाम् अतिशयेन शुक्लः, अतः अयम् शुक्लिष्ठः शुक्लतमः वा ।
2. एतौ द्वावपि कृष्णौ, अयम् एतयोः अतिशयेन कृष्णः, अतः अयम् कृष्णियान् कृष्णतरः वा ।
3. एते सर्वे गुरवः, अयम् एतेषाम् अतिशयेन गुरुः, अतः अयम् गरिष्ठः गुरुतमः वा।
4. एतौ द्वावपि लघू, अयम् एयोः अतिशयेन लघुः, अतः अयम् लघियान् लघुतरः वा ।

परन्तु ये शब्दाः गुणवाचिनः न सन्ति, तेभ्यः एतयोः प्रत्यययोः प्रयोगः न भवति, अतः तेभ्यः केवलम् "तरप्" तथा "तमप्" एतौ प्रत्ययौ एव भवतः । यथा -
1. एते सर्वे पाचकाः । अयम् एतेषाम् अतिशयेन पाचकः, अतः अयम् पाचकतमः ।
2. एतौ द्वौ लेखकौ । अयम् एतयोः अतिशयेन लेखकः, अतः अयम् लेखकतरः ।

विशेषः -
1. अस्मिन् सूत्रे प्रयुक्तः "एव" इति शब्दः "गुणवचनात्" इत्यनेन सह अन्वेतव्यः, न हि "अजादी" इत्यनेन सह । इत्युक्ते, "अजादिः प्रत्ययः गुणवचनात् एव भवति, अन्येभ्यः शब्देभ्यः न" इति अस्य सूत्रस्य आशयः अस्ति, न हि "अजादिः एव गुणवचनेभ्यः भवति, अन्यः न" इति । अतः गुणवाचिभ्यः शब्देभ्यः तु चत्वारः अपि प्रत्ययाः विधीयन्ते ।

2. तिङश्च 5|3|56 तथा च द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 एताभ्यां सूत्राभ्याम् तिङन्तेभ्यः "तमप्" तथा "तरप्" एतौ प्रत्ययौ एव भवतः । यद्यपि एताभ्यां सूत्राभ्याम् "ईयसुँन्" तथा "ईष्ठन्" एतयोः अपि विधानं क्रियते, तथापि तिङन्तशब्दाः "गुणवाचकाः" न सन्ति, अतः तेभ्यः एतौ अजादीप्रत्ययौ नैव विधीयेते ।

3. केचन अगुणवाचिनः शब्दाः अपि विधानसामर्थ्यात् "ईयसुँन्" तथा "इष्ठन्" एतौ अजादी प्रत्ययौ स्वीकुरुतः ।एतेषां विषये तुश्छन्दसि 5|3|59 इत्यस्मात् विन्मतोर्लुक् 5|3|65 एतेषु सूत्रेषु अधिकम् उक्तम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघीष्ठः। इह न भवतः, पाचकतरः, पाचकतमः इति। एव कारः इष्टतो ऽवधारणार्थः, प्रत्ययनियमो ऽयं न प्रकृतिनियमः इति। पटुतरः। पटुतमः।
`पाचकतरः` इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद्द्रव्यवचनोऽयं पाचकशब्दः। अथैवकारः किमर्थः, यावता सिद्धे विधिरारभ्यमाणो विनापि तेन नियमार्थो भवतिइत्याह-`एवकारः` इत्यादि। असति ह्रेवकारे विपरीतमवषारणं विज्ञायते--अजादी एव गुणवचनादिति, ततश्च यत एवकारस्ततोऽन्यत्रावधारणमिति प्रकृतिनियमः स्यात्। एवं च गुणवचनस्याजाद्योनियतत्वात्? ततस्तरबादिर्नं स्यात्। एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रकृतिनियम इति पटुतरः, पटुतम इति सिद्धं भवति। एतयोरपि सिद्ध्यर्थं `गुणवचनादिष्ठन्नीयसुनौ` इति सूत्रं न कृतम्। तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वाद्बाधकाविति तयोरभावे पटुतरः, पटुतम इति न सिध्येत्॥
एवकारः किमर्थः ? नियमो यथा विज्ञायेत; अन्यथा प्रकर्थेऽजाद्योर्विधानादप्रकर्षे विधिः स्यात्। ठतिशायनेऽ इत्यनुवर्तिष्यते, तत्रैव पुनर्वचनं नियमार्थं भविष्यति,नार्थ एवकारेण? तत्राह--एवकार इष्टतोऽडवधारणार्थ इति। असति ह्यस्मिन्विपरीतोऽपि नियमः सम्भाव्यते--अजादी एव गुणवचनादिति। तत्र को दोषः ? गुणवचनाद् व्यञ्जनादी न स्याताम्; तस्याजाद्योर्नियतत्वात्। यत एवकारस्ततोऽन्यत्रावधारणमिति। अजाद्योश्चानियतत्वादगुणवचनादपि तयोः प्रसङ्गः। इदमतिबहु क्रियते--अजादी गुणवचनादेवेति, एवं तु वक्तव्यम्--अतिशायने तमप्, गुणवचनादिष्ठन्, द्विवचनविभज्योपपद इयसुन्, गुणवचनादित्येव, ततस्तरप् च, गुमवटचनादिति निवृतम्? सापम्; ठ्प्रशस्यस्य श्रःऽ इत्येवमाद्यर्थं तु ठजादीऽ इत्युक्तम्। एवं तर्हि ठ्प्रशस्यस्य श्रोऽजाद्योःऽ इत्येवास्तु, एवमपि ह्यएवकारो न वक्तव्यो भवति? त्वत्पक्षेऽपि ठ्तरप् चऽ इति चकारः क्रियते, ततुल्यं भवति ॥
सिद्धान्तकौमुदी
इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥
अजादी गुणवचनादेव - अजादी । तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह — इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः ।गुणवचनादजादी एवे॑ति विपरीतनियमव्यावृत्त्यर्थ एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् ।
अजादी गुणवचनादेव - अजादी गुणवचनादेव । इष्टतोऽवधारणार्थ एवकारः । तेन प्रत्यय नियमोऽयम् । एवकाराऽभावे तुगुणवचनादजादिप्रत्ययावेवे॑ति प्रकृतिनियमोऽपि सम्भाव्येत । तथा च पटुतरः, पटुतम इत्यादि न सिध्येत् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अजादी गुणवचनादेव (2216) (नियमाधिकरणम्) (एवकारप्रयोजनभाष्यम्) एवकारः किमर्थः? नियमार्थः। नेतदस्ति प्रयोजनम्, सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति।। इष्टतोऽवधारणार्थस्तर्हि। यथैवं विज्ञायेत ‐ अजादी गुणवचनादेवेति। मैवं विज्ञायि ‐ अजादी एव गुणवचनादिति। किं च स्यात्? न व्यञ्ञ्जनादी गुणवचनात्स्याताम्।।