Page loading... Please wait.
5|3|55 - अतिशायने तमबिष्ठनौ
॥ तस्मै पाणिनये नमः ॥
5|3|55
SK 2001
अतिशायने तमबिष्ठनौ  
सूत्रच्छेदः
अतिशायने (सप्तम्येकवचनम्) , तमप्-इष्ठनौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अतिशायने तमप्-इष्ठनौ
सूत्रार्थः
"प्रकर्षेण" इत्यस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तमप् तथा इष्ठन् प्रत्ययौ भवतः ।
"अतिशायन" इत्यस्य अर्थः "प्रकर्षः" (eminent / most rigorous / most superior). अस्मिन् अर्थे प्रातिपदिकात् "तमप्" तथा "इष्ठन्" एतौ प्रत्ययौ भवतः ।

यथा -
1. केचन जनाः सन्ति, सर्वेऽपि पटवः (कुशलाः/ skillful इत्यर्थः) एव । परन्तु तेषु सर्वेषु अपि देवदत्तः अतिशयेन / प्रकर्षेण पटुः(most skillful amongst all) अस्ति इति चिन्तयामः । अस्यां स्थितौ देवदत्तस्य निर्देशः "अयम् अतिशयेन पटुः" इति भवितुम् अर्हति । अस्यैव निर्देशार्थम् "पटु" शब्दात् वर्तमानसूत्रेण "तमप्" तथा "इष्ठन्" एतौ प्रत्ययौ भवतः -
(अ) पटु + तमप् → पटुतम । प्रत्यये इत्संज्ञकः पकारः अनुदात्तौ सुप्पितौ 3|1|4 इत्यनेन प्रत्ययादिस्वरस्य अनुदात्तत्वं विधातुम् स्थापितः अस्ति ।
(आ) पटु + इष्ठन् → पटिष्ठ । अत्र टेः 6|4|155 इत्यनेन टिलोपे कृते रूपं सिद्ध्यति । प्रत्यये इत्संज्ञकः नकारः ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन समुदायस्य आद्युदात्तत्वम् दर्शयितुम् स्थाप्यते ।
एते सर्वेऽपि पटवः, परन्तु एतेषु देवदत्तः पटुतमः पटिष्ठः वा - इति अनयोः शब्दयोः प्रयोगः भवति ।

2. गुरु + तमप् → गुरुतम । गुरु + इष्ठन् → गरिष्ठ । प्रक्रियायाम् प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6|4|157 इति "गुरु"शब्दस्य "गर्" आदेशः भवति । एते सर्वे गुरवः (senior), भीष्मः एषाम् अतिशयेन गुरुः । अतः भीष्मः गुरुतमः गरिष्ठः वा ।

3. आढ्य (= धनवान्) + तमप् → आढ्यतम ।
("आढ्य" शब्दः गुणवाचकः नास्ति, अतः अस्मात् शब्दात् केवलम् "तमप्" प्रत्ययः एव भवति । "इष्ठन्" प्रत्ययस्य विषये अजादी गुणवचनादेव 5|3|58 इत्यनेन नियमः क्रियते येन अयम् प्रत्ययः गुणवाचकेभ्यः शब्देभ्यः एव भवति । अतः इष्ठन्-प्रत्ययः "आढ्य"शब्दात् न विधीयते) ।

विशेषः - केचन इष्ठन्-प्रत्ययान्तशब्दाः अतिशयार्थे पुनः "तमप्" प्रत्ययम् अपि स्वीकुर्वन्ति । यथा - प्रशस्य (excellent / eminent ) + इष्ठन् → श्रेष्ठ । प्रक्रियायाम् प्रशस्यस्य श्रः 5|3|60 इत्यनेन "प्रशस्य" इत्यस्य "श्र" इति आदेशं कृत्वा रूपं सिद्ध्यति । अतिशयेन प्रशस्यः सः श्रेष्ठः । अनेन प्रकारेण प्राप्तः यः "श्रेष्ठ" शब्दः, तस्मात् पुनः "अतिशयेन श्रेष्ठः" इत्यस्मिन् सन्दर्भे "तमप्" प्रत्ययं कृत्वा "श्रेष्ठतम" इति अपि शब्दः सिद्ध्यति । यथा - "युधिष्ठिरः श्रेष्ठतमः कुरूणाम्" । अत्र - "सर्वे कुरवः अतिशयेन श्रेष्ठाः, परन्तु युधिष्ठिरः तेषाम् अपि अतिशयेन श्रेष्ठः" - इति अर्थस्य निर्देशार्थम् "श्रेष्ठतम" इति शब्दः प्रयुज्यते । एवमेव "वरिष्ठतम", भूयिष्ठतम", "गर्विष्ठतम", "कनिष्ठतम" - आदयः प्रयोगाः अपि दृश्यन्ते । परन्तु एतादृशाः प्रयोगाः विरलाः सन्ति, शिष्टप्रयोगम् अनुसृत्यैव एषाम् प्रयोगः कर्तव्यः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "अतिशायेन" इति शब्दः उक्तः अस्ति । वस्तुतः तु अयम् आर्षप्रयोगः । "शीङ्" धातोः "अति" उपसर्गं योजयित्वा तस्य ल्युट्-प्रत्ययं कृत्वा "अतिशयन" इति शब्दः सिद्ध्यति । अत्र शकारात् परः अकारः अस्ति, न हि आकारः । परन्तु अस्मिन् सूत्रे "अतिशायन" इति शकारोत्तरम् आकारम् स्वीकृत्य शब्दप्रयोगः क्रियते । अयम् आकारः केनापि सूत्रेण न सिद्ध्यति, अतः निपातनेन एव अस्य साधुत्वम् गृह्यते । प्रयोगे तु अस्य शब्दस्य प्रयोगः न कर्तव्यः, अतः विग्रहवाक्येषु "अतिशय" (most prominent इत्यर्थः) इति शब्दः प्रयुज्यते । यथा - "एते सर्वे लघवः, अयम् एतेषाम् अतिशयेन लघुः, अतः अयम् लघुतमः लघिष्ठः" वा ।

2. तमप्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य तसिलादिषु आकृत्वसुचः 6|3|35 इत्यनेन पुंवद्भावः भवति । यथा -
एताः सर्वाः दर्शनीयाः । इयम् एतासाम् आतिशयेन दर्शनीया , अतः इयम् दर्शनीयतमा । अत्र प्रक्रिया इयम् -
दर्शनीया + तमप्
→ दर्शनीय + तमप् [पुंवद्भावः]
→ दर्शनीयतम
→ दर्शनीयतम + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्]
→ दर्शनीयतमा । [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

परन्तु ये स्त्रीप्रत्ययान्तशब्दाः ईकारान्ताः (= ङीप् / ङीष् / ङीन्-प्रत्ययान्ताः) सन्ति, तेषां विषये "तमप्" प्रत्यये परे तसिलादिषु आकृत्वसुचः 6|3|35 इत्येनन प्राप्तं पुंवद्भावं बाधित्वा घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6|3|43 इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । यथा -
पट्वी + तमप्
→ पट्वि + तमप् [घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6|3|43 इत्यनेन अङ्गस्य ह्रस्वादेशः]
→ पट्वितम
→ पट्वितम + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्]
→ पट्वितमा [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

तथा च, ये नदीसंज्ञकाः शब्दाः ङीप्/ङीष्/ङीन्-प्रत्ययान्ताः न सन्ति, तेभ्यः तेषां विषये "तमप्" प्रत्यये परे पुंवद्भावं बाधित्वा नद्याः शेषस्यान्यतरस्याम् 6|3|44 इत्येनन अङ्गस्य विकल्पेन ह्रस्वादेशः भवति । यथा -
ब्रह्मबन्धू + तमप्
→ ब्रह्मबन्धू / ब्रह्मबन्धु + तमप्
→ ब्रह्मबन्धूतम / ब्रह्मबन्धुतम
→ ब्रह्मबन्धूतम / ब्रह्मबन्धुतम + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्]
→ ब्रह्मबन्धूतमा / ब्रह्मबन्धुतमा [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

विशेषः - नद्याः शेषस्यान्यतरस्याम् 6|3|44 इत्यत्र पाठितेन कृन्नद्याः प्रतिषेधो वक्तव्यः इत्यनेन वार्त्तिकेन "लक्ष्मी", "श्री" एतयोः शब्दयोः विषये अयम् वैकल्पिकः ह्रस्वादेशः निषिध्यते, अतः अत्र दीर्घादेशः नित्यं भवति । यथा - लक्ष्मी + तमप् → लक्ष्मीतमा । श्री + तमप् → श्रीतमा ।

3. इष्ठन्-प्रत्यये परे स्त्रीवाचिनः अङ्गस्य भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः इत्यनेन वार्त्तिकेन पुंवद्भावः भवति । यथा -
पट्वी + इष्ठन्
→ पटु + इष्ठन् [पुंवद्भावः]
→ पट् + इष्ठन् [टेः 6|4|155 इति टिलोपः]
→ पटिष्ठ
→ पटिष्ठ + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्]
→ पटिष्ठा [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

4. "तरप्" तथा "तमप्" एतयोः प्रत्यययोः तरप्तमपौ घः 1|1|22 इत्यनेन "घ" इति संज्ञा भवति ।

5 यदि द्वयोः एव तुलना अस्ति ("एतौ द्वौ पटू, अयम् एतयोः अतिशयेन पटुः - इति) तर्हि वर्तमानसूत्रम् बाधित्वा द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 इत्यनेन "तरप्" तथा "ईयसुन्" एतौ प्रत्ययौ भवतः । यथा - एतौ द्वौ पटू, अयम् एतयोः पटुतरः पटीयान् वा ।

6. यद्यपि अनेन सूत्रेण "तमप्" तथा "इष्ठन्" द्वावपि प्रत्ययौ समान-सन्दर्भे उक्तौ स्तः, तथापि अजादी गुणवचनादेव 5|3|58 इत्यनेन इष्ठन्-प्रत्ययस्य प्रयोगः केवलम् गुणवाचकेभ्यः शब्देभ्यः एव नियम्यते । अतः "अतिशयेन पाचकः" इत्यत्र केवलम् "तमप्" प्रत्ययं कृत्वा "पाचकतम" इति शब्दः सिद्ध्यति । "पाचक" शब्दः गुणवाची नास्ति, अतः अस्मात् शब्दात् "इष्ठन्" प्रत्ययः न भवति ।

7. यदि वर्तमानसूत्रेण विहितः तमप् प्रत्ययः "अद्रव्यप्रकर्षे" विधीयते (the subject of comparison is not a physical entity), तर्हि अस्मात् "तमप्" प्रत्ययान्तशब्दात् नित्यम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 इत्यनेन नित्यम् "आम्" प्रत्ययः भवति । यथा - "एते सर्वे उच्चैः क्रन्दन्ति, अयम् एतेषु अतिशयेन उच्चैः क्रन्दति, अतः अयम् उच्चैस्तमाम् क्रन्दति" । अत्र "उच्चैः" इत्यनेन शब्देन क्रन्दनक्रियायाः प्रकर्षः क्रियते । क्रन्दनक्रिया इति किञ्चन वस्तु न, अतः अत्र "तमप्" प्रत्ययान्तशब्दात् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 इत्यनेन नित्यम् "आम्" प्रत्ययः भवति, येन "उच्चैस्तमाम्" इत्येव रूपम् जायते । अस्मिन् विषये अधिकम् जिज्ञासवः किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 एतम् सूत्रम् पश्यन्तु ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अतिशयनम् अतिशायनं प्रकर्षः। निपातनाद् दीर्घत्वम्। प्रकृत्यर्थविशेषणं च एतत्। अतिशायनविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः। प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति। सर्व इमे आढ्याः, अयम् एषाम् अतिशयेन आढ्यः आढ्यतमः। दर्शनीयतमः। सुकुमारतमः। अयम् एषाम् अतिशयेन पटुः पटिष्थः। लघिष्ठः। गरिष्ठः। यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव। देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। युधिष्ठिरः श्रेष्ठतमः कुरूणाम् इति।
`अतिशायनम्` इति। ल्युट्। यद्यपि शेतिः केवलः स्वप्ने वत्र्तते, तथाप्यतिपूरह्वस्य प्रकर्षे वृत्तिः, अत एवाऽ‌ऽह--`प्रकर्षः` इति। ननु चातिशयनमिति भवितव्यम्? इत्याह--`निपातनाद्दीर्घत्वम्` इति। निपातनं त्वतिशायनशब्दस्य कथम्? साधुत्वं विज्ञायते इत्येवमर्थम्। `प्रकृतिविशेषणं चैतत्` इति। प्रत्ययाशङ्कां निराकरोति। प्रकृत्यर्थविशेषणं स्वाथिकानां द्योत्यं भवतीति न वाच्यम्; तस्य प्रकृतिवाच्यत्वाकत्। `पटिष्ठः, लघिष्ठः` इति। `तुरिष्ठेमेयस्सु` 6|4|154 इति टिलोपः। `गरिष्ठः` इति। `प्रियस्थिरस्फिरोरुबहुलगुरु` 6|4|157 इत्यादिना गुरुशब्दस्य गरादेशः। `प्रकर्षप्रत्ययान्तादपरेण प्रत्ययेन न भवितव्यम्, एकेनैव प्रत्ययस्य द्योतितत्वात्` इति यो मन्यते, तं प्रत्याह--`यदा च` इति। यत्र प्रथमे प्रकर्षे आतिशायनिको विहितः`; तत्र तेनैव द्योतितत्वाद्द्वितीयो मा भूत प्रकर्षप्रत्ययः। प्रकर्षान्तरत्वे आतिशायनप्रत्ययान्ताद्युक्तमेवापरेणातिशायिकेन प्रत्ययेन भवितुम्, तदद्योतितत्वादिति भावः। इष्ठनि परतः `प्रशस्यस्य श्रः` 5|3|60 , पूर्वेण सह `आद्गुणः` 6|1|84 । इष्ठन्प्रत्यान्तात्? तमप्प्रकर्षप्रत्ययः। अत्र प्रतियोग्यपेक्षो यः प्रकर्षः पूर्वस्मात्? प्रकर्षात्? स प्रकर्ष इष्ठन्प्रत्ययेन द्योतितः। ननु च नास्यातिशायिकस्य विधायकं वाक्यमस्ति, येन तस्मिन्? विहिते तदन्तादपरः प्रकर्ष आतिशायानिको विधीयेत, इदमेव ह्रेकं वाक्यम्, तत्रानेनैव विधीयमाने प्रकर्षप्रत्ययो तदन्तायाः प्रकृतेरसम्भव इत्ययुक्त आतिशायिकादपरस्यातिशायिकस्य भावः? नैष दोषः; इह विधीयमानप्रतत्ययभेदाद्द्वे एते वाक्ये, तत्रैकेनेष्ठन्? विधीयते, अपरेण तु तदन्तात्? तमप्॥
अतिशयनमतिशायनमिति। भावे ल्युट्। यद्यप्यनन्तरमेव वक्ष्यति--निपातनाद्दीर्घत्वमिति, तथापि ठबाधकान्यपि निपातनानि भवन्तिऽ इत्यदीर्घेणाप्यर्थनमुपपद्यते। अन्ये तु--अतिशयोऽतिशायनमिति पठन्ति, अतिशायनं प्रकर्ष इत्येवान्ये। प्रकर्ष इति। यद्यपि केवलः शेतिः स्वप्ने वर्तते, तथाप्यतिपूर्वस्य प्रकर्षे वृत्तिः ॥ उपसर्गवशाद्धातुरर्थान्तरविलासकृत्। विहाराहारसंहारप्रहारपरिहारवत् ॥ प्रकर्षश्चात्र नाधिक्यं किं तर्ह्यतिशयो मतः। सकर्मको ह्ययं शुक्लमतिशेत हतीष्यते ॥ निपातनादिति। यदिदमस्मिन्सूत्रे दीर्घोच्चारणं तदेव निपातनम्। ठ्सौत्रोनिर्द्देशःऽ इत्येष परिहारोऽत्र नोदितः; यस्मात्सूत्राद्बहिरपि प्रयोगोऽस्याब्युपेयते। एतदर्थमेव च लघुरपि प्रकर्षशब्दो नोपातः। प्रकृत्यर्थविशेषणं चैतदिति। न प्रकृत्यर्थः, अतिशायने वर्तमानादिति। तथा हि सति अतिशयप्रकर्षादिभ्य एव स्यात्। नापि प्रत्ययार्थः, तथा हि सति आढ।ल्स्यातिशयनमाढ।ल्तममिति स्यात्। आढ।ल्स्येति कर्मणि कर्तरि वा षष्ठी, उभयथाप्याढ।ल्तमो देवदत इति सामानाधिकरण्यं न स्यात्। नापि प्रत्ययार्थविशेषणम्, अन्यस्य कस्यचित् प्रत्ययार्थस्यानिर्द्देशात्। नापि प्रकृतेरेव विशेषणम्, अतिशायनीवेशिष्टान्ङ्याप्प्रातिपदिकादिति। प्रत्ययद्योत्यमतिशायनं प्रकृत्यभिहितस्य प्रधानस्यैवार्थस्य विशेषणं युक्तम्, न त्वर्थाभिधानं प्रति व्यग्रस्य गुणभूतस्य शब्दस्य। यदा त्वसावगुणभूतः, तदा भवत्येव प्रकर्षयोगः--उच्चतरः शब्दः, नीचतरः शब्द इति। ननु शुक्लादिवदेतत्स्यात्, तद्यथा--शुक्लतरः पट इति गुणभूतस्यापि शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यादयो हि द्रव्यसमवेताः, युक्तं यत्स्वयं प्रकृष्टा प्रकर्षयन्ति, शब्दस्तु न तथेति कथं तत्प्रकर्षेण द्रव्यं प्रकर्ष्यताम्! प्रातिपदिकादिति। प्रकृतेरिदमुपलक्षणम्। सुबन्तातु प्रत्ययः। उक्तं हि--ठ्प्रियकुत्सनादिषुऽ ततः प्रवर्ततेऽसौ विभक्त्यन्तःऽ इति, ठ्घकालतनेषु कालनाम्नःऽ इत्यलुग्विधानमप्येवमेवोपपद्यते। स्वार्थ इति। यद्येवम्, कुमारितमेत्यव्यतिरिक्तं वय इति कृत्वा ठ्वयसि प्रथमेऽ इति ङीप् प्राप्नोति ? कुमारशब्दादुत्पन्नेन ङीपा वयोविशिष्टस्यार्थस्य स्त्रीत्वं द्योतितिमति ङीब्न भविष्यति, तरबन्तातु स्त्रीत्वमात्राभिव्यक्तये टाब् भविष्यति। कुमारितम इति ह्युच्यमाने कुटीरः, शमीर इतिवल्लिङ्गान्तरं गम्येत। यद्वा--नात्र प्रज्ञ एव प्राज्ञः याव एव यावक इत्यादिवदत्यन्तस्वाथिकत्वं विवक्षितम्, किं तर्हि? ईषच्छुक्ले शुक्लतरे च गुणयोगस्य भावात् शुक्लशब्द एव प्रवर्तितुमर्हति, औपगवादौ तु नैवमित्येतावता स्वार्थिकत्ववाचोयुक्तिः। परमार्थतस्त्वस्मिन्प्रयोगे प्रकृष्टे शुक्लशब्दस्य प्रवृत्तिनिमितम्, तमबन्तस्य तु तद्गतः प्रकर्ष इति कुतोऽत्र ङीपः प्रसङ्गः! तदिदमुक्तम्--प्रकृत्यर्थविशेषणं च स्वर्थिकानां द्योत्यं भवतीति। अत्रापि यद्यपि तस्मिन्द्रव्ये बहवो गुणाःसन्ति, तथापि यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः प्रत्यासतेस्तत्प्रकर्षाश्रयः प्रत्ययः। तद्यथा--शुक्लादिभ्यो गुणप्रकर्षे, पाचकादिभ्यः क्रियाप्रकर्षे, वाहदोहादयो धर्माः, तत्प्रकर्षे प्रत्ययः। तद्यथा--गौरयं यः शकट्ंअ वहति, गोतरोऽयं यः शकट्ंअ वहति सीरं च, गौरियं या समांसमां विजायते, गोतरेयं या समांसमां विजायते स्त्री वत्सा च, अश्वोऽयं श्चत्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ गच्छतीति। एतेन संख्यापरिमाणप्रमाणोन्मानशब्दा व्याख्याताः। न हि स्वतदो भवति, द्वितरः प्रस्थतरः वितस्तितरः सुवपर्णतरमिति, सर्वथा धर्मद्वारको द्रव्यस्य प्रकर्षो न स्वतः, यथा--शुक्लगुणयोगात्पटस्य शुक्लव्यपदेशः, तथा प्रकर्षव्यपदेशोऽपि, तत्प्रकर्षादेवेत्यर्थः। उक्तं च--- द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः। भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते॥ इति। ठव्यपदेश्यस्यऽ इति धर्मयोगमन्तरेण स्वरूपेण व्यपदेष्टुअमशक्यस्येत्यर्थः। तदेवमतिशायनशब्दो बावसाधनः, प्रकृत्यर्थविशेषणं च, स्वार्थिकश्च प्रत्यय इति स्थितम्। अत एव प्रकृतितो लिङ्गवचनानि भवन्ति। यदि तु कर्तृसाधनः स्यात्, तदा यदि प्रकृत्यर्थस्ततोऽतिशायनातिशायकातिशयितृप्रभृतिभ्य एव स्यात्, तत्रापि स्वार्थे न प्रवृत्तिनिमितप्रकर्षे; अथ प्रत्ययार्थः, ततः सामर्थ्यलभ्या समर्थविभक्तिः। सा च यदि तिङ्न्तेन विग्रहस्तादा द्वितीया---शुक्लमतिशेते शुक्लतर इति। अथ कृ-दन्तेनातिशायनशब्देन, तदा षष्ठी--शुक्लस्यातिशायनः शुक्लतर इति। तथा च कालीमतिशेते कालः कालितर इति प्राप्नोति, कालमतिशेते काली कालतरेति प्राप्नोति। इह च गर्गानतिशेते गार्ग्यः कर्गतर इति प्राप्नोति, तथा गार्ग्यमतिशेरते गर्गाः गार्ग्यतरा इति प्राप्नोति। अथ करणसाधनः तत्रापि प्रकृत्यर्थश्चेद्येन गुणेनातिशेते तद्वाचिनः शौक्ल्यादेरेव स्यात्, शौक्ल्येन हि शुक्लः शुक्लान्तरमतिशेते। प्रत्ययार्थे तु शुक्लादिशब्दादतिशायने गुणो प्रत्ययः प्राप्नोति, गुणिसामानाधिकरण्यं न स्यात्--शुक्लतरः पट इति। अथ व्यन्तात्कर्तरि ल्युड्--अतिशाययतीत्यतिशायन् इति, एवमप सि एव दोषो यः करणपक्षे। गुणा हि गुणिनं प्रयुञ्जते---अस्माभिः प्रकृष्टैस्त्वं सजातीयमतिशेषेवेति, ततश्च प्रकृत्यन्तात्करणे ल्युटि यो दोषः स एवात्रापि भवति। अथ शेतिरवस्तानार्थः--पक्वाशयो जलाशय इतिवत्, ततोऽयमर्थः स्यात्--गुणा गुणिनि शेरते, अवतिष्ठन्ते, तान्गुण्यतिशाययतिउआत्मन्यतिशयेनावस्तापयतीति, ततश्च स एव दोषो यः प्रकृत्यन्तात्कर्तरि ल्युटि। अतिशायनशब्दश्च प्रकृत्यन्तो न साधितः स्यात्। तस्माद् वृत्तिकारोपदर्शित एवार्थो न्याप्यः ॥ पटिष्ठ इति। ठ्तुरिष्ठेमेयस्सुऽ टेरिति टिलोपः। गरिष्ठ इति। ठ्प्रियस्थिरऽ इत्यादीना गुरुशब्दस्य गरादेशः। ठ्प्रकर्षप्रत्ययान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यम्, एकेनैव प्रकर्षस्य द्योतितत्वात्ऽ इति मन्यमानं प्रत्ययाह--यदा चेति।आतिशायिकान्तादिति। अतिशये भव आतिशायिकः, अध्यात्मादित्वाट्ठञ्, अनुशतिकादित्वादुभयपदवृद्धिः। श्रेष्ठतमार्यति। ठ्प्रशस्यस्य श्रःऽ अत्र प्रकर्षरहितप्रतियोग्यपेक्षया यः प्रकर्षस्तत्रेष्टन्विहितः, तमप्प्रत्ययस्तु प्रकर्षवत्प्रतियोग्यपेक्षया यः प्रकर्ष इष्ठन्प्रत्ययेनद्योतितस्तस्मिन्नित्यपौनरुक्त्यम्। प्रत्ययद्वयस्य विधीयमानप्रत्ययभेदाच्च द्वे एते वाक्ये, तत्रैकेनेष्ठन्, अपरेण तदन्तातमप्। तेनैतन्न चोदनीयम्--यथा सनन्तान्न सन् भवति, तद्विदानवेलायां तदन्तस्य धातोरभावात्; तथा प्रकर्षप्रत्यान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यमिति ॥ भाष्ये तु प्रकर्षप्रत्ययान्तादपरः प्रकर्षप्रत्ययो नैव भवतीति स्थित्म्। तत्कयम्? न तावतरबन्तादपरस्य प्रसङ्गः--यत्र हि त्रयाणामेकः शुक्लः, द्वितीयः किञ्चित्प्रकृष्टः, तृतीयश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र द्वितीयस्य सदप्युत्कृष्टत्वं तृतीयसन्निधावकिञ्चित्करम्, राजसन्निधाविवामात्यस्येति। द्वितीयातावतरब्न भवति। तृतीयादपि न भवति, तस्मिन्नेव प्रयोगे त्रयाणामपेक्षितत्वेन द्विवचनोपपदत्वाभावात्। एतेनेयसुन्व्याश्यातः। नापि तमबन्तादपरस्य प्रसङ्गः। यत्र हि चतुर्णा द्वौ शुक्लौ, तृतीयः किञ्चिचदुत्कृष्टः, चतुर्थश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र तृतीयस्य सदप्युत्कृष्टत्वं चतुर्थसन्निधौ पूर्ववदकिञ्चित्करम्, चतुर्थातु तमबेव भवति। एतेनेष्ठन्व्याख्यातः। कथं तर्हि श्रेष्ठतमाय कर्मणे इति? छान्दसत्वात्स्वार्थिकस्तमब् द्रष्टव्यः। युधिष्ठिरः श्रेष्ठतमः कुरुणाम् इति त्वन्याप्यमेव मन्यते ॥
सिद्धान्तकौमुदी
अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥
अतिशायने तमबिष्ठनौ - अतिशायने । अतिपूर्वकः शीङ्धातुरुपसर्गवसादुत्कर्षे वर्तते । उत्कर्षश्चाधिक्यफलको न्यक्कारः, नत्वाधिक्यमात्रं, तथा सति अकर्मकत्वापातात् । न चेष्टापत्तिः, तथा सतिशुक्लमतिशेते कृष्णतरः॑ इत्यादिभाष्यविरोधात् । अतिशयिता=अतिशायनः बाहुलकः कर्तरि ल्यु॑डिति भाष्यम् । अत एव निपानाद्दीर्घः । "अतिशायने" इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात्प्रातिपदिकात्स्वार्थे तमप् इष्टन् च स्यादित्यर्थः । फलितमाह — अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दाच्छुक्लादिगतमतिशयनमिति बोधः स्यान्नत्वतिशयितशुक्ल इति । तता च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् ।अतिशायने वर्तमाना॑दित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यान्नतु पट्वादिभ्यः । अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः । अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधि इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढ इति । द्रव्यस्य जातेर्वा त्वतः प्रकर्षयोगो नास्ति, अन्यथा "घटतम" इत्याद्यापत्तेः । किंतु गुणद्वारैव द्रव्य.जात्योः प्रकर्षयोगः । तथा च "आढतम" इत्यत्र उत्कर्षविशिष्ट आढ्यः प्रकृत्यर्थः तमप्तु तद्द्योतकः । तमपि सति "सुपो दाथु" इति सुपो लुक्, "घकालतनेषु" इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति ।श्रेष्ठतमाय कर्मणे॑ इति नुछान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति । लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते "इष्ठेमेयस्सु" इत्यनुवृत्तौटे॑रिति टिलोपः ।
अतिशायने तमबिष्ठनौ - अतिशायने । अतिपूर्वाच्छेतेर्ल्युट् । अतिशयनमेवातिशयनम् । अस्मादेव निपातनाद्दीयः । नचु सौत्रः । तेन लोकेऽपि दीर्घः साधुः ।अबाधकान्यपि निपातनानि भवन्ति॑ । तेन ह्यस्वोऽपि साधुः । यद्यपि केवलः शोतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे । प्रकर्षश्चात्र नाधिक्यं, किं त्वभिभवः,पूर्वान्महाभागतयाऽतिशेषे॑इति प्रयोगदर्शनात् । न चैवंप्रकर्षे तमबिष्ठनौ॑इत्येव कुतो न सूत्रितमिति शङ्क्यम्, अतिशायनमिति निपातनार्थमेव तथोक्तत्वात् । अतिशयो न प्रत्ययार्थः, तथा हि सति लघोरतिशायनं लघुतममिति स्यात् । प्रत्ययार्थस्य फ्राधान्यात् । नापि प्रकृत्यर्थः, तथा हि सति प्रकर्षातिशयनादिभ्य एव स्यात्, न त्वाढआदिभ्यः । किं तु प्रकृत्यर्थविशेषणम् । प्रत्ययस्तु द्योतकः । तदेतदाह — -अतिशयविशिष्टेत्यादि । अयमेषामिति । द्व्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते तदा तरबीयसुनावपवादौ वक्ष्येते । तथा च परिशेषाद्बहूनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः । आढतम इति । सुबन्तात्तमप् ।सुपो धात्वि॑ति लुक् । यद्यपिङ्याप्प्रातिपदिका॑दित्येवानुवर्तते तथापि सुबन्तपरतयैव व्याख्येयम् । अन्यथा हि पूर्वाह्णेतमामित्यादौघकालतनेषु कालनाम्नः॑इति सप्तम्या अलुग्विधानं कथमुपपद्येत ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अतिशायने तमबिष्ठनौ (2213) (तमपोऽधिकरणम्) (अतिशयनार्थबोधकभाष्यम्) अतिशायन इत्युच्यते ‐ किमिदमतिशायन इति? देश्याः सूत्रनिबन्धाः क्रियन्ते। यावद् ब्रूयात्प्रकर्षे अतिशय इति तावदतिशायन इति।। (प्रकर्षान्वयबोधकभाष्यम्) कस्य पुनः प्रकर्षे प्रत्यय उत्पद्यते? ङ्याप्प्रातिपदिकात्(4।1।1) इति वर्तते, ङ्याप्प्रातिपदिकस्य प्रकर्षे। ङ्याप्प्रातिपदिकं वै शब्दः, न च शब्दस्य प्रकर्षापकर्षौ स्तः। शब्देऽसंभवादर्थे कार्यं विज्ञास्यते।। (प्रातिपदिकार्थप्रदर्शकभाष्यम्) कः पुर्नङ्याप्प्रातिपदिकार्थः? द्रव्यम्। न वै द्रव्यस्य प्रकर्ष इष्यते। एवं तर्हि ‐ गुणः।। (एकदेशिन गुणोपसंख्यानभाष्यम्) एवमपि गुणग्रहणं कर्तव्यम्। द्रव्यमपि ङ्याप्प्रातिपदिकार्थो गुणोऽपि। तत्र कुत एतत् ‐ गुणस्य प्रकर्षे भविष्यति, न पुनर्द्रव्यस्य प्रकर्ष इति।। (एकदेशिनः समानोपसंख्यानभाष्यम्) क्रियमाणे चापि गुणग्रहणे समानगुणग्रहणं कर्तव्यम्, शुक्लात्कृष्णे मा भूदिति।। (प्रत्याक्षेपभाष्यम्) न तर्हीदानीमिदं भवति ‐ अध्वर्युर्वै श्रेयान्, पापीयान्प्रतिप्रस्थाता, अन्धानां काणतम इति? (प्रत्याक्षेपपरिहारभाष्यम्) समानगुणे एषा स्पर्धा भवति ‐ अध्वर्युर्वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः। पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः। अन्धानां काणतम इति कणिरयं सौक्ष्म्ये वर्तते। सर्व इमे किंचित्पश्यन्ति, अयमेषां काणतम इति।। (एकदेशिन उपसंख्यानभाष्यम्) अदूरविप्रकर्ष इति वक्तव्यम्। इह मा भूत् ‐ महान् सर्षपः, महान् हिमवानिति।। (एकदेशिन उपसंख्यानभाष्यम्) जातेर्नेति वक्तव्यम्। इह मा भूत् ‐ वृक्षोऽयम्, प्लक्षोऽयमिति।। (प्रत्याक्षेपभाष्यम्) न तर्हीदानीमिदं भवति ‐ गोतरः, गोतरा, अश्वतरः, अश्वतरा ‐ इति। (प्रत्याक्षेपसमाधानभाष्यम्) नैष जातेः प्रकर्षः। कस्य तर्हि? गुणस्य। गौरयं यः शकटं वहति, गोतरोऽयं यः शकटं वहति सीरं च। गौरियं या समां समां विजायते, गोतरेयं या समां समां विजायते स्त्रीवत्सा च। अश्वोऽयं यश्चात्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ योजनानि गच्छति।। (एकदेशिन उपसंख्यानभाष्यम्) तथा तिङश्च 5।3।56 इत्यत्र क्रियाग्रहणं कर्तव्यम्, साधनप्रकर्षे मा भूत्।। (एकदेशिमतानां समाधानभाष्यम्) नैष दोषः। यत्तावदुच्यते ‐ गुणग्रहणं कर्तव्यम् इति। न कर्तव्यम्। यस्य प्रकर्षोऽस्ति तस्य प्रकर्षे भविष्यति। गुणस्य चैव प्रकर्षो न द्रव्यस्य। कथं ज्ञायते? एवं हि दृश्यते लोके ‐ इह समाने आयामे विस्तारे पटस्यान्योऽर्घो भवति काशिकस्य, अन्यो माथुरस्य। गुणान्तरं च खल्वपि शिल्पिन उत्पादयमाना द्रव्यान्तरेण प्रक्षालयन्ति। अन्येन शुद्धं धौतकं कुर्वन्ति, अन्येन शैफालिकम्, अन्येन माध्यमिकम्।। (एकदेश्याक्षेपस्य समाधानभाष्यम्) यदप्युच्यते ‐ क्रियमाणे चापि गुणग्रहणे समानगुणग्रहणं कर्तव्यम्, शुक्लात्कृष्णे मा भूत् इति। न कर्तव्यम्। समानगुण एव स्पर्धा भवति, न ह्याढ्याभिरूपौ स्पर्धेते। वाचकेन खल्वप्युत्पत्तव्यम्, न च शुक्लात्कृष्णे प्रत्यय उत्पद्यमानो वाचकः स्यात्।। (एकदेश्याक्षेपस्य समाधानभाष्यम्) यदप्युच्यते ‐ अदूरविप्रकर्षे इति वक्तव्यम् इति। न वक्तव्यम्। अदूरविप्रकर्षे एव स्पर्धा भवति, न हि निष्कधनः शतनिष्कधनेन स्पर्धते।। (एकदेश्याक्षेपस्य समाधानभाष्यम्) यदप्युच्यते ‐ जातेर्नेति वक्तव्यम् इति। न वक्तव्यम्। जननेन या प्राप्यते सा जातिः, न चैतस्यार्थस्य प्रकर्षापकर्षौ स्तः।। (एकदेश्याक्षेपस्य समाधानभाष्यम्) यदप्युच्यते ‐ तिङश्च इत्यत्र क्रियाग्रहणं कर्तव्यम्, साधनप्रकर्षे मा भूत् ‐ इति। न कर्तव्यम्। साधनं वै द्रव्यं, न च द्रव्यस्य प्रकर्षापकर्षौ स्तः।। (शौक्ल्यगुणस्यैकत्वप्रस्थापकभाष्यम्) किं पुनरेकं शौक्ल्यमाहोस्विन्नाना? किं चातः? यद्येकं, प्रकर्षो नोपपद्यते। न हि तेनैव तस्य प्रकर्षो भवति। अथ नाना, समानगुणग्रहणं कर्तव्यम् ‐ शुक्लात् कृष्णे मा भूदिति। अस्त्वेकं शौक्लयं, तत्तु विशेषवत्।। (गुणे विशेषप्रतिपादकभाष्यम्) किं कृतो विशेषः? अल्पत्वमहत्त्वकृतः। अथवा पुनरस्त्वेकं निर्विशेषं च। ननु चोक्तं प्रकर्षो नोपपद्यते न हि तेनैव तस्य प्रकर्षो भवति इति। गुणान्तरेण प्रच्छादनात् प्रकर्षो भविष्यति।। (नानात्वेऽपि दोषाभावप्रतिपादकभाष्यम्) अथवा पुनरस्तु नाना। ननु चोक्तं ‐ समानगुणग्रहणं कर्तव्यम्, शुक्लात् कृष्णे मा भूत् इति। न कर्तव्यम्। समानगुण एव स्पर्धा भवति। न ह्याढ्याभिरूपौ स्पर्धेते।। वाचकेन खल्वप्युत्पत्तव्यम्, न च शुक्लात्कृष्णे उत्पद्यमानो वाचकः स्यात्।। (अतिशायनार्थस्य प्रत्ययार्थत्वं प्रकृतिविशेषणत्वं वेतिविचारभाष्यम्) किमन्तात्पुनरुत्पत्त्या भवितव्यम्? (अतिशायनार्थस्यप्रत्ययार्थत्वप्रस्थापकभाष्यम्) द्वितीयाऽन्तात् अतिशय्यमानात्। शुक्लमतिशेते ‐ शुक्लतरः। कृष्णमतिशेते ‐ कृष्णतरः।। (प्रत्ययार्थत्वे दोषदर्शकभाष्यम्) यदि द्वितीयान्तादतिशय्यमानात् ‐ कालोऽतिशेते कालीम् ‐ कालितर इति प्राप्नोति, कालतर इति चेष्यते। तथा काली अतिशेते कालम् ‐ कालतरा इति प्राप्नोति, कालितरेति चेष्यते। तथा गार्ग्योऽतिशेते गर्गान् ‐ गर्गतर इति प्राप्नोति, गार्ग्यतर इति चेष्यते। तथा गर्गा अतिशेरते गार्ग्यं ‐ गार्ग्यतरा इति प्राप्नोति, गर्गतरा इति चेष्यते।। (अतिशायनार्थस्य प्रकृत्यविशेषणत्वाभिप्रायकभाष्यम्) एवं तर्हि प्रथमान्तात्स्वार्थिको भविष्यति ‐ कालोऽतिशेते ‐ कालतरः। काली अतिशेते ‐ कालितरा। गार्ग्योऽतिशेते ‐ गार्ग्यतरः। गर्गा अतिशेरते ‐ गर्गतराः।। (प्रकृत्यर्थविशेषणत्वे दोषदर्शकभाष्यम्) यदि प्रथमान्तात्स्वार्थिकः ‐ कुमारितरा, किशोरितरा ‐ अव्यतिरिक्तं वय इति कृत्वा वयसि प्रथमे 4।1।20 इति ङीप् प्राप्नोति। तरपोक्तत्वात् स्त्रीत्वस्य प्रत्ययो न भविष्यति। टाबपि तर्हि न प्राप्नोति। उक्तेऽपि हि भवन्त्येते टाबादयः। उक्तमेतत् ‐ स्वार्थिकाष्टाबादय इति। ङीबपि तर्हि प्राप्नोति।। (अतिशायनशब्देन प्रकृत्यर्थगतगुणाभिधानप्रस्तावभाष्यम्) एवं तर्हि गुणोऽभिधीयते।। (गुणाभिधाने दोषदर्शनपूर्वकं तन्निराकरणभाष्यम्) एवमपि लिङ्गवचनानि न सिध्यन्ति ‐ शुक्लतरम्। शुक्लतरा। शुक्लतरः। शुक्लतरौ। शुक्लतरा इति। आश्रयतो लिङ्गवचनानि भवन्ति। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा ‐ शुक्लं वस्रं, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भविष्यति।। (अतिशायनशब्देन प्रकृत्यर्थगतक्रियाऽभिधानप्रस्तावभाष्यम्) अथवा क्रियाऽभिधीयते।। (क्रियाऽभिधाने दोषदर्शनपूर्वकं तन्निराकरणभाष्यम्) एवमपि लिङ्गवचनानि न सिध्यन्ति। आश्रयतो लिङ्गवचनानि भविष्यन्ति। एवमपि द्विवचनं प्राप्नोति ‐ यश्च हि अतिशेते यश्चातिशय्यते उभौ तौ तस्याश्रयौ भवतः। नैष दोषः। कथम्? शेतिरकर्मकः। अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति। कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां वा भवन्ति, कर्तृस्थभावकश्च शेतिः।। (एकेनैव न्यासेन पक्षद्वयस्याप्युपपादनपरं भाष्यम्) अथ यद्येव द्वितीयान्तादुत्पत्तिः, प्रथमान्ताद्वा स्वार्थिकः, अथापि गुणोऽभिधीयते, अथापि क्रिया, किं गतमेतदियता सूत्रेण आहो स्विदन्यतरस्मिन् पक्षे भूयः सूत्रं कर्तव्यम्? गतमिंत्याह। कथम्? यदा तावद् द्वितीयान्तादुत्पत्तिः प्रथमान्ताद्वा स्वार्थिकः, तदा कृत्यल्युटो बहुलम् 3।3।113 इत्येवमत्र ल्युट् भविष्यति।। यद गुणोऽभिधीयते तदा न्यायसिद्धमेव।। यदाऽपि क्रिया तदाऽपि न्यायसिद्धमेव।। अथवाऽतिशाययतीत्यतिशायनम्। कः प्रयोज्यार्थः? गुणा गुणिनं प्रयोजयन्ति,गुणी वा गुणान्परयोजयति। कः पुनरिह शेत्यर्थः? इह यो यत्र भवति शेतेऽसौ तत्र गुणाश्च गुणिनि शेरते।। शेत्यर्थः कारितार्थो वा निर्देशोऽयं समीक्षितः। शेत्यर्थे नास्ति वक्तव्यं कारितार्थं ब्रवीमि ते।। गुणी वा गुणसंयोगाद् गुणो वा गुणिना यदि। अभिव्यज्येत संयोगात्कारितार्थो भविष्यति।। (वार्तिकावतरणभाष्यम्) इहास्यापि सूक्ष्माणि वस्त्राणि, अस्यापि सूक्ष्माणि वस्त्राणीति परत्वादातिशायिकः प्राप्नोति।। (5833 अतिव्याप्तिप्रत्याक्षेपे वार्तिकम्।। 1 ।।) - अतिशायने बहुव्रीहावुक्तम् - (भाष्यम्) किमुक्तम्? ठ पूर्वपदातिशये आतिशायिकाद्बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः उत्तरपदातिशये आतिशायिको बहुव्रीहेर्बह्वाढ्यतराद्यर्थः इति।। (वार्तिकावतरणभाष्यम्) इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि। तत्र पूर्वमपेक्ष्य उत्तरे द्वे तरबन्ते। तत्र द्वयोस्तरबन्तयोरेकस्मात्प्रकर्षयुक्ताच्छुक्लतरशब्दादुत्पत्तिः प्राप्नोति, शुक्लशब्दादेवेष्यते।। (5834 अतिव्याप्तिनिरासवार्तिकम्।। 2 ।।) - शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययविज्ञानम् - (भाष्यम्) शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययो विज्ञायते। शुक्लतरशब्दे शुक्लशब्दोऽस्ति तस्मादुत्पत्तिर्भविष्यति। नैतद्विवदामहे शुक्लतरशब्दे शुक्लशब्दोऽस्ति नास्तीति। किं तर्हि? शुक्लतरशब्दोऽप्यस्ति तत उत्पत्तिः प्राप्नोति।। (5835 अतिव्याप्तिनिरासवार्तिकम्।। 3 ।।) - तदन्ताच्च स्वार्थे छन्दसि दर्शनं श्रेष्ठतमायेति - (भाष्यम्) तदन्तादातिशायिकान्तात्स्वार्थे छन्दसि आतिशायिको दृश्यते ‐ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे।। (अतिव्याप्तिनिरासभाष्यम्) एवं तर्हि ‐ मध्यमात् शुक्लशब्दात्पूर्वपरापेक्षादुत्पत्तिर्वक्तव्या। मध्यमश्च शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः, परमपेक्ष्य न्यूनः। न च न्यूनः प्रवर्तते।। अथ वा उत्पद्यताम्, लुग्भविष्यति।। वाचकेन खल्वप्युत्पत्तव्यम्, न च शुक्लतरशब्दादुत्पद्यमानो वाचकः स्यात्।। न खल्वपि बहूनां प्रकर्षे तरपा भवितव्यम्। केन तर्हि? तमपा। पूर्वेण स्पर्धनामोऽयं मध्यमो लभते सितः। परस्मिन् न्यूनतामेति न च न्यूनः प्रवर्तते।। अपेक्ष्य मध्यमःपूर्वमाधिक्यं लभते सितः। परस्मिन्न्यूनतामेति यथाऽमात्यः स्थिते नृपे।। अस्तु वाऽपि तरस्तास्मान्नापशब्दो भविष्यति। वाचकश्चेत्प्रयोक्तव्यो वाचकश्चेत्प्रयुज्यताम्।।