Page loading... Please wait.
5|3|53 - भूतपूर्वे चरट्
॥ तस्मै पाणिनये नमः ॥
5|3|53
SK 1999
भूतपूर्वे चरट्   🔊
सूत्रच्छेदः
भूतपूर्वे (सप्तम्येकवचनम्) , चरट् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
भूतपूर्वे चरट्
सूत्रार्थः
"भूतपूर्व" इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे चरट्-प्रत्ययः भवति ।
"भूतपूर्वः" इत्युक्ते "पूर्वम् भूतः (used to exist before)" । "भूतपूर्वः" इत्यस्य विशेष्यरूपेण यत् प्रातिपदिकम् प्रयुज्यते, तस्मात् स्वार्थे "चरट्" प्रत्ययः भवति । "चरट्" इत्यत्र टकारस्य इत्संज्ञा भवति, अतः प्रयोगे "चर" इति प्रयुज्यते । यथा -

भूतपूर्वः आढ्यः (One who used to be rich earlier) = आढ्य + चरट् → आढ्यचरः ।
भूतपूर्वः सुकुमारः = सुकुमारचरः ।

स्त्रीत्वे टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्-प्रत्यये कृते "आढ्यचरी", "सुकुमारचरी" एतादृशाः शब्दाः सिद्ध्यन्ति ।

ज्ञातव्यम् - स्त्रीवाचिनः प्रातिपदिकात् चरट्-प्रत्यये विहिते तसिलादिषु आकृत्वसुचः 6|3|35 इत्यनेन पुंवद्भावः विधीयते । यथा - भूतपूर्वा आढ्या सा
= आढ्या + चर
→ आढ्य + चर [पुंवद्भावः]
→ आढ्यचर
→ आढ्यचर + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्-प्रत्ययः]
→ आढ्यचर् + ई [यस्येति च 6|4|148 इति अकारलोपः]
→ आढ्यचरी

विशेषः - "चरट्" प्रत्ययस्य आदिस्थस्य चकारस्य चुटू 1|3|7 इत्यनेन इत्संज्ञा न भवति, यतः अत्र इत्संज्ञायाः किमपि प्रयोजनम् न विद्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्व भूतः इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दो ऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं च एअत्। भूतपूर्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्वः आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी।
किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्; इह ह्रतिक्रान्तकालविशिष्टेऽर्थे वत्र्तमानात्? प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्रते। तथा हि--भूतशब्दो वत्र्तमानेऽप्यर्थे वत्र्तते, यथा--भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽ‌ऽह--`भूतपूर्वशब्दोऽतिक्रान्तकालवचनः` इति। अथ चकारस्य `चुट्` 1|3|7 इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्॥
भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः ठ्पौतन्येऽपि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते--भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा ठ्चुटूअऽ इत्यत्र प्रतिपादितम्। ठ्गोष्ठात्खञ्ऽ इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥
सिद्धान्तकौमुदी
आढ्यो भूतपूर्वः । आढ्यचरः ॥
भूतपूर्वे चरट् - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः ।
भूतपूर्वे चरट् - भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् ।गोष्ठात् खञि॑त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभवति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामथ्र्याद्बाधो नेति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.