Page loading... Please wait.
5|3|52 - एकादाकिनिच्चासहाये
॥ तस्मै पाणिनये नमः ॥
5|3|52
SK 1998
एकादाकिनिच्चासहाये   🔊
सूत्रच्छेदः
एकात् (पञ्चम्येकवचनम्) , आकिनिच् (प्रथमैकवचनम्) , च (अव्ययम्) , असहाये (सप्तम्येकवचनम्)
अनुवृत्तिः
कन्लुकौ  5|3|51 (प्रथमाद्विवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
एकात् असहाये आकिनिच्, कन् लुकौ च
सूत्रार्थः
"असहाय" अस्य विशेषणरूपेण प्रयुक्तः यः "एक" शब्दः, तस्मात् स्वार्थे आकिनिच् प्रत्ययः तथा कन्-प्रत्ययः भवति । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते ।
"असहायः" (without a company / alone / helpless) अस्य विशेषणरूपेण प्रयुक्तः यः "एक"शब्दः, तस्मात् स्वार्थे "आकिनिच्" तथा "कन्" एतौ प्रत्ययौ भवतः । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते । यथा -

1. असहायः एकः
= एक + आकिनिच्
→ एक + आकिन् [प्रत्ययस्थस्य चकारस्य इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः तस्यापि लोपः भवति ।]
→ एक् + आकिन् [यस्येति च 6|4|148 इति अकारलोपः]
→ एकाकिन्

2. असहायः एकः
= एक + कन्
→ एकक

3. असहायः एकः
= एक + X (प्रत्ययलुक्)
→ एक

अनेन प्रकारेण "असहायः एकः" अस्मिन् अर्थे "एकाकिन्", "एककः" तथा "एकः" एते शब्दाः प्रयुज्यन्ते ।

विशेषः - अस्मिन् सूत्रे प्रयुक्तः "एक" शब्दः सङ्ख्यायाः अर्थे न प्रयुज्यते, अपितु "असहायः कश्चन" इत्यस्मिन् अर्थे प्रयुज्यते । अतः "एकाकिन्" शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुम् अर्हन्ति - एकाकी, एकाकिनौ, एकाकिनः । यथा, शिशुपालवधे प्रयोगः दृश्यते - "एकाकिनोऽपि परितः पौरुषेयवृताविव" । अत्र "त्रयः जनाः एकाकिनः आसन्" इति अर्थः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकशदाद् सहायवाचिनः स्वार्थे आकिनिच् प्रत्ययो भवति। चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर् न स्यात्, एकाकिनौ, एकाकिनः।
`आकिनिचः कनो वा लुग्विज्ञायते` इति। प्रत्यासत्तेः। न तु प्रकारणान्तरविहितस्य; विप्रकर्षात्। `स च` इत्यादि यदि नित्यः स्यात्? तद्विधानमनर्थकं स्यात्। तस्माद्विधानसामथ्र्यात्? पक्षे भवति। किं पुनः कारणमसहायग्रहणं संख्याशब्दनिरासार्थं क्रियते? इत्याह--`तदुपादाने हि` इत्यादि। असत्यसहायग्रहणे संख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात्। तस्मिस्तु सति द्विबह्नोर्न स्यात्। न हि द्वयोर्बहुषु वा चैकत्वसंख्या विद्यते। असहायता तु शतस्यापि भवति; तुल्यजातीयान्यस्याभावात्--शतमसहायमिति। तेना सहायार्थस्य ग्रहणे द्विबह्वोरपि प्रत्ययः सिध्यति। अथ कस्मादाकिनिज्वधीयते, न अकनिजित्येवोच्येत, अत्रापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव? न सिध्यति; `अतो गुणे` 6|1|94 पररूपत्वम्, यस्येति 6|4|148 लोपश्च प्राप्नोति। अकारोच्चारणसामथ्र्यान्न भविष्यति? नैतदस्ति; अस्ति ह्रकारोच्चारणस्य प्रयोजनम्। किम्? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति। तस्मादाकिनिजेव विषेयः॥
आकिनिचः कनो वेति। तयोरेवानेन सूत्रेण विधानात्। एकधेत्यादौ तु सूत्रान्तरविहितस्य लुग् न भवति; असन्निधानात्। संख्याशब्दनिरासार्थमिति। अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्वात्। अस्तु, को दोषः ? तत्राह---तदुपादाने हीति। द्विबह्वोरिति। द्वित्वे बहुत्वे चेत्यर्थः। न हि द्वयोर्बहुषु वा एकत्वसंख्यास्ति। असहायत्वं तु परस्परव्यतिरिक्तसहायाभावेन बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदीर्घत्वेसिद्धमिष्टम्, यस्येतिलोपश्चाकारोच्चारणसामर्थ्यान्न भविष्यति ? न चावग्रहनिवृत्यर्थोऽकारः, नहि लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥
सिद्धान्तकौमुदी
चात्कन्लुकौ । एकः । एकाकी । एककः ॥
एकादाकिनिच्चासहाये - एकादाकिनिच्चा । असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः ।
एकादाकिनिच्चासहाये - एकाधाकिनिच्चा । असहायवाचिन एकशब्दादाकिनिच् स्यात् । कुन्लुकाविति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् । असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्, अन्यथा प्रसद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति । न हि द्वयोर्बहुषु वा एकत्वसंख्याऽस्ति । असहायत्वं तु परस्परातिरक्तसहायाऽभावेन द्वयोर्बहूनामपि भवति । इह अकिनिजेवायं वक्तव्यः, सवर्णदजीर्घेण सिद्धमिष्टम् ।यस्येति चे॑ति लोपश्चाऽकारोच्चारणसामथ्र्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एकादाकिनिच्चासहाये (2210) (आकिनिचोऽधिकरणम्) (5830 पूर्वपक्षिण उपसंख्यानवार्तिकम्।। 1 ।।) - एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानम् - (भाष्यम्) एकादाकिनिचि द्विबह्वर्थे प्रत्ययो विधेयः। एकाकिनौ। एकाकिन इति। किं पुनः कारणं न सिध्यति? एकशब्दोऽयं संख्यापदम्, संख्यायाश्च संख्येयमर्थः।। (5831 समाधानवार्तिकम्।। 2 ।।) - सिद्धं तु संख्यादेशवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? द्विबह्वर्थायाः संख्याया एकशब्द आदेशो वक्तव्यः।। (5832 प्रकारान्तरेण समाधानवार्तिकम्।। 3 ।।) - असहायस्य वा - (भाष्यम्) असहायस्य वा एकशब्द आदेशो वक्तव्यः। असहायः-एकाकी। असहायौ-एकाकिनौ। असहायाः-एकाकिनः। सिद्ध्यति। सूत्रं तर्हि भिद्यते।। (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तमेकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानमिति। नैष दोषः। अयमेकशब्दोऽस्त्येव संख्यापदम्। तद्यथा ‐ एकः, द्वौ, बहव इति। अस्त्यन्यार्थे वर्तते। तद्यथा ‐ सधमादो द्युम्न एकास्ताः। अन्या इत्यर्थः। अस्त्यसहायवाची। तद्यथा ‐ एकाग्नयः, एकहलानि, एकाकिभिः क्षुद्रैर्जितमिति। तद्योऽसहायवाची तस्यैष प्रयोगः।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।