Page loading... Please wait.
5|3|45 - द्वित्र्योश्च धमुञ्
॥ तस्मै पाणिनये नमः ॥
5|3|45
SK 1991
द्वित्र्योश्च धमुञ्   🔊
सूत्रच्छेदः
द्वि-त्र्योः (पञ्चम्या विपरिणम्यते) (पञ्चमीद्विवचनम्) , च (अव्ययम्) , धमुञ् (प्रथमैकवचनम्)
अनुवृत्तिः
अन्यतरस्याम्  5|3|44 (सप्तम्येकवचनम्) , धः  5|3|44 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
द्वि-त्र्योः धः धमुञ् अन्यतरस्याम्
सूत्रार्थः
"द्वि" तथा "त्रि" एताभ्याम् विहितस्य "धा" प्रत्ययस्य विकल्पेन "धमुञ्" इति आदेशः भवति ।
संख्याया विधार्थे धा 5|3|42 तथा अधिकरणविचाले च 5|3|43 एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः "धा" इति प्रत्ययः भवति । "द्वि" तथा "त्रि" एताभ्याम् विहितस्य अस्यैव "धा" प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन "धमुञ्" इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -

द्वि / त्रि + धा
→ द्वि / त्रि + धमुञ् ["धा" इत्यस्य "धमुञ्" आदेशः ]
→ द्वै / त्रै + धम् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ द्वैधम् / त्रैधम् ।

अयम् आदेशः विकल्पेन भवति, अतः पक्षे "द्विधा" तथा "त्रिधा" एते रूपे अपि भवतः ।

यथा - द्वैधम् भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रैधं वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वैधम् त्रैधम् वा कुरु ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - धमुञन्तात् स्वार्थे डदर्शनम् । इत्युक्ते, यद्यपि धमुञ्-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः सन्ति, तथापि तेभ्यः स्वार्थे कुत्रचित् "ड" प्रत्ययं कृत्वा "द्वैध / त्रैध" एतयोः प्रातिपदिकयोः निर्माणं कृत्वा तयोः सुबन्तरूपाणि उपयुक्तानि दृश्यन्ते । यथा - "तस्मिन्नेव मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत्" इति प्रयोगः महाभारतस्य वनपर्वे लभ्यते । अत्र "मतेः द्वैधम्" (Two forms of the same intellect / Two types of thoughts इत्याशयः) इत्यत्र समासे कृते "मतिद्वैधम्" इति जाते अस्मात् शब्दात् "ड" प्रत्ययः स्वार्थे भवति, येन "मतिद्वैध" इति प्रातिपदिकं सिद्ध्यति ।

ज्ञातव्यम् -
1. अनेन सूत्रेण निर्मितयोः "द्वैधम्" तथा "त्रैधम्" शब्दयोः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञा भवति ।
2. "द्वि" तथा "त्रि" एतेभ्यः विहितस्य "धा" प्रत्ययस्य विकल्पेन एधाच्च 5|3|46 इत्यनेन "एधाच्" आदेशः अपि भवति ।
3. अत्र निर्मितौ "द्वैधम्" तथा "त्रैधम्" इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुँसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । एतौ शब्दौ अव्ययसंज्ञकौ स्तः, अतः एतेभ्यः विहितानाम् सुँप्-प्रत्ययानाम् अव्ययादाप्सुपः 2|4|82 इत्यनेन लोपः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
धा इत्यनुवर्तते। द्वित्र्योः सम्बन्धिनो धाप्रययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञादेशो भवति अन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्विधा, द्वैधम्। त्रिधा, त्रैधम्। धमुञन्तात् स्वार्थे डदर्शनम्। मतिद्वैधानि संश्रयन्ते। मतित्रैधानि संश्रयन्ते।
`मतिद्वैधानि` इति। ननु च स्वार्थिकाः प्रकृतिधरहृआननुवत्र्तन्त इति लिङ्गसंख्याभ्यामत्र न भवितव्यम्? नैव दोषः; अतिवत्र्तन्ते हि कदाचित्? स्वार्थिकाः प्रकृतिधर्मान्? यथा--चत्वार एव वर्णाश्चातुर्वण्र्यमिति॥
भतिद्वैधानीति। एकशेषेण बहुवचनम्। क्वचित् पथि द्वैधानीति पाठः। धमुञन्तस्यालिङ्गसंख्यत्वेऽपि तदन्तात्स्वार्थे विहितस्याप्यस्य स्वभावाल्लिङ्गसंख्यायोगः, तेनाव्ययत्वं न भवति ॥
सिद्धान्तकौमुदी
आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ ।धमुञन्तात्स्वार्थे डदर्शनम् (वार्तिकम्) ॥ पथि द्वैधानि तृणानि ॥
द्वित्र्योश्च धमुञ् - द्वित्र्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । "ध" इतिअन्यतरस्या॑मिति चानुवर्तते । तदाह — आभ्यामिति ।परस्ये॑ति शेषः । धमुञन्तादिति । वार्तिकमिदम् । दृशिग्रहणात्क्वचिदेवायम् । पति द्वैधानीति ।तृणानी॑ति शेषः ।द्वैध॑मित्यस्माड्डप्रत्यये टिलोपे रूपम् । नचतसिलादयः प्राक् पाशपः॑ इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्,द्वैधानी॑ति भाष्यप्रयोगाच्च ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्वित्र्योश्च धमुञ्ञ् (2203) (धमुञ्ञोऽधिकरणम्) (5828 उपसंख्यानवार्तिकम्।। 1 ।।) - धमुञ्ञन्तात् स्वार्थे डदर्शनम् - (भाष्यम्) धमुञ्ञन्तात्स्वार्थे डो दृश्यते, स च विधेयः। पथि द्वैधानि। संशये द्वैधानि।।