Page loading... Please wait.
5|3|42 - संख्याया विधार्थे धा
॥ तस्मै पाणिनये नमः ॥
5|3|42
SK 1988
संख्याया विधार्थे धा  
सूत्रच्छेदः
संख्यायाः (पञ्चम्येकवचनम्) , विधार्थे (सप्तम्येकवचनम्) , धा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
सङ्ख्यायाः विधार्थे धा
सूत्रार्थः
"विधा" (= क्रियाप्रकारः) इत्यस्य विशेषणरूपेण प्रयुक्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः स्वार्थे "धा" प्रत्ययः भवति ।
"सङ्ख्या" इति व्याकरणविशिष्टा काचन संज्ञा । बहुगणवतुडति सङ्ख्या 1|1|23 इत्यनेन "बहु" शब्दः, "गण" शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा "डति"प्रत्ययान्तः कति-शब्दः एतेषां "सङ्ख्या" संज्ञा भवति । तथा च, "एक" / द्वि" आदीनाम् सङ्ख्याशब्दानाम् अपि "सङ्ख्या" इति संज्ञा दीयते । एते सर्वे शब्दाः यदा "क्रियाप्रकारः" अस्मिन् अर्थे प्रयुज्यते, तथा तेभ्यः शब्देभ्यः "क्रियाप्रकारम्" अस्मिन् अर्थे "धा" प्रत्ययः भवति । यथा -

1. एकेन प्रकारेण = एक + धा = एकधा । यथा - एकधा भुङ्क्ते ।
2. द्वयोः प्रकारयोः = द्वि + धा = द्विधा । यथा - द्विधा ब्रूते ।
3. त्रिभिः प्रकारैः = त्रि + धा = त्रिधा । यथा - त्रिभिः नयति ।
4. चतुर्भिः प्रकारैः = चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।
5. पञ्चभिः प्रकारैः = पञ्चन् + धा = पञ्चधा । [ नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]
6. षड्भिः प्रकारैः
= षष् + धा
→ षड् + धा [झलां जशोऽन्ते 8|2|39 इति जश्त्वम्]
→ षड्धा
7. बहुभिः प्रकारैः = बहु + धा = बहुधा
8. कतिभिः प्रकारैः = कति + धा = कतिधा
9. यावद्भिः प्रकारैः = यावत् + धा = यावद्धा

अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

स्मर्तव्यम् -
1. "क्रियायाः प्रकारः" अस्मिन् अर्थे एव अनेन सूत्रेेण "धा" प्रत्ययः विधीयते । केवलम् "प्रकारः" इति अर्थः अपेक्षते चेत् प्रकारवचने जातीयर् 5|3|69 इत्यनेन "जातीयर्" प्रत्ययः भवति । यथा - एकजातीय, द्विजातीय, बहुजातीय - आदयः ।
2. अत्र "क्रियायाः प्रकारः" इति उच्यते, अतः विग्रहवाक्ये अत्र तृतीयाविभक्त्याः प्रयोगः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा।
`प्रकारवचने च जातीयर्` 5|3|69 इति, तस्यायमपवादः। `विधा=प्रकारः` इत्यक्तः `प्रकारवचने थाल्` 5|3|23 इत्यत्र, स च द्रव्यगुणविशेषोऽप्यस्ति; तत्र यदि सोऽपि गृह्रेत द्रव्यगुणयोर्लिङ्गसंख्याभ्यां यीगाद्वा प्त्ययान्तमलिङ्गमसंख्यं च न स्यात्। एवञ्च तस्याव्ययत्वं न स्यात्, तच्चेष्टम्; तथा हि--धाप्रत्ययोऽव्ययेषु पठते--तसिलादिस्तद्धित एधाच्पर्यन्त इति। क्रियाविषये तु तस्मिन्? गृह्रमाणे न दोषः; क्रियायाः सर्वदा लिङ्गसंख्याभ्यामयोगादित्येतत्? चेतसि कृत्वाऽ‌ऽह--`स च` इत्यादि। क्रियाधातुवाच्यो विक्लेदनादिरर्थः, स च विषयोऽस्य स तथोक्तः। कथं पुनः सामान्योक्तौ विशेषस्य ग्रहणं लभ्यते? अर्थग्रहणस्य ह्रेतदेव प्रयोजनम्--प्रकारविशेषणं यथा स्यादिति, अन्यथा हि `विधायाम्` इत्येवं हि ब्राऊयात्। यदि तर्हि प्रकारः क्रियाविषयो गृह्रते, नवधा द्रव्यम्? नदधा गुण इत्यत्र न प्राप्नोति? नैष दोषः? अत्रापि क्रियाऽव्याहत्र्ततव्या। नवधा द्रव्यम्, नवधा गुण उपपाद्य विगृह्रते चेति॥
विधा प्रकार इति ठ्गृह्यतेऽ इति वक्ष्यमाणेन सम्बन्धः। यद्यप्योदनपिण्कडोऽपि विधाशब्देनोच्यते, तथापीह प्रकार एव गृह्यत इत्यर्थः। एतेन एका गोविधेत्यादौ न भवति। एतच्चार्थग्रहणाल्लभ्यते। इह हि विधायामिति वक्तव्ये यदर्थग्रहणं कृतं तस्यैतत्प्रयोजनम्----विधाशब्दो यत्रार्थे प्रसिद्धतरस्तस्य ग्रहणं यथा स्यात्। यथा च त्रिविधम्, बहुविधमित्यादौ प्रकारे प्रसिद्धो विधाशब्दः, न तथौदनपिण्कडे। सूत्रे च--विधाशब्दस्यार्थो विधार्थ इति षष्ठीसमासः। एवं वृतावपि। स च क्रियाविषय इति। एतच्चाभिधानस्वभावाल्लभ्यते। तदयमर्थ इत्याह--क्रियाप्रकारे इति। कथं तर्हि नवधा द्रव्यम्, बहुधा गुणाः, एकविशतिधा बाह्वृच्यम्, नवधाथर्वाणो वेद इति। अत्रापि हि सर्वत्र क्रिया प्रतीयते--उपदिश्यते इति, भवतीति वा। द्विधा गच्छतीत्यादावे कस्या एव गमनक्रियाया अवान्तरप्रकारभेदः प्रतीयते। एकधा भुङ्क्ते इत्यत्र तु प्रकारैक्यप्रतिपादनेन तन्निवृत्तिः। एकः पाक इत्यादौ तु पाकव्यक्तेरेक्त्वं विवक्षितम्, न त्ववान्तरप्रकारभेदाभावेनैकप्रकारत्वमिति धाप्रत्ययाभावः। तद्विवक्ष्यां तु भवत्येव--एकधा पाक इति। पञ्च पाका इत्यादौ च भिन्ना एव पाका विवक्षिताः, न त्वेकस्य प्रकारवत्वम्। तद्विवक्षायां तु तत्रापि भवितव्यमेव--पञ्चधा पाका इति ॥
सिद्धान्तकौमुदी
क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥
संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थः प्रकारो विधार्थः ।विधा विधौ प्रकारो विधार्थः ।विधा विधौ प्रकारे चे॑त्यमरः । सामान्यस्य भेदको विशेषः-प्रकारः । सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते । तदाह — क्रियाप्रकारेति । चतुर्धापञ्चधेति ।गच्छती॑त्यादि क्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः ।नवधा द्रव्य॑मित्यादावपिभवती॑त्यादि क्रियापदमध्याहार्यम् ।
संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थो विधार्थः । यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्रते । तेन एका गोविधेत्यादौ न भवति । इह हिविधाया॑मिति वक्तव्ये अर्थग्रहणस्य प्रयोजनं — विधाशब्दो यत्रार्थे प्रसिद्धतरस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्रते, अभिदानस्वभावात् । तदाह — -क्रियाप्रकारे वर्तमानादिति । कथं तर्हिनवधा द्रव्यं,॑ बहुधा गुणः॑ इत्यादि । अत्रापि ह्रश्रुता क्रिया प्रतीयतेउपदिश्यते इति वा॑इति हरदत्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
संख्याया विधार्थे धा (2200) (धाप्रत्ययाधिकरणम्) (विधार्थजिज्ञासाभाष्यम्) विधार्थ इत्युच्यते, को विधार्थो नाम? विधाया अर्थो विधार्थः।। यद्येवम् ‐ एका गोविधा, एका हस्तिविधा ‐ अत्रापि प्राप्नोति। एवं तर्हि ‐ (5826 विधार्थनिर्धारकवार्तिकम्।। 1 ।।) - धाविधानं धात्वर्थपृथग्भावे - (भाष्यम्) धाविधानं धात्वर्थपृथग्भाव इति वक्तव्यम्। (धात्वर्थपृथग्भावजिज्ञासाभाष्यम्) कः पुनर्धात्वर्थपृथग्भावः? किं यत्तद्देवदत्तः कंसपात्र्यां पाणिना ओदनं भुङ्क्त इति। नेत्याह। कारकपृथक्त्वमेतत्।। यत्तर्हि तत् ‐ कल्ये भुङ्क्ते, सायं भुङ्क्त इति। नेत्याह। कालपृथक्त्वमेतत्।। यत्तर्हि शीतं भुङ्क्ते, उष्णं भुङ्क्ते इति। नेत्याह। गुणपृथक्त्वमेतत्।। (धात्वर्थपृथग्भावनिर्द्धारकभाष्यम्) कस्तर्हि धात्वर्थपृथग्भावः? कारकाणां प्रवृत्तिविशेषः ‐ क्रिया।। यद्येवं क्रियाप्रकारेऽयं भवति। विधयुक्तगताश्च प्रकारे भवन्ति। एवंविधम्, एवंयुक्तम्, एवंगतम् ‐ एवंप्रकारमिति।।