Page loading... Please wait.
5|3|3 - इदम इश्
॥ तस्मै पाणिनये नमः ॥
5|3|3
SK 1949
इदम इश्   🔊
सूत्रच्छेदः
इदमः (षष्ठ्येकवचनम्) , इश् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
इदमः प्राग् दिशः इश्
सूत्रार्थः
"इदम्" शब्दस्य प्राग्दिशीय-विभक्तिप्रत्यये परे "इश्" इति आदेशः भवति ।
"इदम्" इति सर्वनामशब्दः । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5|3|2 अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुम् अर्हन्ति । एतेषु प्रत्ययेषु परेषु इदम्-शब्दस्य "इश्" इति आदेशः भवति । अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन अयम् सर्वादेशरूपेण विधीयते ।

यथा -
1. इदम् + तसिल् [पञ्चम्यास्तसिल् 5|3|7 इत्यनेन पञ्चमी-विभक्त्याः अर्थे इदम्-सर्वनाम्नः तसिल्-प्रत्ययः]
→ इदम् + तस् [लकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः ।]
→ इ + तस् [इदमः इश् 5|3|3 इत्यनेन इदम्-शब्दस्य "इ" इति सर्वादेशः]
→ इतः

2. इदम् + ह [इदमो हः 5|3|11 इत्यनेन इदम्-शब्दात् ह-प्रत्ययः]
→ इ + ह [इदमः इश् 5|3|3 इत्यनेन इदम्-शब्दस्य "इ" इति सर्वादेशः]
→ इह

ज्ञातव्यम् - सूत्रमिदम् तद्धितप्रकरणे विद्यते, न हि अङ्गाधिकारे । अतः अस्मिन् सूत्रे पाठितः "इ" इति आदेशः "अङ्गकार्यम्" इति न उच्यते, केवलं "प्राकृतिककार्यम्" इत्येव तस्य अभिधानम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्राग् दिशः। इदम् इशित्ययम् आदेशो भवति प्राग्दिशीयेषु प्रत्ययेशु परतः। शकारः सर्वादेशार्थः। इह।
`शकारः सर्वादेशार्थः` इति। असकति हि तस्मिन्? `अलोऽन्त्यस्य` 1|1|51 स्यात्। ततश्चेद्रूपस्य हलि लोपे 7|2|113 कृते, `आद्गुणे` 6|1|84 चैतः, एहेत्यनिष्टं रूपं स्यात्। ननु चेदमस्त्यदाद्यत्वे 7|2|102 कृतेऽतो गुणे 6|1|94 पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक्? त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्, इत्वमेव हि तावदन्तरङ्गं स्यात्। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्, त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्, तस्माच्छाकरः कत्र्तव्यः॥
शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥
सिद्धान्तकौमुदी
प्राद्गिशीये परे ॥
इदम इश् - इदम इश् । "प्रग्दिशीये परे" इति — शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात्सर्वादेशः । "इत" इत्युदाहरणम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.