Page loading... Please wait.
5|3|28 - दक्षिणोत्तराभ्यामतसुच्
॥ तस्मै पाणिनये नमः ॥
5|3|28
SK 1978
दक्षिणोत्तराभ्यामतसुच्   🔊
सूत्रच्छेदः
दक्षिण-उत्तराभ्याम् (पञ्चमीद्विवचनम्) , अतसुच् (प्रथमैकवचनम्)
अनुवृत्तिः
सप्तमी-पञ्चमी-प्रथमाभ्यः  5|3|28 (पञ्चमीबहुवचनम्) , दिग्-देश-कालेषु  5|3|28 (सप्तमीबहुवचनम्) , अस्तातिः  5|3|37 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
दक्षिण-उत्तराभ्याम् सप्तमी-पञ्चमी-प्रथमाभ्यः दिग्-देश-कालेषु अतसुच्
सूत्रार्थः
"दक्षिण" तथा "उत्तर" एतौ शब्दौ यदा "दिशा", "स्थान" उत "काल" एतेषु अर्थषु प्रयुज्येते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः "अतसुच्" इति प्रत्ययः स्वार्थे विधीयते ।
"दिशा", "देश", तथा "काल" इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 5|3|27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण "अस्ताति" प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण "दक्षिण" तथा "उत्तर" एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण "अतसुच्" प्रत्ययः विधीयते । अस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपः भवति ; "अतस्" इत्येव अवशिष्यते ।

उदाहरणे एते -

1. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः
= दक्षिणायाम् / दक्षिणे / दक्षिणस्याः / दक्षिणात् + अतस्
→ दक्षिण + अतस् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ दक्षिण् + अतस् [यस्येति च 6|4|148 इति अकारलोपः]
→ दक्षिणतः [सकारस्य रेफः, विसर्गः]
विशेषः - "दक्षिण" शब्दः "काल" अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।

2. उत्तरस्याम् दिशि / उत्तरे देशे / उत्तरे काले / उत्तरस्याः दिशः / उत्तरात् देशात् / उत्तरात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः
= उत्तरस्याम् / उत्तरे / उत्तरस्याः / उत्तरात् / उत्तरा / उत्तरः + अतस्
→ उत्तर + अतस् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ उत्तर् + अतस् [यस्येति च 6|4|148 इति अकारलोपः]
→ उत्तरतः [सकारस्य रेफः, विसर्गः]

अनेन सूत्रेण निर्मितयोः "दक्षिणतः" तथा "उत्तरतः" एतयोः द्वयोः अपि शब्दयोः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञा भवति ।

ज्ञातव्यम् - अस्मिन् सूत्रे "अतसुच्" इत्यस्य स्थाने "तसुच्" इति प्रत्ययः प्रोच्यते तथापि तादृशमेव रूपम् सिद्ध्येत् । परन्तु षष्ठ्यतसर्थप्रत्ययेन 2|3|30 इत्यस्मिन् सूत्रे विशिष्टरूपेण "अतस्" प्रत्ययस्य ग्रहणम् आवश्यकम्, अतः अत्र प्रत्यये अकारः स्थापितः अस्ति । यदि अत्र "तसुच्" इत्येव प्रत्ययः उच्येत, तर्हि षष्ठ्यतसर्थप्रत्ययेन 2|3|30 इत्यस्य स्थाने "षष्ठीतसर्थप्रत्ययेन" इति "तसर्थ" एतादृशः उल्लेखः आवश्यकः स्यात् । परन्तु एतादृशः उल्लेखः क्रियते चेत् अन्ये "तसर्थाः" (यथा - तसिल् प्रत्ययः) अपि अत्र निर्दिष्टाः भवेयुः, येषाम् ग्रहणम् अत्र न इष्यते । अतएव अत्र "अतसुच्" इत्यत्र प्रारम्भे अकारस्य योजनम् कृतम् अस्ति, येन अस्य प्रत्ययस्य अन्येभ्यः "तसर्थेभ्यः" भिन्नरूपेण विधानम् सम्भवेत् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दिक्षिणौत्तराभ्यां दिग्देशकालेषु वर्तमानभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थे ऽतसुच् प्रत्ययो भवति। अस्तातेरपवदः। दक्षिणाशब्दः काले न सम्भवति इति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिनतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेन 2|3|30 इति।
`अकारो विशेषणार्थः` इति। यद्यत्राकारो न क्रियते, तदा `षष्ठी तसर्थप्रत्ययेन` 2|3|30 इति सूत्रं कत्र्तव्यम्, एवञ्च सति तसिलोऽपि ग्रहणं स्यात्। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्। तस्मादकारो विशेषणार्थः कत्र्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वत्र्तेते, तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` (वा। 104) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कत्र्तव्यः, तत्र, `एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य` (व्या। प। 52) इति तसिलो ग्रहणं न भविष्यति? एवमपि `प्रतियोगे पञ्चम्यास्तसिः` 5|4|44 , `तेनैकदिक्` 4|3|112 , `तसिश्च` 4|3|113 इत्यन्यतरग्रहणं स्यात्। तस्माद्विशेषणार्थश्चकारः कत्र्तव्यः॥
किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः-- स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ? ठ्तसिलादिष्वाकृत्वसुचःऽ कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः--यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि ठ्सर्वनाम्नो वृत्तिमात्रे पुंवद्भावःऽ इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह--अकारो विशेषणार्थ इति। ठ्षष्ठी तसर्थप्रत्येनऽ इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ? ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्यऽ इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः ठ्प्रतियोगे पञ्चम्यास्तसिःऽ ठ्तेनैकदिक्ऽ, ठ्तसिश्चऽ, तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥
सिद्धान्तकौमुदी
अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥
दक्षिणोत्तराभ्यामतसुच् - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव "दक्षिणतः" इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् "पुरत" इति प्रामादिकमेवेति बहवः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दक्षिणोत्तराभ्यामतसुच् (2186) (अतसुच्प्रत्ययाधिकरणम्) (न्यासाक्षेपभाष्यम्) किमर्थमतसुच् क्रियते, न तसुजेव क्रियेत? तत्रायमप्यर्थः ‐ स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्। का रूपसिद्धिः ‐ दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य? दक्षिणोत्तरशब्दावकारान्तौ तसुशब्दः प्रत्ययः।। (एकदेशिनः प्रयोजनभाष्यम्) भवेत्सिद्धम् ‐ यदा अकारान्तौ।। यदा तु खलु आकारान्तौ तदा न सिद्ध्यति।। (प्रत्याक्षेपभाष्यम्) तदाऽपि सिद्धम्। कथम्? पुंवद्भावेन। कथं पुंवद्भावः? तसिलादिष्वाकृत्वसुचः 6।3।35 इति।। (प्रत्याक्षेपसमाधानभाष्यम्) न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः, न चैतौ भाषितपुंस्कौ।। (दक्षिणोत्तराशब्दयोर्भाषितपुंस्कत्वाभावबोधकभाष्यम्) ननु च भोः दक्षिणशब्द उत्तरशब्दश्च पुंसि भाष्येते। समानायामाकृतौ यद्भाषितपुंस्कमित्युच्यते, आकृत्यन्तरे चैतौ भाषितपुंस्कौ ‐ दक्षिणोत्तरेति दिक्शब्दौ, दक्षिण उत्तर इति व्यवस्थाशब्दौ।। (व्यवस्थावाचित्वेऽपि दिग्वाचकत्वव्यवस्थाभाष्यम्) यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः, कथं यानि दिगपदिष्टानि कार्याणि? दिशो यदा व्यवस्थां वक्ष्यन्ति।। (व्यवस्थावाचित्वेऽतिप्रसङ्गापादकभाष्यम्) यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दः। रमणीयादिष्वतिप्रसङ्गो भवति ‐ रमणीया दिक्, शोभना दिगिति।। (अतिप्रसङ्गनिरासभाष्यम्) अथ मतमेतत् ‐ दिशि दृष्टो दिग्दृष्टः, दिग्दृष्टः शब्दो दिक्शब्द इति दिशं यो न व्यभिचरति न रमणीयादिष्वतिप्रसङ्गो भवति। पुंवद्भावस्तु न प्राप्नोति। एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः ‐ दक्षिणोत्तरपूर्वाणामित्येवमर्थम्।। (न्यासप्रयोजनभाष्यम्) विशेषणार्थं तर्हि। क्व विशेषणार्थेनार्थः? षष्ठ्यतसर्थप्रत्ययेन 2।3।30 इति। षष्ठी तसर्थप्रत्ययेनेत्युच्यमाने इहापि स्यात् ‐ ततो ग्रामात्, यतो ग्रामादिति।।