Page loading... Please wait.
5|3|25 - किमश्च
॥ तस्मै पाणिनये नमः ॥
5|3|25
SK 1973
किमश्च   🔊
सूत्रच्छेदः
किमः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
प्रकारवचने  5|3|23 (सप्तम्येकवचनम्) , थमुः  5|3|23 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
किमः प्रकारवचने थमुः
सूत्रार्थः
"किम्" सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
"किम्" इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् "प्रकारवचने" वाच्ये प्रकारवचने थाल् 5|3|23 इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण "थमु" इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे "थम्" इत्येव दृश्यते । प्रक्रिया इयम् -

केन प्रकारेण इत्येव
= केन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]
→ केन + थम् [उकारस्य लोपः]
→ किम् + थम् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ क + थम् [किमः कः 7|2|103 इति किम्-शब्दस्य "क" आदेशः ।]
→ कथम्

एतादृशं "केन प्रकारेण" इत्यस्मिन् अर्थे "कथम्" इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभागः उत्तरार्थः।
`योगविभाग उत्तरार्थः` इति। `था हेतौ च` 5|3|26 इति वक्ष्यति, स किम एव यथा स्यात्, इदमो मा भूदिति॥
योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥
सिद्धान्तकौमुदी
केन प्रकारेण कथम् ॥ । इति तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌ ।
किमश्च - किमश्च ।प्रकारवृत्तेस्थमु॑रिति शेषः । कथमिति । "किमः कः" इति कादेशः । **** इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः । ****अथ प्रागिवीयाः । — — — — — -
किमश्च - किमश्च । योगविबागःथा हेतौ च छन्दसी॑त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति । इति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.