Page loading... Please wait.
5|3|22 - सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः
॥ तस्मै पाणिनये नमः ॥
5|3|22
SK 1970
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः   🔊
सूत्रच्छेदः
सद्यः (अव्ययम्) , परुत् (अव्ययम्) , परारि (अव्ययम्) , ऐषमस् (अव्ययम्) , परेद्यवि (अव्ययम्) , अद्य (अव्ययम्) , पूर्वेद्युः (अव्ययम्) , अन्येद्युः (अव्ययम्) , अन्यतरेद्युः (अव्ययम्) , इतरेद्युः (अव्ययम्) , अपरेद्युः (अव्ययम्) , अधरेद्युः (अव्ययम्) , उभयेद्युः (अव्ययम्) , उत्तरेद्युः (अव्ययम्)
अनुवृत्तिः
सप्तम्याः  5|3|10 (पञ्चम्येकवचनम्) , काले  5|3|15 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
सप्तम्याः काले सद्यः-परुत्-परारि-ऐषमः-परेद्यवि-अद्य-पूर्वेद्युः-अन्येद्युः-अन्यतरेद्युः-इतरेद्युः-अपरेद्युः-अधरेद्युः-उभयेद्युः-उत्तरेद्युः (निपात्यन्ते)
सूत्रार्थः
काले अभिधेये स्वार्थे "सद्यः , परुत्, परारि, ऐषमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः" - एते शब्दाः निपात्यन्ते ।
अनेन सूत्रेण आहत्य चतुर्दशानाम् शब्दानाम् निपातनम् दीयते । एते सर्वे शब्दाः सप्तम्यन्तात् काले अभिधेये उचितं प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् सर्वेषाम् आवली इयम् -
सद्यः , परुत्, परारि, ऐधमः, परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः , अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः

क्रमेण पश्यामः । भाष्यकारेण प्रत्येकस्मिन् सन्दर्भे पाठितानि वार्त्तिकानि अपि अत्र दत्तानि सन्ति -

1. सद्यः - (समानस्य सभावो निपात्यते द्यश्च प्रत्ययः) । "समान" इति शब्दः यत्र "अहन्" (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "समाने" इत्यस्मात् शब्दात्) स्वार्थे "द्यस्" इति प्रत्ययं कृत्वा "सद्य" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
समाने अहनि इत्येव
= समान + द्यस् [द्यस्-प्रत्ययः]
→ स + द्यस् ["समान" इत्यस्य "स" इति आदेशः निपात्यते]
→ सद्यः [विसर्गनिर्माणम्]
"सद्यः" इत्युक्ते "समाने अहनि" (on the same day).

अग्रिमौ द्वौ शब्दौ पूर्वपरयोः परभावो निपात्यते, उदारी च प्रत्ययौ, संवत्सरे अभिधेये अस्मात् वार्त्तिकात् सिद्ध्यतः -

2. परुत् - "पूर्व" इति शब्दः यत्र "संवत्सर" (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "पूर्वे" इत्यस्मात् शब्दात्) स्वार्थे "उत्" प्रत्ययः भवति । प्रक्रिया इयम् -
पूर्वे संवत्सरे इत्येव
= पूर्व + उत्
→ पर+ उत् ["पूर्व" इत्यस्य "पर" आदेशः निपात्यते]
→ पर् + उत् [यस्येति च 6|4|148 इति अकारलोपः]
→ परुत्
"परुत्" इत्युक्ते "पूर्वस्मिन् संवत्सरे" (in the previous year)

3. परारि - "पूर्वतर" इति शब्दः यत्र "संवत्सर" (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "पूर्वतरे" इत्यस्मात् शब्दात्) स्वार्थे "आरि" प्रत्ययः भवति । प्रक्रिया इयम् -
पूर्वतरे संवत्सरे इत्येव
= पूर्वतर + आरि
→ पर + आरि ["पूर्वतर" इत्यस्य "पर" आदेशः निपात्यते]
→ पर् + आरि [यस्येति च 6|4|148 इति अकारलोपः]
→ परारि
"परारि" इत्युक्ते "पूर्वतरे संवत्सरे" (in the year previous to the previous year).

4. ऐषमः - (इदमः इश्भावः, समसण्-प्रत्ययो निपात्यते संवत्सरे अभिधेये) । "इदम्" इति शब्दः यत्र "संवत्सर" (year) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "अस्मिन्" इत्यस्मात् शब्दात्) स्वार्थे "समसण्" प्रत्ययः भवति । प्रक्रिया इयम् -
अस्मिन् संवत्सरे इत्येव
= इदम् + समसण्
→ इदम् + समस् [प्रत्यये णकारस्य इत्संज्ञा, सकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]
→ इ + समस् [इदमः इश् [5।3।3]] इति इश्-आदेशः]
→ ऐ + समस् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ ऐसमः [ससजुषो रुँः 8|2|66 इति रूँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
→ ऐषमः [आदेशप्रत्यययोः 8|3|59 इति षत्वम्]
"ऐषमः" इत्युक्ते "अस्मिन् संवत्सरे" (in the current year).

5. परेद्यवि - ( परस्मात् एद्यविः प्रत्ययः अहनि) । "पर" इति शब्दः यत्र "अहन्" (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "परस्मिन्" इत्यस्मात् शब्दात्) स्वार्थे "एद्यवि" इति प्रत्ययं कृत्वा "परेद्यवि" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
परस्मिन् अहनि इत्येव
= पर + एद्यवि [एद्यवि-प्रत्ययः]
→ पर् + एद्यवि [यस्येति च 6|4|148 इति अकारलोपः]
परेद्यवि
"परेद्यवि" इत्युक्ते "परस्मिन् अहनि" (on the next day / on a different day).

6. अद्य - (इदमः अश्भावः द्यश्च) । "इदम्" इति शब्दः यत्र "अहन् " (day) इत्यस्य विशेषणरूपेण प्रयुज्यते, तत्र सप्तम्यन्तात् (= "अस्मिन्" इत्यस्मात् शब्दात्) स्वार्थे "द्य" प्रत्ययः भवति । प्रक्रिया इयम् -
अस्मिन् अहनि इत्येव
= इदम् + द्य
→ अ + द्य [इदम्-शब्दस्य "अश्" इति आदेशः निपात्यते । शित्वात् सर्वादेशः।]
→ अद्य
"अद्य" इत्युक्ते "अस्मिन् अहनि" (today).

अग्रे विद्यमानानाम् सर्वेषाम् शब्दानाम् विषये "अहनि" इत्यस्मिन् सन्दर्भे स्वार्थे "एद्युसुच्" इति प्रत्ययः निपात्यते । अस्य सिद्ध्यर्थम् भाष्यकारः पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस्-प्रत्ययो निपात्यते अहनि अभिधेये इति वार्त्तिकम् पाठयति । सर्वान् शब्दान् क्रमेण पश्यामः । सर्वत्र प्रक्रियायाम् यस्येति च 6|4|148 इति अकारलोपं कृत्वा रूपं सिद्ध्यति इति स्मर्तव्यम् ।

7. पूर्वेद्युः -
पूर्वस्मिन् अहनि = पूर्व + एद्युस् → पूर्वेद्युः । On the previous day इत्यर्थः ।

8. अन्येद्युः -
अन्यस्मिन् अहनि = अन्य + एद्युस् → अन्येद्युः ।On the other day इत्यर्थः ।

9. अन्यतरेद्युः -
अन्यतरे अहनि = अन्यतर + एद्युस् → अन्यतरेद्युः । On any / either day इत्यर्थः ।

10. इतरेद्युः -
इतरस्मिन् अहनि = इतर + एद्युस् → इतरेद्युः । On a different day इत्यर्थः ।

11. अपरेद्युः -
अपरस्मिन् अहनि = अपर + एद्युस् → अपरेद्युः । On an another day इत्यर्थः ।

12. अधरेद्युः -
अधरस्मिन् अहनि = अधर + एद्युस् → अधरेद्युः ।On a previous / lower day इत्यर्थः ।

13. उभयेद्युः -
उभययोः अह्नोः = उभय + एद्युस् → उभयेद्युः । In two days / On both days इत्यर्थः ।
"उभय" शब्दस्य विषये भाष्यकारः अन्यद् अपि एकम् वार्त्तिकं पाठयति - द्युः च उभयात् वक्तव्यः । इत्युक्ते, "उभय" शब्दात् "द्युः" इति प्रत्ययः अपि भवति -
उभययोः अह्नोः = उभय + द्युस् → उभयद्युः । In two days / On both days इत्येव अर्थः ।

14. उत्तरेद्युः -
उत्तरस्मिन् अहनि = उत्तर + एद्युस् → उत्तरेद्युः । On a future / later day इत्यर्थः ।

स्मर्तव्यम् -
1. अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
2. एते सर्वे शब्दाः "काले" इत्यस्मिन् सन्दर्भे एव प्रयुज्यन्ते ।
3. महर्षिपाणिनिना एते सर्वे शब्दाः निपातनेनैव दत्ताः सन्ति । एतेषाम् विषये प्रकृतिः / प्रत्ययः / आदेशः एतादृशम् विधानम् तु भाष्यकारेण कृतम् अस्ति इति स्मर्तव्यम् ।

संक्षेपः - अनेन सूत्रेण सिद्धाः संक्षेपरूपेण सर्वे शब्दाः अधः दत्ताः सन्ति -
[अ] दिवसवाचकाः शब्दाः (Words related to "day") -
- today = अद्य
- on the same today / currently = सद्यः
- On a previous day / earlier day = पूर्वेद्युः, अधरेद्युः
- On a next day / later day = उत्तरेद्युः, परेद्यवि
- On both days / In two days = उभयेद्युः, उभयद्युः
- On some other / separate / different day = अन्येद्युः, अन्यतरेद्युः, अपरेद्युः, इतरेद्युः ।
[आ] संवत्सरवाचकाः शब्दाः (Words related to "year") -
- This year - ऐषमः
In previous year - परुत् ।
Two years ago - परारि
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्प्तम्याः इति काले इति च वर्तते। सद्यःप्रभृतयः शब्दाः निपात्यन्ते। प्रकृतिः, प्रत्ययः, आदेशः, कालविशेषः इति सर्वम् एतन् निपातनाल् लभ्यते। समानस्य सभावो निपात्यते द्यश्च प्रत्ययः अहन्यभिधेये। समाने ऽहनि सद्यः। पूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरे ऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारी। इदम इश्भावः समसण् प्रत्ययः निपात्यते संवत्सरे ऽभिधेये। अस्मिन् संवत्सरे ऐषमः। परस्मादेद्यवि प्रत्ययो ऽहनि। परस्मिन्नहनि परेद्यवि। इदमो ऽश्भावो द्यश्च प्रत्ययो ऽहनि। अस्मिन्नहनि अद्य। पूर्वान्य. अन्यतरैतरापराद्धरौभयौत्तरेभ्य एद्युस् प्रत्ययो निपात्यते अहन्यभिधेये। पूर्वस्मिन्नहनि पूर्वेद्युः। अन्यस्मिन्नहनि अन्येद्युः। अन्यतरस्मिन्नहनि अन्यतरेद्युः। इतरस्मिन्नहनि इतरेद्युः। अपरस्मिन्नहनि अपरेद्युः। अधरस्मिन्नहनि अधरेद्युः। उभयोरह्नोः उभयेद्युः। उत्तरस्मिन्नहनि उत्तरेद्युः। द्युश्च उभयाद् वक्तव्यः। उभयद्युः।
`समानेऽहनि सद्यः` इति। निमित्तनिमित्तिनोः समाने साधारणेऽहनि निपातनमेतत्। तद्यथा--सद्यः प्राणहरणं मर्मणि ताडनमिति। यस्मिन्नेवाहनि मर्मणि ताडनं तस्मिन्नेवाहनि प्राणरणमित्यर्थः। `उदारी च` इति। उच्च आरिश्चेति उदारी। `परस्मादेद्यवि` इति। परशब्दादेद्यविप्रत्ययो भवत्यहन्यभिधेये॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एते निपात्यन्ते ॥ ।समानस्य सभावो द्यश्चाहनि (वार्तिकम्) ॥ समानेऽहनि सद्यः ॥ ।पूर्वपूर्वतरयोः पर उदारीच संवत्सरे (वार्तिकम्) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ ।इदम इश् समसण् प्रत्यश्च संवत्सरे (वार्तिकम्) ॥ अस्मिन्संवत्सरे ऐषमः ॥ ।परस्मादेद्यव्यहनि (वार्तिकम्) ॥ परस्मिन्नहनि परेद्यवि ॥ ।इदमोऽश्द्यश्च (वार्तिकम्) ॥ अस्निन्नहनि अद्य ॥ ।पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् (वार्तिकम्) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ॥ ।द्युश्चोभयाद्वक्तव्यः (वार्तिकम्) ॥ उभयद्युः ॥
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः - सद्यःपरुत् । ॒समानस्य सभावो द्यश्चाहनी॑ति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात्सप्तम्यन्तात् द्यस्प्रत्ययः, समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । ॒पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे॑ इत्यपि भाष्यवाक्यम् । उच्च — आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये ।॒इदम इश् समसण् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । ॒परस्मादेद्यव्यहनी॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादेद्यविरिकारान्तः प्रत्ययः । ॒इदमोऽश्भावो द्यश्चे॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादकारान्तो द्यप्रत्ययः ।पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् चे॑त्यपि भाष्यवाक्यम् ।
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः - सद्यः परुत् । निपातनाद्विषयविशेषो लभ्यत इत्याह — — अहनीति । सप्तम्यन्तस्याऽहन्शब्दस्यार्थे इत्यर्थः । समानस्य सभावो द्यश्चाऽहनि । समानेऽहनीति । पर उदारीचेति ।पर॑इत्यादेशः, उदारी प्रत्ययौ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (2180) (निपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) सद्य इति किं निपात्यते? (5813 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 1 ।।) - समानस्य सभावो द्यश्चाहनि - (भाष्यम्) समानस्य सभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। समानेऽहनि सद्यः।। (वार्तिकावतरणभाष्यम्) परुत्परारीति किं निपात्यते? (5814 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 2 ।।) - पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे - (भाष्यम्) पूर्वपूर्वतरयोः परभावो निपात्यते, उदारी च प्रत्ययौ संवत्सरेऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारि।। (वार्तिकावतरणभाष्यम्) ऐषम इति किं निपात्यते? (5815 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 3 ।।) - इदमः समसण् - (भाष्यम्) इदमः समसण्प्रत्ययो निपात्यते संवत्सरेऽभिधेये। अस्मिन् संवत्सरे ‐ ऐषमः।। (वार्तिकावतरणभाष्यम्) परेद्यवीति किं निपात्यते? (5816 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 4 ।।) - परस्मादेद्यव्यहनि - (भाष्यम्) परस्मादेद्यविप्रत्ययो निपात्यतेऽहन्यभिधये। परस्मिन्नहनि ‐ परद्येवि।। (वार्तिकावतरणभाष्यम्) अद्येति किं निपात्यते? (5817 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 5 ।।) - इदमोऽश्भावो द्यश्च - (भाष्यम्) इदमोऽश्भावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। अस्मिन्नहनि ‐ अद्य।। (वार्तिकावतरणभाष्यम्) पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युरिति किं निपात्यते? (5818 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 6 ।।) - पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच् - (भाष्यम्) पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच्प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि ‐ पूर्वेद्युः। अन्यस्मिन्नहनि ‐ अन्येद्युः। अन्यतरस्मिन्नहनि ‐ अन्यतरेद्युः। इतरस्मिन्नहनि ‐ इतरेद्युः। अपरस्मिन्नहनि ‐ अपरेद्युः। अधरस्मिन्नहनि ‐ अधरेद्युः। उभयोरह्नोः ‐ उभयेद्युः। उत्तरस्मिन्नहनि ‐ उत्तरेद्युः।। (8819 उपसंख्यानवार्तिकम्।। 7 ।।) - द्युश्चोभयात् - (भाष्यम्) उभयशब्दाद् द्युश्च वक्तव्यः। तस्मान्मनुष्येभ्य उभयद्युः।।