Page loading... Please wait.
5|3|20 - तयोर्दार्हिलौ च च्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|3|20
SK 3499
तयोर्दार्हिलौ च च्छन्दसि   🔊
सूत्रच्छेदः
तयोः (पञ्चम्या विपरिणम्यते) (षष्ठीद्विवचनम्) , दा-र्हिलौ (प्रथमाद्विवचनम्) , च (अव्ययम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
ताभ्याम् दा-र्हिलौ छन्दसि
सूत्रार्थः
"इदम्" तथा "तद्" एत्येताभ्याम् यथासङ्ख्यम् "दा" तथा "र्हिल्" एतौ प्रत्ययौ वेदेषु कृतौ दृश्येते ।
वेदेषु केषुचन स्थलेषु "इदम्" इत्यस्मात् "दा" प्रत्ययः तथा "तद्" इत्यस्मात् "र्हि" प्रत्ययः कृतः दृश्यते । एतयोः साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणम् कृतम् अस्ति । क्रमेण पश्यामः -

1) इदम् + दा
→ इदा [इदमः इश् 5|3|3 इति इदम्-इत्यस्य "इश्" आदेशः । शित्त्वात् सर्वादेशः]
यथा - ऋग्वेदे 8.27.11 - इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।
अत्र "इदा" इति शब्दः "अस्मिन् काले" इत्यस्मिन् अर्थे प्रयुक्तः अस्ति ।

2. तद् + र्हिल्
→ त र्हि [त्यदादीनामः 7|2|102 इति दकारस्य अकारादेशः । अतो गुणे 6|1|97 इति पररूपम्]
→ तर्हि
अयम् "तर्हि" इति शब्दः "तस्मिन्" इत्यस्मिन् अर्थे प्रयुज्यते । ("तस्मिन् काले" इत्यस्मिन् अर्थे तु अनद्यतने र्हिलन्यतरस्याम् 5|3|21 इत्यनेन अग्रिमसूत्रेण लौकिकवैदिकसंस्कृतयोः उभयोः अस्य सिद्धिः भवितुम् अर्हति, अतः तस्य उदाहरणानि अत्र न देयानि)।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "तयोः" इति निर्देशः "इदम्" तथा "तद्" एतयोः निर्देशार्थम् अस्ति । पूर्वसूत्रेषु "इदम्" तथा "तद्" एतयोर्विषये आचार्येण उक्तम् अस्ति, तस्यैव सन्दर्भम् स्वीकृत्य अत्र आचार्यः "तयोः" इत्यनेन "इदम्" तथा "तद्" एतयोः ग्रहणम् करोति ।
2. पूर्वसूत्रेषु "इदम्" तथा "तद्" एताभ्याम् विहिताः अन्ये प्रत्ययाः अपि वेदेषु दृश्यन्ते एव - इति स्मर्तव्यम् ।
3. अनेन सूत्रेण साधितः "तर्हि" इति शब्दः केवलम् वैदिकसंस्कृते एव दृश्यते । लौकिकसंस्कृते प्रयुज्यमाणः "तर्हि" इति शब्दः अनद्यतने र्हिलन्यतरस्याम् 5|3|21 इत्यनेन पाठितः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तयोः इति प्रातिपदिकनिर्देशः। तयोरिदमः तदश्च यथासङ्ख्यं दार्हिलौ प्रत्ययौ भवतश् छन्दसि विषये। चकाराद् यथाप्राप्तं च। इदावत्सरीयः। इदं तर्हि। इदानीम्। तदानीम्।
`इदा`। `इदम इश्` 5|3|3 । तथा वर्णव्यत्ययेन दकारस्य धकारः। `इदानीं, तदानीं इति। दानीम्प्रत्ययस्योदाहरणम्॥
तयोरिति प्रातिपदिकनिर्द्देशः, व्यत्ययेन पञ्चम्याः स्थाने षष्ठी ॥
सिद्धान्तकौमुदी
इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तयोर्दार्हिलौ च च्छन्दसि (2178) (5812 तयोः इत्यस्यार्थनिर्देशवार्तिकम्।। 1 ।।) - तयोरिति प्रातिपदिकनिर्देशः - (भाष्यम्) तयोरिति प्रातिपदिकनिर्देशो द्रष्टव्यः।। द्वेष्यं विजानीयात् ‐ तयोः ‐ योगयोर्वा प्रत्यययोर्वेति। तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे ‐ तयोरिति प्रातिपदिकनिर्देश इति।।