Page loading... Please wait.
5|3|2 - किंसर्वनामबहुभ्योऽद्व्यादिभ्यः
॥ तस्मै पाणिनये नमः ॥
5|3|2
SK 1948
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः   🔊
सूत्रच्छेदः
किं-सर्वनाम-बहुभ्यः (पञ्चमीबहुवचनम्) , अद्‍व्यादिभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
किम्-सर्वनाम-बहुभ्यः अद्व्यादिभ्यः प्राक् दिशः विभक्तिः
सूत्रार्थः
सर्वादिगणे विद्यमानाः "सर्व" इत्यस्मात् आरभ्य "एक" इति यावत् शब्दाः, "बहु" शब्दः तथा च "किम्" शब्दः प्राग्दिशीय-विभक्तिप्रत्ययान् प्राप्नुवन्ति ।
विभक्तिसंज्ञकप्रत्ययाः केभ्यः प्रातिपदिकेभ्यः विधीयते तत् अनेन सूत्रेण स्पष्टीक्रियते । सूत्रे उपस्थितान् शब्दान् क्रमेण पश्यामः -

1. अद्व्यादिभ्यः सर्वनामेभ्यः -
सर्वादीनि सर्वनामानि 1|1|27 अनेन सूत्रेण सर्वनामशब्दानाम् आवली दीयते । इयमेव आवली "सर्वादिगणः" नाम्ना ज्ञायते । इयम् आवली एतादृशी दृश्यते - "सर्व, विश्व, उभ, उभय...., एक, द्वि, युष्मत्, अस्मत्, भवतुँ, किम्"

अस्याम् आवल्याम् "द्वि" इति यत् सर्वनाम वर्तते, तस्मात् आरभ्य अस्य गणस्य अन्तपर्यन्तम् ये शब्दाः पाठ्यन्ते - "द्वि, युष्मत्, अस्मत्, भवतुँ, किम्" - एतेषाम् सर्वेषां "द्व्यादयः" इत्यनेन अस्मिन् सूत्रे निर्देशः कृतः अस्ति । एतान् द्व्यादीन् विहाय सर्वादिगणस्य अन्ये शब्दाः विभक्तिसंज्ञकानं तद्धितप्रत्ययान् प्राप्तुम् अर्हन्ति - इति "अद्व्यादिभ्यः सर्वनामेभ्यः" इत्यस्य आशयः ।

2. "किम्" - किम् अयम् सर्वनामशब्दः यद्यपि द्व्यादिगणे विद्यते, तथापि तस्मात् विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुम् अर्हन्ति - इति स्पष्टीकर्तुम् अत्र "किम्" शब्दस्य विशिष्टरूपेण ग्रहणम् कृतम् अस्ति ।

3. "बहु" अस्मात् शब्दात् अपि विभक्तिसंज्ञकप्रत्ययाः भवितुम् अर्हन्ति ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - "किम्" , "बहु" एताभ्यां शब्दाभ्याम्, तथा च सर्वादिगणे विद्यमानेभ्यः परन्तु द्व्यादिगणे अविद्यमानेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुम् अर्हन्ति ।

यथा -
1. "तसिल्" प्रत्ययः - किम् + तसिल् → कुतः । बहु + तसिल् → बहुतः । सर्व + तसिल् → सर्वतः ।
2. "था" प्रत्ययः - यद् + था → यथा । तद् + था → तथा । सर्व + था → सर्वथा ।
3. "ह" प्रत्ययः - इदम् + ह → इह ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - बहुग्रहणे सङ्ख्याग्रहणम् । इत्युक्ते, "बहु" शब्दः यत्र "सङ्ख्या" ( = अनेके / many) अस्मिन् अर्थे प्रयुज्यते, तत्रैव विभक्तिसंज्ञकाः तद्धितप्रत्ययाः तस्मात् भवितुम् अर्हन्ति । अन्येषु अर्थेषु (यथा - विपुलता - too much /huge / large - अस्मिन् अर्थे) यदि अयं शब्दः प्रयुज्यते, तर्हि अस्मात् शब्दात् एते प्रत्ययाः न भवन्ति । यथा - "बहुभ्यः जनेभ्यः" इत्यत्र "बहुतः" इति प्रयोगः भवितुम् अर्हति, परन्तु "बहोः सूपात्" इत्यत्र "बहुतः" इति प्रयोगः न क्रियते ।

ज्ञातव्यम् - सर्वे विभक्तिसंज्ञकाः तद्धितप्रत्ययाः अस्मिन् सूत्रे पाठितेभ्यः सर्वेभ्यः शब्देभ्यः न विधीयन्ते । अस्मिन् विषये अग्रे विस्तारेण सूत्राणि पाठितानि सन्ति । अत्र केवलं विभक्तिसंज्ञक-तद्धितप्रत्ययानां "सीमारेषा" (domain) निर्धार्यते । इत्युक्ते, "विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवन्ति चेत् एतेभ्यः शब्देभ्यः एव भवन्ति, अन्येभ्यः न" - इति अस्य आशयः । अतः अस्मिन् सूत्रे अनुक्ताः ये शब्दाः - यथा - वन, वृक्ष, माला - आदयः - तेभ्यः एते प्रत्ययाः न भवन्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्राग्दिशः इत्येव। किमः सर्वनाम्नो बहुशब्दाच् च प्राग्दिशः प्रत्ययाः वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः , कुत्र। यतः, यत्र। ततः, तत्र। बहुतः, बहुत्र। अद्व्यादिभ्यः इति किम्? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसङ्ख्यानं किम्? वृक्षात्। वृक्षे। प्राग्दिशः इत्येव, वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणम् द्व्यादिपर्युदासात्। बहुग्रहणे सङ्ख्याग्रहणम्। इह न भवति, बहोः सूपात्, बहौ सूपे इति।
`कुत्र` इति। `सप्तम्यास्त्रल्` 5|3|10 , पूर्ववत्? कुभावः। `प्रकृतिपरिसंख्यानम्` इति। प्रकृतिपरिगणनम्। `वैयाकरणपाशः` इति। `याप्ये पाशप्` 5|3|47 । अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। `सर्वनामत्वादेव सिद्धे` इति। सर्वनामत्वं किमः सर्वादिषु पाठात्। `किमो ग्रहणम्` इत्यादि। किंशब्दोऽयं द्व्यादिषु पठत इति तस्य `द्व्यादिभ्यः` इति पर्युदासः क्रियते। तस्मात्? सर्वनाम्नोऽपि स्वशब्देनोपादानम्। यद्येवं द्विशब्दात्? पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कत्र्तव्यमेव भवति? सत्यमेतत्; न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते--`त्वञ्च कश्च` कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु। `बहुग्रहणे संख्याग्रहणम्` इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात्? तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि 1|1|22 सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। `बहोः सूपात्` इति। अत्र वैपुल्यवाची बहुशब्दः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना ।
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम् । द्व्यादिषु किंशब्दपाठे प्रयोजनं तु — -त्वं च कश्च कौ ।अहं च कश्च कौ । भवांश्चकश्च कौ इत्यत्र किमः शेषः,त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते॑इत्युक्तत्वात् ।
लघुसिद्धान्तकौमुदी
प्राग्दिशीये परे। इतः॥
महाभाष्यम्
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (2160) (5800 उपसंख्यानवार्तिकम्।। 1 ।।) - बहुग्रहणे संख्याग्रहणम् - (भाष्यम्) बहुग्रहणे संख्याग्रहणं कर्तव्यम्। इह मा भूत् ‐ बहौ, बहोः ‐ इति।। (आक्षेपभाष्यम्) अथ किमर्थं किम उपसंख्यानं क्रियते न सर्वनाम्न इत्येव सिद्धम्? (5801 समाधानवार्तिकम्।। 2 ।।) - द्व्यादिप्रतिषेधात्किम उपसंख्यानम् - (भाष्यम्) द्व्यादिप्रतिषेधात्किम उपसंख्यानं क्रियते। अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किम उपसंख्यानं क्रियते।।