Page loading... Please wait.
5|3|18 - दानीं च
॥ तस्मै पाणिनये नमः ॥
5|3|18
SK 1967
दानीं च   🔊
सूत्रच्छेदः
दानीम् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सप्तम्याः  5|3|10 (पञ्चम्येकवचनम्) , काले  5|3|15 (सप्तम्येकवचनम्) , इदमः  5|3|16 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
इदमः सप्तम्याः काले दानीम्
सूत्रार्थः
"इदम्" शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये "दानीम्" इति प्रत्ययः स्वार्थे विधीयते ।
अनेन सूत्रेण "दानीम्" इति प्रत्ययः पाठ्यते । "काले" इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । अस्मिन् प्रत्यये मकारस्य हलन्त्यम् 1|3|3 इत्यनेन इत्संज्ञायाम् प्राप्तायाम् न विभक्तौ तुस्माः 1|3|4 इत्यनेन सा निषिध्यते ।

अस्मिन् काले इत्येव
= अस्मिन् + दानीम्
→ इदम् + दानीम् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ इ + दानीम् ["इदम्" सर्वनाम्नः इदम इश् 5|3|3 इति इश्-आदेशः । शित्त्वात् सर्वादेशः ।]
→ इदानीम्
अनेन प्रकारेण निर्मितः "इदानीम्" शब्दः "अस्मिन् काले" इत्यस्मिन्नेव अर्थे प्रयुज्यते । तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अस्य अव्ययसंज्ञा भवति ।

स्मर्तव्यम् - इदमो र्हिल् 5|3|16 इत्यनेन "इदम्" इत्यस्य सप्तम्यन्तरूपात् "अस्मिन् काले" इत्यमिन्नेव अर्थे "र्हि" प्रत्ययः अपि विधीयते, येन "एतर्हि" इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः "इदानीम्" इत्येव ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इदमः सप्तम्यन्तात् काले वर्तमानाद् दानीं प्रत्ययो भवति। अस्मिन् काले इदानीम्।
दानीञ्चेति योगविभाग उत्तरार्थः--`तदो दा च` 5|3|19 इत्यत्र दानीमेव यथा स्यात्, पूर्वसूत्रविहितः प्रत्ययो मा भूदिति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इदानीम् ॥
दानीं च - दानीं च । इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दाद्दार्नीप्रत्ययः, इश् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दानीं च (2176) (दानींप्रत्ययाधिकरणम्) (अतिव्याप्त्याशङ्काभाष्यम्) इदानीम्। इदमस्तृतीयादिर्विभक्तिरुदात्ता भवतीत्येष स्वरः प्राप्नोति।। (5809 अतिव्याप्तिनिरासवार्तिकम्।। 1 ।।) - दानीमिति निपातनात्स्वरसिद्धिः - (भाष्यम्) दानीमिति निपातनात्स्वरसिद्धिर्भविष्यति। आद्युदात्तनिपातनं करिष्यते स निपातनस्वरो विभक्तिस्वरस्य बाधको भविष्यति।। (5810 प्रकारान्तरेण सिद्धिसाधकवार्तिकम्।। 2 ।।) - उक्तं वा - किमुक्तम्? आदौ सिद्धमिति।।