Page loading... Please wait.
5|3|16 - इदमो र्हिल्
॥ तस्मै पाणिनये नमः ॥
5|3|16
SK 1965
इदमो र्हिल्   🔊
सूत्रच्छेदः
इदमः (पञ्चम्येकवचनम्) , र्हिल् (प्रथमैकवचनम्)
अनुवृत्तिः
सप्तम्याः  5|3|10 (पञ्चम्येकवचनम्) , काले  5|3|15 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
इदमः सप्तम्याः काले र्हिल्
सूत्रार्थः
"इदम्" शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये "र्हिल्" इति प्रत्ययः स्वार्थे विधीयते ।
अनेन सूत्रेण "र्हिल्" ( = र् + ह् + इ + ल्) इति प्रत्ययः पाठ्यते । "काले" इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । प्रक्रिया इयम् -

अस्मिन् काले इत्येव
= अस्मिन् + र्हिल्
→ अस्मिन् + र्हि [लकारस्य इत्संज्ञा, लोपः]
→ इदम् + र्हि [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ एत + र्हि ["इदम्" सर्वनाम्नः रेफादौ विभक्तिप्रत्यये परे एतेतौ रथोः 5|3|4 इत्यनेन "एत" इति आदेशः ]
→ एतर्हि

अनेन प्रकारेण निर्मितः "एतर्हि" शब्दः "अस्मिन् काले" इत्यस्मिन्नेव अर्थे प्रयुज्यते । तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अस्य अव्ययसंज्ञा भवति ।

ज्ञातव्यम् - दानीं च 5|3|18 इत्यनेन "इदम्" इत्यस्य सप्तम्यन्तरूपात् "अस्मिन् काले" इत्यमिन्नेव अर्थे "दानीम्" प्रत्ययः अपि विधीयते, येन "इदानीम्" इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः "एतर्हि" इत्येव ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सप्तम्याः इत्येव, काले इति च। इदमः सप्तम्यन्तात् काले वर्तमानात् र्हिल् प्रत्ययो भवति। हस्य अपवादः। लकारः स्वरार्थः। अस्मिन् काले एतर्हि। काले इत्येव, इह देशे।
`हस्यापवादः` इति। `इदमो हः` 5|3|11 इति प्राप्तस्य। `लकारः स्वरार्थः` इति। `लिति` 6|1|193 प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। ननु च यथा इत इत्यत्र--`ऊडिदम्` 6|1|165 इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्, अस्य तु हिलो लित्करणमकृतार्थम्। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्। तस्माल्लित्स्वर एव भवति॥
लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥
सिद्धान्तकौमुदी
सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥
इदमो र्हिल् - इदमो र्हिल् । इदमः — र्हिल् इति च्छेदः । एतर्हीति । इदम्शब्दात् र्हिल् ।एतेतौ रथो॑रित्येतादेशः ।
इदमो र्हिल् - एतर्हीति ।एततौ रथोः॑एत्येतादेशः ।
लघुसिद्धान्तकौमुदी
सप्तम्यन्तात् काल इत्येव॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.