Page loading... Please wait.
5|3|111 - प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|3|111
SK 3502
प्रत्नपूर्वविश्वेमात्थाल् छन्दसि  
सूत्रच्छेदः
प्रत्न-पूर्व-विश्व-इमात् (पञ्चम्येकवचनम्) , थाल् (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
प्रत्न-पूर्व-विश्व-इमात् इवे छन्दसि थाल्
सूत्रार्थः
प्रत्न, पूर्व, विश्व, इम - एतेभ्यः शब्देभ्यः "इव" इति सन्दर्भे स्वार्थे वेदेषु "थाल्" प्रत्ययः कृतः दृश्यते ।
प्रत्न (old), पूर्व (earlier), विश्व (world) , इम (this) - एतेभ्यः शब्देभ्यः "इव" अस्मिन् सन्दर्भे स्वार्थे वेदेषु "थाल्" प्रत्ययः कृतः दृश्यते ।

यथा - ऋग्वेदे 5.44.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।

अत्र "प्रत्न + थाल् → प्रत्नथा" , "पूर्व + थाल् → पूर्वथा", "विश्व + थाल् → विश्वथा", "इम + थाल् → इमथा" एते शब्दाः प्रयुक्ताः सन्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रत्न पूर्व विश्व इम इत्येतेभ्यः इवार्थे थाल्प्रत्ययो भवति छन्दसि विषये। तं प्रत्नथा पूर्वथा विश्वथेमथा।
Text Unavailable. Please use feedback link below to provide the text if you have.
इम शब्द इदमा समानार्थः प्रकृत्यन्तरम् ॥
सिद्धान्तकौमुदी
इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.