Page loading... Please wait.
5|3|110 - कर्कलोहितादीकक्
॥ तस्मै पाणिनये नमः ॥
5|3|110
SK 2065
कर्कलोहितादीकक्   🔊
सूत्रच्छेदः
कर्क-लोहितात् (पञ्चम्येकवचनम्) , ईकक् (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
कर्क-लोहितात् इवे ईकक्
सूत्रार्थः
"कर्क" तथा "लोहित" शब्दाभ्याम् "इव" इति सन्दर्भे स्वार्थे ईकक् प्रत्ययः भवति ।
"कर्क" (= श्वेतः अश्वः / A white horse) तथा "लोहित"(reddish / copper-color) एताभ्यां शब्दाभ्याम् "इव" अस्मिन् सन्दर्भे स्वार्थे "ईकक्" प्रत्ययः विधीयते ।

कर्कः इव
= कर्क + इकक्
→ कार्क + इकक् [ किति च 7|2|118 इति आदिवृद्धिः]
→ कार्क् + ईकक् [यस्येति च 6|4|148 इति आकारलोपः]
→ कार्कीक ।
कर्कः इव अयम् पशुः = कार्किकः । An animal that is not a white horse but looks exactly like a white horse - इत्याशयः ।
एवमेव - लोहितः इव = लौहितीक । यथा - लौहितीकः स्फटिकः । A crystal that is not actually reddish but appears reddish due to reflection of light - इत्याशयः ।

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र "कर्क" तथा "लोहित" शब्दाभ्याम् "इव" इति सन्दर्भे ईकक् प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्कलोहितशब्दाभ्याम् इवार्थे ईकक् प्रत्ययो भवति। कर्कः शुक्लो ऽश्वः, तेन सदृशः कार्कीकः। लौहितीकः स्फटिकः। स्वयमलोहितो ऽप्युपाश्रयवशात् तथा प्रतीयते।
`इमथ` इति। इमेतीदमा समानार्थं प्रकृत्यन्तरमस्ति। तत इदं प्रत्ययविषानम्॥
स्वयमलोहित इत्यादि। उपाश्रयःऊपादानभूतो लाक्षादिः ॥
सिद्धान्तकौमुदी
कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥
कर्कलोहितादीकक् - कर्कलोहितादीकक् । कर्कः शुक्लोऽआ इति । अआउपर्यायेषु "सितः कर्कः" इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.