Page loading... Please wait.
5|3|11 - इदमो हः
॥ तस्मै पाणिनये नमः ॥
5|3|11
SK 1958
इदमो हः   🔊
सूत्रच्छेदः
इदमः (पञ्चम्येकवचनम्) , हः (प्रथमैकवचनम्)
अनुवृत्तिः
सप्तम्याः  5|3|11 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
इदमः सप्तम्याः हः
सूत्रार्थः
"इदम्" शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे "ह" प्रत्ययः भवति ।
"इदम्" इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् सप्तम्यास्त्रल् 5|3|10 इत्यनेन औत्सर्गिकरूपेण "त्रल्" प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण "ह" प्रत्ययः विधीयते । यथा -

अस्मिन् इत्येव
= अस्मिन् + ह
→ इदम् + ह [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सप्तमीप्रत्ययस्य लुक्]
→ इ + ह [इदम इश् 5|3|3 इति इश्-आदेशः]
→ इह

अनेन प्रकारेण "इह" इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अस्य अव्ययसंज्ञा विधीयते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इदमः सप्तम्यन्ताद् हःप्रत्ययो भवति। त्रलो ऽपवादः। इह।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
त्रलोऽपवादः इशादेशः । इह ॥
इदमो हः - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
त्रलोऽपवादः। इह॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.