Page loading... Please wait.
5|3|107 - शर्करादिभ्योऽण्
॥ तस्मै पाणिनये नमः ॥
5|3|107
SK 2062
शर्करादिभ्योऽण्   🔊
सूत्रच्छेदः
शर्करादिभ्यः (पञ्चमीबहुवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
शर्करादिभ्यः इवे अण्
सूत्रार्थः
शर्करादिगणस्य शब्देभ्यः "इव" अस्मिन् सन्दर्भे स्वार्थे "अण्" प्रत्ययः विधीयते ।
शर्करादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे अण् इति प्रत्ययः भवति ।

शर्करादिगणः अयम् - शर्करा, कपालिका, पिष्टिक, पुण्डरीक, शतपत्र, गोलोमन्, गोपुच्छ, नरालि, नकुला, सिकता ।

उदाहरणानि -
1. शर्करा इव = शर्करा + अण् → शार्करः ।
2. कपालिका इव = कपालिका + अण् → कापालिकः ।
2. सिकता इव = सिकता + अण् → सैकतः ।
आदयः ।

विशेषः -
1. स्त्रीत्वे विवक्षिते सर्वत्र टिड्ढाणञ्.. 4|1|15 इति ङीप्-प्रत्ययः विधीयते । यथा - शार्करी, सैकती - आदयः

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शर्करादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे अण्-प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शर्करा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इवार्थे अण् प्रत्ययो भवति। शर्करा इव शार्करम्। कापालिकम्। शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
शर्करेव शार्करम् ॥
शर्कराऽ‌ऽदिभ्योऽण् - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.