Page loading... Please wait.
5|3|106 - समासाच्च तद्विषयात्‌
॥ तस्मै पाणिनये नमः ॥
5|3|106
SK 2061
समासाच्च तद्विषयात्‌   🔊
सूत्रच्छेदः
समासात् (पञ्चम्येकवचनम्) , च (अव्ययम्) , तद्विषयात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्) , छः  5|3|105 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
तद्विषयात् समासात् इवे छः
सूत्रार्थः
इव-शब्दस्य प्रयोगेन समासे प्राप्ते ततः "इव" इत्यस्यैव प्रयोगेन निर्दिश्यमाने भिन्ने सन्दर्भे समस्तपदात् छ-प्रत्ययः विधीयते ।
भाषायाम् कुत्रचित् "इव" इति सन्दर्भं स्वीकृत्य समासस्य निर्माणं कृत्वा ततः पुनः"इव" इत्यस्मिन्नेव (परन्तु भिन्ने) सन्दर्भे "छ" इति प्रत्ययं कृत्वा केचन शब्दाः प्रयुज्यन्ते । यथा - "काकतालीय", "अजाकृपाणीय", "खल्वाटबिल्वीय", "अन्धकवर्तकीय" - आदयः । एतादृशानां शब्दानां सिद्ध्यर्थम् एतत् सूत्रम् निर्मितम् अस्ति ।

अधिक-स्पष्टतायै उदाहरणानि विस्तारेण पश्यामः -

1. "काकतालीय" इति शब्दम् स्वीकुर्मः ।"काकताल" इति शब्दात् वर्तमानसूत्रेण छ-प्रत्ययं कृत्वा "काकतालीय" इति शब्दः सिद्ध्यति । काकतालम् इव काकतालीयम् - इति आशयः । किम् नाम "काकतालम्"? "ताल" इति कस्यचन वृक्षस्य नाम (palm tree इत्यर्थः) । कश्चन काकः (crow) कस्यचन तालवृक्षस्य अधः आगच्छति, तस्मिन्नेव समये दैववशात् तालवृक्षस्य फलं शाखातः पृथक् भूत्वा काकस्य शिरसि निपतति, येन काकस्य मृत्युः जायते - इति सन्दर्भम् स्वीकृत्य "काकताल" इति शब्दः सिद्ध्यति । काकस्य आगमनम् इव तालस्य पतनम् इव (The arrival of the crow was as unexpected as the falling of the fruit)- इत्यस्मिन् अर्थे "इव" इति सन्दर्भे अयम् शब्दः निर्मीयते । अस्मात् शब्दात् पुनः "काकतालम् इव" इति सन्दर्भे वर्तमानसूत्रेण छ-प्रत्ययं कृत्वा "काकतालीय" इति शब्दः जायते । यदि द्वे सम्पूर्णरूपेण भिन्ने असम्बन्धिनी कार्ये काक-तालवत् एव समानकाले भवतः याभ्याम् कश्चन अपूर्वचिन्तितः प्रसङ्गः जायते, तर्हि तस्य "काकतालीय" शब्दस्य प्रयोगः क्रियते । The word काकतालीय is used to describe a situation (like काकताल) where two completely unrelated events happen together purely by chance, causing an unexpected result. । यथा, कश्चन देवदत्तः निबिडे अरण्ये यदा गच्छति तदा तस्मिन्नेव समये दैववशात् केचन दस्यवः तत्र आगत्य देवदन्तम् घ्नन्ति इति चिन्तयामः ।Devadatta goes in a deep forest, and by chance some dacoits come there at the same time and they kill Devadatta । अस्यां स्थितौ "देवदत्तस्य वनगमनम् तथा दस्यूनां च उपनिपातः" एते द्वे परस्पर-असम्बन्धिनी कार्ये "काकस्य आगमनम् तथा तालस्य पतनम् इव" स्तः इति सन्दर्भं दत्त्वा "काकताल" शब्दात् "छ" प्रत्ययं कृत्वा "काकतालीय" इति शब्दः सिद्ध्यति । देवदत्तस्य दस्यूनां च समागमः काकतालीयः - इति प्रयोगः अत्र क्रियते । अस्य स्पष्टीकरणार्थम् कौमुद्याम् उच्यते - "अतर्कित-उपनतम्" । Two unrelated acts coming together without any logical explanation - इति अर्थः । अस्मिन् सन्दर्भे "काकतालीय" शब्दः प्रयुज्यते ।

विशेषः - अत्र "इव" शब्दस्य द्विवारम् प्रयोगः भवति । तत् एतादृशम् -
अ) समासस्य निर्माणे "काकस्य आगमनम् इव तालस्य पतनम्" (The arrival of the crow was as unexpected as the falling of the fruit) इत्यस्मिन् सन्दर्भे "काक" तथा "ताल" एतयोः समासं कृत्वा "काकताल" शब्दः सिद्ध्यति । अयम् समासः केनापि सूत्रेण न जायते, अपितु केवलम् सह सुपा 2|1|4 इत्यस्य योगविभागेन "सुप्सुपा" इति सूत्रम् यत् जायते तस्य प्रयोगेन अस्य समस्तपदस्य सिद्धिः दीयते । अपि च, अत्र निर्मितः "काकताल" शब्दः तादृशः एव भाषायाम् नैव प्रयुज्यते, अपितु केवलम् वर्तमानसूत्रेण छ-प्रत्ययस्य विवक्षायाम् एव अस्य शब्दस्य निर्माणम् कृतम् अस्ति । अतः अत्र निर्मितात् "काकताल" शब्दात् अग्रिम-सोपानेन छ-प्रत्ययः नित्यमेव विधीयते - इति आशयः ।
आ) "काकताल" शब्दात् "काकतालः इव अयम् समागमः (Two things happening together just like the काकताल) इति सन्दर्भे वर्तमानसूत्रेण छ-प्रत्ययः भवति । अत्र अपि "इव" इत्येव सन्दर्भः अस्ति परन्तु समासनिर्माणे प्रयुक्तः य इवार्थः, तस्मात् अयम् भिन्नः अस्ति इति ज्ञेयम् । While constructing the samaas, two independent and dissimilar actions are equated using इव, where as in this step similarity between two pairs of actions is shown using इव. अत्र "काकताल" शब्दात् वर्तमानसूत्रेण "छ"प्रत्ययं कृत्वा "काकतालीय" इति शब्दः सिद्ध्यति ।

2) "अजाकृपाणीय" इति कश्चन अन्यः शब्दः अपि अनेन सूत्रेण सिद्ध्यति । अस्य अपि "काकतालीय" इत्यस्य समानम् एव अर्थः । काचन अजा कस्यचन स्तम्भस्य समीपे आगच्छति, तस्मिन्नेव समये दैववशात् तस्य स्तम्भस्य उपरि स्थापितः कृपाणः अधः अजायाः ग्रीवायां पतित्वा तेन अजायाः मृत्युः भवति । A lamb walks near a pole , and at the same time a weapon that was tied on the top of the pole falls on the neck of the lamb, thereby killing it. - इति आशयः । अस्मिन् सन्दर्भे "अजागमनम् इव कृपाणपतनम्" इति निर्देशयितुम् "अजाकृपाण" इति समस्तपदम् निर्माय तस्मात् "अजाकृपाणम् इव देवदत्त-दस्यु-समागमः" इत्यस्मिन् सन्दर्भे "अजाकृपाण + छ → अजाकृपाणीय" इति शब्दः सिद्ध्यति ।

3) "खल्वाटबिल्वीय" - अस्यापि अर्थः काकतालीयः इत्येव । तापेन त्रस्तः कश्चन खल्वाटः (Bald man irritated due to heat) छायार्थम् बिल्ववृक्षस्य अधः उपविशति । तस्मिन्नेव समये वृक्षात् बिल्वफलम् तस्य शिरसि पतति येन तस्य शिरवेदना जायते ।अत्रापि "परस्पर-असम्बन्धिनी द्वे कार्ये समानकाले भवतः" इति आशयं स्पष्टीकर्तुम् अस्य शब्दस्य प्रयोगः भवति । "खल्वाटागमनम् इव बिल्वपतनम्" इति सन्दर्भे आदौ समासं कृत्वा ततः "खल्वाटबिल्वम् इव देवदत्तहननम्" इति निर्देशयितुम् "खल्वाटबिल्वीय" शब्दः प्रयुज्यते । देवदत्तस्य मृत्युः खल्वाटवबिल्वीयः - इति वाक्यम् ।

एतादृशम् दैववशात् जायमानायाः कस्याश्चन अप्रियायाः घटनायाः निर्देशार्थम् "काकतालीय", "अजाकृपाणीय", "खल्वाटबिल्वीय" एते शब्दाः प्रयुज्यन्ते । Thse three words are typically used to indicate an unfortunate event that arises purely by chance. परन्तु कुत्रचित् दैववशात् काचन शुभघटना अपि भवति । तस्याः निर्देशार्थम् "अन्धकवर्तकीय" इति शब्दस्य प्रयोगः भवति । अयम् शब्दः अपि वर्तमानसूत्रेण सिद्ध्यति । तत् इत्थम् -

4) "अन्धकवर्तकीय" - अस्य शब्दस्य आशयः अयम् - कश्चन अन्धः मनुष्यः हस्तं प्रसार्य उपविष्टः आसीत् । तस्मिन्नेव समये दैववशात् "वर्तक" नाम कश्चन पक्षी तस्य हस्ते पतितः । A bird fell into hands of a blind person who was merely sitting by spreading his palms. । अनेन प्रकारेण दैववशात् प्रयत्नं विना अपि अन्धेन सः पक्षी हस्तगतः । The blind man was able to capture that bird (and later on use it for his own benefit) without any efforts, purely by luck. अनेन प्रकारेण यत्र परस्पर-असम्बन्धिनी द्वे कार्ये समानकाले भवतः येन कश्चन अनपेक्षितः लाभः जायते, तत्र "अन्धकवर्तकीय" शब्दः प्रयुज्यते । अत्रापि प्रारम्भे समस्तपदं कृत्वा ततः तद्धितान्तस्य निर्माणं भवति । यथा - "अन्धकहस्तप्रसारणम् इव वर्तकपतनम् इव" इति सन्दर्भे "अन्धकवर्तक" इति समासः, ततश्च "अन्धवर्तकीयः देवदत्तधनलाभः" इति तद्धितान्तः ।

स्मर्तव्यम् - अस्मिन् सूत्रे निर्दिष्टानि समस्तपदानि केवलम् छ-प्रत्ययस्य प्रयोगार्थम् एव जायन्ते । तेषाम् स्वतन्त्ररूपेण प्रयोगः न करणीयः ।

विशेषः - अनेन सूत्रेण निर्मिताः शब्दाः लौकिकन्यायरूपेण अपि प्रसिद्धाः सन्ति । यथा - काकतालीयन्यायः, अन्धकवर्तकीयन्यायः - आदयः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदित्यनेन प्रकृत इवार्थो निर्देश्यते। इवार्थविषयात् समासादपरस्मिन्निवार्थे एव छन्ः प्रत्ययो भवति। कालतालीयम्। अजाकृपाणीयम्। अन्धकवर्तकीयम्। अतर्कितोपनतं चित्रीकरणमुच्यते। तत् कथम्? काकस्यागमनं यादृच्छिकम्, तालस्य पतनं च। तेन तलेन पतता काकस्य वधःकृतः। एवम् एव देवदत्तस्य तत्रागमनं, दस्यूनां च उपनिपातः। तैश्च तस्य वधः कृतः। तत्र यो देवदत्तस्य दस्यूनां च समागमः, स काकतालसमागमसदृशः इत्येकः उपमार्थः, अतश्च देवदत्तस्य वधः, स कालतालवधसदृशः इति द्वितीयः उपमार्थः। तत्र प्रथमे समासः, द्वितीये प्रत्ययः। समासश्च अयम् अस्मादेव ज्ञापकात्, न ह्रस्य अपरं सक्षणम् अस्ति। सुप्सुपेति वा समासः। स च एवम् विषय एव।
`इदार्थविषयात्? समासात्` इति। इवशब्दस्यार्थ इवार्थः=सादृश्यं विषयो यस्य स तथोक्तः। यदि इवार्थविषयात्? समासाच्छो विधीयते, शस्त्रोश्यामा, पुरुषव्याघ्र इत्यत्रापि प्रप्नोति? नैष दोषः, न ह्रत्र समास इवार्थे वत्र्तते, किं तर्हि? पूर्वपदमुत्तरपदं वा--शस्त्रीव श्यामा, पुरुषोऽयं व्याघ्र इवेति। अथाप्येकदेशस्येवार्थे वत्र्तमानत्वात्? समासोऽणीवार्थं उच्यते, तथापि समासेनैवोक्तत्वान्न भविष्यति, यस्तु समासः स क इवार्थे वत्र्तेते? समासार्थावपर इवार्थो यत्रास्ति तत्रायं प्रत्य उक्तः। `परस्मिन्निवायं एव` इति। `इव` इत्यभिकारात्। `अतर्कितोपनतम्` इति। अबुद्धिपूर्वमुपस्थितमित्यर्थः। `चित्रिकरणम्` इति।विस्मयकरणमित्यर्थः। `तत्कथम्` इति। केन प्रकारेणातर्कितोपनतं चित्रीकरणमिति? -- इममर्थं पृच्छति--तत्कमित्यादि। `समासश्चायम्` इत्यादि। यदेतदिवार्थविषयात्? समासात्? प्रत्ययविधानम्, अत एव ज्ञापकादवसीयते--समासो भवति। कथं पुनरेतज्ज्ञापकमिति? आह--`न ह्रस्य` इत्यादि। इवार्थविषयस्य समाससामान्यस्य लक्षणं नास्तीति। तस्माद्यदेतत्? ततः प्रत्ययविधानम्, एतदेव तद्भावस्य ज्ञापकमुपपद्यते। अथ वा--किं पुनः कारणं ज्ञापकेन तद्भावः प्रतिपाद्यत इति? आह--`न ह्रस्य` इत्यादि। `स चैवं विषय एव` इति। इवार्थविषय एवेत्यर्थः॥
तदित्यनेन प्रकृत इवार्थो निद्दिश्यते इति। च्छप्रत्ययस्तु प्रधानतया प्रकृतोऽपि न परामृश्यते, अनेनैव तस्य विधानात्, समासस्य तद्विषयत्वानुपपतेः। अपरस्मिन्निवार्थ एवेति। एवकारः पौनर्वचनिकः। शस्रीश्यामादौ त्वेक इवार्थः समासेऽन्तर्भूत इति छाए न भवति। अजाकृपाणीयमिति। अजाया गच्छन्त्याः कृपणेनाधः पतता यथा वधस्तत्सदृशमित्यर्थः। अन्धकवतिकीयमिति। वर्तिकाउशकुनिविशेषः, तस्या अन्धहस्ते पतनं ग्रहणं च यादृच्छिकं तादृगित्यर्थः। अतकिंतोपपन्नमिति। अचिन्तितोपपन्नम् यादृच्छिकमित्यर्थः। चित्रीकरणमुविस्मयकरणम्। कथमिति। सामान्येनायमर्थः कथमुच्यत इत्यर्थः। समासश्चायमित्यादि। कि पुनः कारणं ज्ञापकात्समाससद्भावः प्रतिपाद्यते ? इत्यत आह--न ह्यस्तेति। स च एवंविषय एवेति। च्छप्रत्यविषय एवेत्यर्थः। अनन्यत्र भावो विषयार्थः; तेन स्वातन्त्र्यमुपाध्यन्तरयोगोः, विग्रहश्च न भवति ॥
सिद्धान्तकौमुदी
इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥
समासाच्च तद्विषयात् - समासाच्चा । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह — इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकं, तद्विषयकादित्यर्थः । सादृस्यवदथबोधकात्समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदर्थबोधकस्तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात्समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः ।इवार्थे॑इति शेषः । "पूगाञ्ञ्यः" इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थसमस्यमानयावत्पकात्समासादिवार्थे छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात्ताल वृक्षस्य मूलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तोऽकस्मान्निर्जनप्रदेशे क्वचिद्गतश्चोरेण हतस्तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतम् अन्यत्सादृश्यं च भासते । तथाहि — काकगमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र "काक" शब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः ।ताल॑शब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देतवदत्तागमनं, तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोर्मिलितय#ओरेकत्रान्वयाऽभावाद्द्वन्द्वसमासो न संभवति, परस्परान्वयाऽभावेन असामथ्र्याच्च, तथापि अस्मादेव विधिबलात् "सुप्सुपा" इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः । तदाह — इहेत्यादि । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविदात्समासात्काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दबूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमकृते उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह — तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरं "देवदत्तवध" इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्देतुकस्तालपतनकृत काकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवंकाकलतालीयो देवदत्तवध॑ इति समासाद्बोधः ।एतदेवाभिप्रेत्योक्तं भाष्येकाकागमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीय॑मिति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वान्न भवति, इवान्तरार्थस्य सादृश्यान्तरस्याऽप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव कृपाणपतनमिव अजाकृपाणम्, तदिव अजाकृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः, कृपाणपतनप्रयुक्ताऽजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह — अतर्कितेति ।
समासाच्च तद्विषयात् - काकतालीय इति । प्रकृतसूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः । इह काकतालेत्यादि । आगच्छतः काकस्याऽकस्मात्ताल फलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमाद्देवदत्तवधः । एवमजाया आगच्छन्त्याः कृपापतनाद्यथ वधः, तत्सदृशं मरणमिति फलितोऽर्थः । अतर्कितोपनत इति । अचिन्तितोपपन्नः । यादृस्छिक इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
समासाच्च तद्विषयात् (2264) (छप्रत्ययाधिकरणम्) (तत्पदार्थप्रतिपादकभाष्यम्) तदित्यनेन किं प्रतिनिर्दिश्यते? छः।। (सूत्रार्थोपपादकभाष्यम्) कथं पुनः समासो नाम छविषयः स्यात्। एवं तर्हीवार्थः। यदि तर्हि समासोऽपीवार्थे, प्रत्ययोऽपि, समासेनोक्तत्वात्प्रत्ययो न प्राप्नोति। एवं तर्हि द्वाविवार्थौ। कथम्? काकागमनमिव तालपतनमिव काकतालम्, काकतालमिव काकतालीयम्।।