Page loading... Please wait.
5|3|102 - शिलाया ढः
॥ तस्मै पाणिनये नमः ॥
5|3|102
SK 2057
शिलाया ढः   🔊
सूत्रच्छेदः
शिलायाः (पञ्चम्येकवचनम्) , ढः (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
शिलायाः इवे ढः
सूत्रार्थः
शिला शब्दात् "इव" अस्मिन् सन्दर्भे स्वार्थे ढ-प्रत्ययः भवति ।
"शिला" (rock / stone) इत्यस्मात् शब्दात् "इव" इति सन्दर्भे "ढ" इति प्रत्ययः भवति । यथा -

शिला इव अयम् खण्डः
= शिला + ढ
→ शिला + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ढकारस्य एय्-आदेशः]
→ शिल् + एय [यस्येति च 6|4|148 इति आकारलोपः ।]
→ शिलेय ।
शिला इव यः सः शिलेयः ।As hard as a rock इति अर्थः । यदि कश्चन पदार्थः शिला इव कठिनः अस्ति, तर्हि तस्य निर्देशः "शिलेय" इति भवति ।

विशेषः - केचन पण्डिताः शिला-शब्दात् "ढञ्" प्रत्ययं अपि विदधति । तदर्थम् अस्य सूत्रस्य योगविभागं कृत्वा "शिलायाः" इति भिन्नं सूत्रं निर्माय तस्मिन् सूत्रे वस्तेर्ढञ् 5|3|101 इत्यस्मात् ढञ्-प्रत्ययस्य अनुवृत्तिं कारयित्वा "शिलायाः ढञ्" इति नूतनम् सूत्रम् कार्यते, येन "शिला इव सः शैलेयः" इति अपि शब्दः सिद्ध्यति ।

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र "शिला" शब्दात् "इव" इति सन्दर्भे ढ-प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञम् अपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलायाः ढञ् प्रत्ययो भवति। शैलेयम्। ततो धः। शिलेयम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥
शिलाया ढः - शिलाया ढः । इवे इत्येव । शिलेव शिलेयमिति ।दध्यादी॑ति शेषः । योगेति । "शिलाया" इत्येको योगः । ढञित्यनुवर्तते, इवे इति च । शैलेयमिति । ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम् । "ढः" इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.