Page loading... Please wait.
5|3|101 - वस्तेर्ढञ्
॥ तस्मै पाणिनये नमः ॥
5|3|101
SK 2056
वस्तेर्ढञ्   🔊
सूत्रच्छेदः
वस्तेः (पञ्चम्येकवचनम्) , ढञ् (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
वस्तेः इवे ढञ्
सूत्रार्थः
"वस्ति" शब्दात् "इव" अस्मिन् सन्दर्भे स्वार्थे ढञ्-प्रत्ययः भवति ।
"वस्ति" (कट्याः अधोभागे धारणार्थम् प्रयुक्तम् किञ्चन वस्त्रम् - A specific type of garment that is typically worn in the lower half of the body) इत्यस्मात् शब्दात् "इव" इति सन्दर्भे ढञ् इति प्रत्ययः भवति । यथा -

वस्तिः इव इदम् वस्त्रम्
= वस्ति + ढञ्
→ वस्ति + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ढकारस्य एय्-आदेशः]
→ वास्ति + एय [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ वास्त् + एय [यस्येति च 6|4|148 इति इकारलोपः]
→ वास्तेय ।
वस्तिः इव इदम् वस्त्रम् वास्तेयम् । अधरीयस्य निर्देशार्थम् अस्य शब्दस्य प्रयोगः भवति ।

विशेषः - स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्-प्रत्यये कृते "वास्तेयी" इति शब्दः अपि सिद्ध्यति । शाटिकायाः निर्देशार्थम् अस्य शब्दस्य प्रयोगः क्रियते ।

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र "वस्ति" शब्दात् "इव" इति सन्दर्भे ढञ्-प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इव इत्यनुवर्तते। इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति, प्रतिकृतौ चप्रतिकृतौ च। वस्तिशब्दादिवार्थे द्योत्ये ठञ् प्रत्ययो भवति। वस्तिरिव वास्तेयः। वास्तेयी।
`इतः प्रभति` इत्यादि। तत्र प्रतिकृतौ `इवे प्रतिकृतौ` 5|3|96 इति कनि प्राप्ते, इतः प्रभृति प्रत्यया भवन्ति। अप्रतिकृतौ तवसंज्ञायां वाक्येनैवाभिधाने प्राप्ते। संज्ञायां तु प्रतिकृतावप्रकृतौ च ढञेव; वस्तिः=वृतिविकारः। `वास्तेयी` इति `टिङ्ढाणञ्` 4|1|15 इति ङीप्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥
वस्तेर्ढञ् - वस्तेर्ढञ् । निवृत्तमिति । अस्वरितत्वादिति भावः ।संज्ञायां चे॑त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ।बस्तिर्नाभेरधो द्वयो॑रित्यमरः ।
वस्तेर्ढञ् - बस्तिरिति ।बस्तिर्नाबेरधो द्वयो॑रित्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.