Page loading... Please wait.
5|3|10 - सप्तम्यास्त्रल्
॥ तस्मै पाणिनये नमः ॥
5|3|10
SK 1957
सप्तम्यास्त्रल्   🔊
सूत्रच्छेदः
सप्तम्याः (पञ्चम्येकवचनम्) , त्रल् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
सप्तम्याः किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः त्रल्
सूत्रार्थः
सर्वादिगणे विद्यमानेभ्यः "सर्व" इत्यस्मात् आरभ्य "एक" इति यावत् शब्देभ्यः, "बहु" शब्दात् तथा च "किम्" शब्दात् सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति ।
अनेन सूत्रेण "त्रल्" इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः "त्र" इत्येव प्रयोगे दृश्यते ।

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5|3|2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः "तसिल्" प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः -

1) कस्मिन् इत्येव
= कस्मिन् + त्रल् ["कस्मात्" शब्दात् स्वार्थे प्रत्ययविधानम्]
→ किम् + त्र [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सप्तमीप्रत्ययस्य लुक्]
→ कु + त्र [किमः कः 7|2|103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे "किम्" इत्यस्य "क" इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः 7|2|104 इति "कु" आदेशः ]
→ कुत्र
विशेषः - "कस्मिन्" इत्यस्मात् पक्षे किमोऽत्‌ 5|3|12 इत्यनेन "अत्" इत्यपि प्रत्ययः विधीयते, तेन "कुतः" इति अपि शब्दः सिद्ध्यति ।

2) अमुष्मिन् इत्येव
= अमुष्मिन् + त्रल् ["अस्मात्" शब्दात् स्वार्थे प्रत्ययविधानम्]
→ अदस् + त्र [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सप्तमीप्रत्ययस्य लुक्]
→ अमु + त्र [ अदसोऽसेर्दादु दो मः [8।2।80]] इति "अदस्" इत्यस्य अमु" आदेशः ।]
→ अमुत्र

3) यस्मिन् इत्येव
= यस्मिन् + त्रल् ["यस्मात्" शब्दात् स्वार्थे प्रत्ययविधानम्]
→ यद् + त्र [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सप्तमीप्रत्ययस्य लुक्]
→ य + त्र [त्यदादीनामः 7|2|102 इति दकारस्य अकारादेशः । अतो गुणे 6|1|97 इति पररूप-एकादेशः ]
→ यतः [ससजुषो रुँः 8|2|66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

4) एतस्मिन् इत्येव
= एतस्मिन् + त्रल् ["अस्मात्" शब्दात् स्वार्थे प्रत्ययविधानम्]
→ एतद् + त्रल् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सप्तमीप्रत्ययस्य लुक्]
→ अन् + त्र [एतदोऽन् 5|3|5 इति एतद्-शब्दस्य अन्-आदेशः]
→ अत्र [स्वादिष्वसर्वनामस्थाने 1|4|17 इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]

एवमेव "बहुत्र", "सर्वत्र", "एकत्र", "उभयत्र", "पूर्वत्र", "अन्यत्र", "तत्र", "यत्र" - एते शब्दाः अपि सिद्ध्यन्ति ।

विशेषः -
1. "इदम्" शब्दस्य विषये वर्तमानसूत्रेण "त्रल्" प्रत्यये प्राप्ते तं बाधित्वा इदमो हः 5|3|11 इत्यनेन "ह" प्रत्ययः विधीयते, येन "इह" इति शब्दः सिद्ध्यति ।
2. अनेन सूत्रेण सप्तमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि "सप्तमीसमर्थात्" इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते ।
4. सर्व, एक, अन्य, किम्, यद्, तथा तद् - एतेषाम् विषये सप्तम्यन्तः शब्दः यदि कालस्य विशेषणरूपेण प्रयुज्यते (यथा - "कस्मिन् काले / एकस्मिन् काले - आदयः), तर्हि वर्तमानसूत्रेण विहितम् "त्रल्" प्रत्ययं बाधित्वा सर्वैकान्यकिंयत्तदः काले दा 5|3|15 इत्यनेन "दा" इति प्रत्ययः विधीयते, येन "सर्वदा", "एकदा" - एतादृशाः शब्दाः सिद्ध्यन्ति ।
5. त्रल्-प्रत्यये परे तसिलादिषु आकृत्वसुचः 6|3|35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।
यथा - बह्वीषु इत्येव
= बह्वी + त्रल्
→ बहु + त्रल् [पुंवद्वावः]
→ बहुत्र ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कुत्र । यत्र । तत्र । बहुत्र ॥
सप्तम्यास्त्रल् - सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः ।कुत्रे॑त्यादिरूपाणि "कुत" इत्यादिवत् ।
सप्तम्यास्त्रल् - सप्तम्यास्त्रल् । इह त्रल्तसिलौ स्वतन्त्रौ प्रत्ययौ, न तु सप्तमी पचम्योरादेशौ । तेन कुत्र बहुत्र कुतः बहुत इत्यादौअच्च घेः॑घेर्ङिती॑त्यादिकं नेत्याहुः ।
लघुसिद्धान्तकौमुदी
कुत्र। यत्र। तत्र। बहुत्र॥
महाभाष्यम्
सप्तम्यास्त्रल् (2168) (त्रल्त्रसिलोरधिकरणम्) (त्रल्तसिलोः प्रत्ययत्वादेशत्वविचारकभाष्यम्) इदं विचार्यते ‐ इमे तसिलादयो विभक्त्यादेशा वा स्युः परे वेति। कथं च आदेशाः स्युः, कथं वा परे? यदि पञ्ञ्चम्याः सप्तम्याः इति षष्ठी, तदा ‐ आदेशाः। अथ पञ्ञ्चमी, ततः ‐ परे। कुतः संदेहः? समानो निर्देशः। कश्चात्र विशेषः? (5804 आदेशपक्षे दोषवार्तिकम्।। 1 ।।) - तसिलादयो विभक्त्यादेशाश्चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः - (भाष्यम्) तसिलादयो विभक्त्यादेशाश्चेत् सुव्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधीनां प्रतिषेधो वक्तव्यः। सुब्लुक्-ततस्त्यः, यतस्त्यः। तत्रत्यः, यत्रत्यः। सुपो धातुप्रातिपदिकयोः 2।4।71 इति सुब्लुक् प्राप्नोति। सुब्लुक्।। स्वर ‐ यदा। तदा। अनुदात्तौ सुप्पितौ 3।1।4 इत्येष स्वरः प्राप्नोति। स्वर।। गुण ‐ कस्मात्, कुतः। घेर्ङिति 7।3।111 इति गुणः प्राप्नोति। गुण।। दीर्घ ‐ तस्मिन्, तर्हि। अतो दीर्घो यञ्ञि सुपि च 7।3।101,102 इति दीर्घत्वं प्राप्नोति। दीर्घ।। एत्व ‐ तेषु, तत्र। बहुवचने झल्येत् 7।3।103 इत्येवं प्राप्नोति। एत्व।। औत्त्व ‐ कस्मिन्, कुत्र। इदुद्भ्यामौत् अच्चघेः 7।3।117,119 इत्यौत्वं प्राप्नोति। औत्त्व। स्मायादिविधिः ‐ तस्मात् ‐ ततः, तस्मिन् ‐ तत्र। ङसिङ्योः स्मात्स्मिनौ 7।1।15 इति स्मायादयः प्राप्नुवन्ति।। (5805 प्रत्ययत्वपक्षोपपादकवार्तिकम्।। 2 ।।) - पञ्ञ्चमीनिर्देशात्सिद्धम् - (भाष्यम्) सन्तु परे।। (प्रत्ययत्वाक्षेपे भाष्यम्) यदि परे समानशब्दानां प्रतिषेधो वक्तव्यः। तस्मात्तस्यति। यस्मात्तस्यति। पञ्ञ्चम्यन्तात्परस्य तसेस्तसिल्भवतीति तसिल् प्राप्नोति।। (5806 समाधानवार्तिकम्।। 3 ।।) - अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः - (भाष्यम्) अनादेशे स्वार्थविज्ञानात्समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः। तसिल्कस्मान्न भवति? स्वार्थविज्ञानात्। पञ्ञ्चम्यन्तात्परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम्। न चात्र पञ्ञ्चम्यन्तात्परस्तसिः स्वार्थे वर्तते।।