Page loading... Please wait.
5|2|99 - फेनादिलच् च
॥ तस्मै पाणिनये नमः ॥
5|2|99
SK 1906
फेनादिलच् च   🔊
सूत्रच्छेदः
फेनात् (पञ्चम्येकवचनम्) , इलच् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (सप्तम्येकवचनम्) , इति  5|2|94 (अव्ययम्) , मतुँप्  5|2|94 (प्रथमैकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , अन्यतरस्याम्  5|2|96 (सप्तम्येकवचनम्) , लच्  5|2|96 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) फेनात् इलच्, लच्, मतुँप् अन्यतरस्याम्
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः प्रथमासमर्थात् "फेन" शब्दात् लच्, इलच् तथा मतुँप् प्रत्ययाः भवन्ति ।
प्रथमासमर्थात् फेन (= foam) अस्मात् शब्दात् मतुबर्थे (= तत् अस्य अस्ति / तत् अस्मिन् अस्ति एतयोः अर्थयोः) "इलच्" प्रत्ययः अनेन सूत्रेण पाठ्यते । सूत्रे "च" इति निर्दिश्यते, अतः पूर्वसूत्रात् "लच्" तथा "अन्यतरस्याम्" एतौ द्वौ शब्दौ अनुवर्तेते । इत्युक्ते, फेन-शब्दात् लच् तथा इलच् - द्वावपि विकल्पेन भवितुम् अर्हतः । पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि भवति ।

यथा -
1. फेनः अस्य अस्ति सः = फेन + इलच् → फेनिल ।
2. फेनः अस्य अस्ति सः = फेन + लच् → फेनल ।
3. फेनः अस्य अस्ति सः = फेल + मतुँप् → फेनवत् ।

त्रयः अपि एते शब्दाः "फेनक" (soap) अस्मिन् अर्थे प्रयुज्यन्ते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
फेनशब्दातिलच् प्रत्ययो भवति मत्वर्थे। चकारात् लच् च। अन्यतरस्याम् ग्रहणम् मतुप् समुच्चयार्थं सर्वत्र एव अनुवर्तते। हेनिलः, फेनलः, फेनवान्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥
फेनादिलच् च - फेनादिलच्च । "मत्वर्थ" इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.