Page loading... Please wait.
5|2|91 - साक्षाद्द्रष्टरि संज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
5|2|91
SK 1891
साक्षाद्द्रष्टरि संज्ञायाम्   🔊
सूत्रच्छेदः
साक्षात् (अव्ययम्) , द्रष्टरि (सप्तम्येकवचनम्) , संज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
इनिः  5|2|86 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"द्रष्टरि" (इति) संज्ञायाम् साक्षात् इनि
सूत्रार्थः
"साक्षात्" इत्यस्मात् शब्दात् द्रष्टुः निर्देशार्थम् संज्ञायाः विषये "इनि" प्रत्ययः भवति ।
"साक्षात्" इति किञ्चन अव्ययम् । साक्षात्प्रभृतीनि च 1|4|74 अनेन सूत्रेण अस्य अव्ययसंज्ञा भवति । अस्मात् शब्दात् "द्रष्टा" ( = पश्यति सः) अस्मिन् अर्थे संज्ञायाः निर्देशार्थम् "इनि" प्रत्ययः भवति । प्रक्रिया इयम् -

साक्षात् द्रष्टा
= साक्षात् + इनि
→ साक्ष् + इन् [ नस्तद्धिते 6|4|144 इत्यत्र निर्दिष्टेन अव्ययानां च सायंप्रातिकाद्यर्थम् उपसङ्ख्यानम् अनेन वार्त्तिकेन अत्र टिलोपः भवति ।]
→ साक्षिन्

अस्य रूपाणि - साक्षी साक्षिणौ साक्षिणः - एतादृशं भवन्ति । यः पश्यति सः साक्षी ।

विशेषः - अत्र "संज्ञायाम्" इति निर्देशः क्रियते, अतः विशिष्टेषु सन्दर्भेषु एव अस्य शब्दस्य प्रयोगः भवति । यथा, यः कोऽपि स्वयं कार्यम् करोति सः यद्यपि स्वेन कृतं कार्यम् द्रष्टुम् अर्हति, तथापि तस्य निर्देशार्थम् "साक्षी" इति शब्दः न विधीयते । यः केवलम् द्रष्टा अस्ति (स्वयम् कार्ये भागं न गृह्णाति) तस्यैव निर्देशः अत्र "साक्षी" इत्यनेन भवति । Witness - इति सामान्यः अर्थः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
साक्षाच्छब्दो ऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणम् अभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ। साक्षिणः। संज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा।
`संज्ञाग्रहणम्` इत्यादि। विशिष्ट एवाभिधधेये प्रत्ययान्तस्य वृत्तिरभिधेयनियमः` (वा। 802) इति टिलोपः। `संज्ञग्रहणम्` इत्यादि। असति हि संज्ञाग्रहणे यथोग्रहणे यथोपद्रष्टा साक्षिशब्देनोच्यते, तथा दाता ग्रहीता चोच्येयाताम्, एतावपि हि द्रष्टारौ भवत एव। संज्ञाग्रहणादुपद्रष्टैवोच्यते। दातृग्रहीतृभ्यां योऽन्यो द्रष्टा समीपे स उपद्रष्टा। ननु च `स्वामीआराधिपतिदायादसाक्षि` 2|3|39 इति निपातनादेव साक्षिशब्दः साधुर्भाविष्यति, अभिधेयनियमोऽपि लौकिकत्वादस्य पदस्य लोकोक्त एव विज्ञास्यते, तदपार्थकमिदम्? नैतदस्ति; न हि तस्मिन्? निपातने साक्षिशब्दस्य नकारान्तता शक्यते व्यवसातुम्, प्रमाणाभावात्। लोके न स्वाभिधेये प्रतीयमाने प्रतिपत्तिगौरवं स्यात्। तस्मान्नकारान्तताप्रतिपत्तिगौरवपरिहारार्थं चेदमुच्यते॥
साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च ठव्ययानां भमात्रेऽ इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्ट्ंअ भवति--यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ॥
सिद्धान्तकौमुदी
साक्षाद्रष्टा साक्षी ॥
साक्षाद्द्रष्टरि संज्ञायाम् - साक्षाद्द्रष्टरि ।साक्षा॑दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः । "अव्ययानां भमात्रे" इति टिलोपः ।
साक्षाद्द्रष्टरि संज्ञायाम् - साक्षाद्द्रष्टरि । द्रष्टर्यर्थे इनिः स्यात् । साक्षाच्छ६ब्दोऽव्ययम्, तेनप्रकृतिवदनुकरण॑मित्यतिदेशादिह सूत्रे पञ्चम्या लुक् ।उदः स्थास्तम्भोः॑,अवाच्छालम्बने॑त्यादौ तुप्रकृतिव॑दित्यतिदेशस्य वैकल्पिकत्वेनाऽभ्ययत्वाऽभावात् पञ्चम्या लुङ् न भवतीति बोध्यम् । साक्षीति ।अव्ययानां भमात्रे॑इति टिलोपः । यद्यपि साक्षाद्द्रष्टाररुआयो भवन्ति, दाता ग्रहीता उपद्रष्टा त, तथापीह संज्ञाग्रहणात्साक्षिशब्देनोपद्रष्टैवोच्यत इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
साक्षाद् द्रष्टरि संज्ञायाम् (2109) (सूत्रार्थनिश्चायकभाष्यम्) संज्ञायामिति किमर्थम्? त्रिभिः साक्षाद् द्रष्टव्यं भवति ‐ यश्च ददाति, यस्मै च दीयते, यश्चोपद्रष्टा, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणसार्मथ्याद्धनिकान्तेवासिनोर्न भवति।।