Page loading... Please wait.
5|2|81 - कालप्रयोजनाद्रोगे
॥ तस्मै पाणिनये नमः ॥
5|2|81
SK 1881
कालप्रयोजनाद्रोगे   🔊
सूत्रच्छेदः
काल-प्रयोजनात् (पञ्चम्येकवचनम्) , रोगे (सप्तम्येकवचनम्)
अनुवृत्तिः
कन्  5|2|64 (प्रथमैकवचनम्) , संज्ञायाम्  5|2|82 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
काल-प्रयोजनात् रोगे संज्ञायाम्
सूत्रार्थः
रोगस्य निर्देशार्थम् कालवाचिशब्दात् प्रयोजनवाचिशब्दात् च संज्ञायाः निर्देशार्थम् "कन्" प्रत्ययः भवति ।
अनेन सूत्रेण "कालवाचि"शब्दात् तथा "प्रयोजनवाचि"शब्दात् "रोगस्य संज्ञायाः" निर्देशार्थम् कन्-प्रत्ययः भवति । अस्मिन् सूत्रे विशिष्टा समर्थविभक्तिः न विद्यते, यतः उभयोः विषये निर्देशसामर्थ्यात् भिन्ना समर्थविभक्तिः गृह्यते । क्रमेण पश्यामः -

1. कालवाचिनः शब्दाः - यैः शब्दैः कालस्य निर्देशः क्रियते (यथा - दिवसः, रात्रिः - आदयः) तेषाम् विशेषणरूपेण प्रयुक्तेभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः रोगस्य निर्देशार्थम् "कन्" प्रत्ययः भवति । यथा -
अ) द्वितीये अह्नि भवः = द्वितीय + क → द्वितीयकः ज्वरः । A fever that happens on the second day.
आ) चतुर्थे अह्नि भवः = चतुर्थ + क → चतुर्थकः ज्वरः ।
विशेषः - अत्र प्रत्ययविधानम् कालवाचिशब्दात् न भवति अपितु "द्वितीय", "चतुर्थ" एतादृशात् विशेषणवाचिशब्दात् भवति । अस्य ज्ञापकार्थम् एव अग्रिमसूत्रात् "संज्ञायाम्" इत्यस्य अपकर्षः अत्र क्रियते । विशिष्टशब्दानां सिद्ध्यर्थम् एव अनेन सूत्रेण प्रत्ययविधानाम् क्रियते - इति अनेन स्पष्टीभवति ।

2. प्रयोजनवाचिनः शब्दाः - यैः शब्दैः रोगस्य कारणम् (= निर्माणकारणम्, trigger) उत फलम् ( = परिणामः, effect) निर्दिश्यते, तेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः रोगस्य निर्देशार्थम् कन् प्रत्ययः भवति । यथा -
अ) विषपुष्पैः जनितः = विषपुष्प + कन् → विषपुष्पकः ज्वरः । A fever caused due to a certain type of flowers.
आ) काषपुष्पैः जनितः काशपुष्पकः ज्वरः ।
इ) उष्णम् कार्यम् अस्य = उष्ण + कन् → उष्णकः ज्वरः । अत्र रोगस्य परिणामः / फलम् "उष्णता" इति विद्यते, अतः "उष्ण"शब्दात् अत्र कन्-प्रत्ययः भवति । A fever that causes rise in temperature.
ई) शीतम् कार्यम् अस्य = शीत + कन् → शीतकः ज्वरः । A fever that causes cold.
अत्रापि "संज्ञायाम्" इत्यस्य अपकर्षेण विशिष्टशब्दानाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य प्रयोगः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनाच् च यथायोगं समर्थविभक्तियुक्तात् रोगे ऽभिधेये कन् प्रत्ययो भवति। कालो देवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीये ऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात् विषपुष्पैर् जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यम् अस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रातिह संज्ञाग्रहणम् अपकृष्यते। तेन अयं प्रकारनियमः सर्वो लभ्यते।
`अर्थलभ्या` इत्यादि। अर्थोऽधिकरणादिः। तेनात्र सप्तमीप्रभृतिरनुक्तापि समर्थविभक्तिर्लभ्यते। `प्रयोजनं कारणशब्देनोव्यते कालग्रहणं पृथङ्न कर्तव्यम्, कालोऽपि रोगस्य कारणं भवति? नैतदस्ति; न ह्रवश्यं कालो रोगस्य कारणं भवति। तत्र यदा ह्रसौ रोगस्य कारणं न भवति, तथापि ततो यथा स्यादित्येवमर्थं कालग्रहणम्। `द्वितोयेऽह्नि भवो द्वितीयकः` इति। तत्र कारणान्तराद्वातादेः कुतश्चिद्भवतो ज्वरस्य कालः केवलमधिकरणभावेन विवक्षितः, न तु हेतुभावेन। कथं पुनः कालादन्यतः प्रत्ययो द्वितीयादिभ्यः शब्देभ्यो भवति, न ह्रेते कालशब्दाः प्रसिद्धाः, सामान्यशब्दा ह्रेते, शब्दान्तरसन्निधानात्? तु काले वृत्तिरेषां गम्यते? नैष दोषः; वाक्ये ह्रेषां शब्दान्तरसन्निधौ कलि वृत्तिः, वृत्तिगतश्च प्रकृत्यर्थः प्रत्ययानां विशेषणम्; सन्निहितत्वात्। न वाक्यगतः; विप्रकर्षात्। `विषपुष्पैर्जनितः` इति। तृतीया। `उष्णं कार्यमस्य` इति। अत्र कार्यकारणसम्बन्धो विवक्षितः। स चेदंशब्दादेवोत्पन्नया षष्टआभिहित इत्युष्णशब्दात्? प्रथमैव भवति। इह कालप्रयोजनविशेषवाचिभ्यः प्रत्ययोऽभिहितः, न कालप्रयोजनशब्दाभ्याम्; कालविशेषवाचिभ्यो भवन्? क्रियायाः कर्तरि ज्वरे प्रयोजनविशेषवाचिभ्यः प्रयोजनमिति; कार्यकारणविवक्षायाञ्च कार्यसम्बन्धिनि। न चायं प्रकारनियमः सूत्रे उक्तः, तत्कथं लभ्यते? इत्यत आह--`उत्तरसूत्रादिह संज्ञाग्रहणमपकृष्यते` इति। तेन तस्मिन्? सत्ययमर्थो भवति--प्रत्ययान्तश्चेत्? संज्ञा भवति, तस्मश्चार्थे सति प्रत्ययान्तं यदि संज्ञा भवत्येवं प्रत्य उत्पद्यते, नान्यथेति। संज्ञाग्रहणसन्निधानादिह सर्वप्रकारोऽयं नियमो लभ्यते। न हि विना तेन प्रकारेम प्रत्ययान्तं संज्ञा भवति। ननु चोत्तरसूत्रे संज्ञाग्रहणं तस्यैव शेषभूतम्, तत्कथं ततोऽपक्रष्ट शक्यते? नैष दोषः; उभयोरपि योगयोस्तच्छेषभूतम्। कथम्? योगविभागः करिष्यते-- `तदस्मिन्नन्नं प्राये` ततः `संज्ञायाम्` इति; तेन संज्ञाग्रहणमुभयेषां शेषो विज्ञास्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
कालप्रयोजनाद्रोगे - कालप्रयोजनाद्रोगे । काल, प्रयोजन — अनयोः समाहारद्वन्द्वः । तदाह — कालवचनात्प्रयोजनवचनाच्चेति ।यथोचितविभक्त्यन्ता॑दिति शेषः । कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात् । तदाह — द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटिप्रयोजनं॑साधनम् । कर्मणि ल्युटि तु फलम् । तदाह — प्रयोजनं कारणं रोगस्य फलं वेति ।
कालप्रयोजनाद्रोगे - द्वितीयेऽहनीति । यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यप्र्रकरणादिना वृत्तिविषये काले वर्तत इति भावः । ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेदत्राहुः — -उत्तरसूत्रस्थसंज्ञापकर्षणाच्छब्दस्वाभाव्याद्वा तद्बोध्यमिति । वटकेभ्यैनिर्वाच्यः । वटकेभ्य इति । कमि प्राप्ते वचनम् । ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत् । किं ततः । इनेरप्राप्तत्वात्तदर्थं वचनमङ्गीकार्यमेव ।अत इनिठनौ॑इत्येव कथंचिदिनिः सिध्यतीत्याशाऽत्र न कार्या,सप्तम्यां च न तौ स्मृतौ॑इति वचनात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.