Page loading... Please wait.
5|2|8 - आप्रपदं प्राप्नोति
॥ तस्मै पाणिनये नमः ॥
5|2|8
SK 1809
आप्रपदं प्राप्नोति   🔊
सूत्रच्छेदः
आप्रपदम् (अव्ययम्) , प्राप्नोति (क्रियापदम्)
अनुवृत्तिः
खः  5|2|6 (प्रथमैकवचनम्) , तत्  5|2|7 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"प्राप्नोति" (इति) आप्रपदम् खः
सूत्रार्थः
"प्राप्नोति" अस्मिन् अर्थे "आप्रपद" शब्दात् ख-प्रत्ययः भवति ।
"प्राप्नोति" इति "प्र + आप्" इत्यस्य लट्-लकारस्य प्रथमपुरुषैकचनस्य रूपम् । "समीपम् गच्छति" (reaches there) अस्मिन् अर्थे अयम् शब्दः अत्र प्रयुज्यते ।

"प्रपद" इत्युक्ते पदस्य अग्रभागः (tip of the tow) । "आप्रपद" अयम् शब्दः "प्रपद" शब्दात् "आङ्" इत्यस्य योजनं कृत्वा सिद्ध्यति । अत्र "आङ्" इत्यस्य अर्थः "मर्यादा" इति स्वीक्रियते । अतः "आप्रपद" शब्दस्य अर्थः अत्र "पदस्य अग्रभागम् यावत्, परन्तु तत् विहाय" - इति गृह्यते । Till the tip of the toe, with without including it - इति आशयः ।

एतादृशात् "आप्रपद" शब्दात् द्वितीयासमर्थात् "प्राप्नोति" अस्मिन् अर्थे ख-प्रत्ययः भवति । आप्रपद + ख → आप्रपदीन । आप्रपदम् प्राप्नोति तत् आप्रपदीनम् वस्त्रम् । यत् वस्त्रम् पदस्य अग्रभागम् यावत् गच्छति, परन्तु तम् अग्रभागम् पूरयितुम् असमर्थः वर्तते, तस्य निर्देशः "आप्रपदीनम् वस्त्रम् " इति क्रियते । A piece of clothing that reaches till the tip of the toe but fails to cover the tip of the toe completely is called आप्रपदीन ।

विशेषः -
1. वर्तमानसूत्रे "प्राप्नोति" इति क्रियापदम् उच्यते । पूर्वस्मिन् सूत्रे तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति 5|2|7 इत्यत्र "व्याप्नोति" इति क्रियापदम् प्रयुक्तम् अस्ति । द्वयोः शब्दयोः सूक्ष्मः भेदः विद्यते यः न्यासकारेण स्पष्टीक्रियते - "सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः" । इत्युक्ते, "प्राप्नोति" इति शब्दः केवल-सम्बन्धस्य (mere contact) निर्देशार्थम् प्रयुज्यते , तथा च "व्याप्नोति" अयम् शब्दः "सम्पूर्णरूपेण आच्छादयति" (filling up completely) अस्मिन् अर्थे प्रयुज्यते ।

2. "आप्रपदम्" अयम् शब्दः अव्ययीभावसमासेन निर्मितः अस्ति, अतः अस्मात् शब्दात् विहितस्य सुप्-प्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन "अम्"-आदेशः भवति । अतएव विग्रहवाक्ये "आप्रपदम्" इति शब्दः प्रयुज्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रपदम् इति पादस्य अग्रम् उच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणम् आख्यायते।
`तयोरव्ययीभावः` इति। `आङ्मर्यादाभिविध्योः` 2|1|12 इत्यनन। `शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यातम्` इति। प्राप्तियोग्यतामुपादाय हि योग्योऽसावाप्रपदाच्छरीरं प्राप्तुम्। अथ व्याप्तिप्राप्त्योः को विशेषः, येन व्याप्नोतीति कृते प्राप्नोतीत्युक्तम्? सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः॥
प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे ठ्कर्मणि द्वितीयाऽ। आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात्--सम्बन्धमात्रमुप्राप्तिः, सम्बन्धः साकल्योपाधिकःउव्याप्तिः। ठाप्रपदम्ऽ इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ॥
सिद्धान्तकौमुदी
पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥
आप्रपदं प्राप्नोति - आप्रपदमिति ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीबावः । अनुपद । अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया । बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आद्ये "यस्य चायामः" इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.