Page loading... Please wait.
5|2|78 - स एषां ग्रामणीः
॥ तस्मै पाणिनये नमः ॥
5|2|78
SK 1878
स एषां ग्रामणीः   🔊
सूत्रच्छेदः
सः (प्रथमैकवचनम्) , एषाम् (षष्ठीबहुवचनम्) , ग्रामणीः (प्रथमैकवचनम्)
अनुवृत्तिः
कन्  5|2|64 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"सः एषाम् ग्रामणीः " (इति) कन्
सूत्रार्थः
"ग्रामणीः" इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रथमासमर्थात् "एषाम्" इत्यस्मिन् अर्थे कन् प्रत्ययः भवति ।
"ग्रामणीः" इत्युक्ते "ग्रामस्य प्रमुखः / प्रधानः" (The head of a village). कस्यचन ग्रामस्य जनानाम् वर्णनम् तेषाम् प्रमुखस्य नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा, "एतेषाम् सर्वेषाम् जनानाम् ग्रामणीः देवदत्तः अस्ति" इत्यत्र सर्वेषाम् जनानाम् निर्देशार्थम् "देवदत्त"शब्दात् कन् प्रत्ययः भवति । देवदत्त + कन् → देवदत्तक । देवदत्तः ग्रामणीः येषाम् ते देवदत्तकाः । तथैव -

1. ब्रह्मदत्तः ग्रामणीः येषाम् ते ब्रह्मदत्तकाः ।
2. त्वम् ग्रामणीः असि येषाम् ते त्वत्काः । प्रक्रिया इयम् -
युष्मद् + क
→ त्वद् + क [प्रत्ययोत्तरपदयोश्च 7|2|98 इत्यनेन "युष्म" इत्यस्य "त्व" आदेशः]
→ त्वत् + क [खरि च 8|4|55 इति चर्त्वम्]
→ त्वत्क ।
3. अहम् ग्रामणीः अस्मि येषाम् ते मत्काः । प्रक्रिया इयम् -
अस्मद् + क
→ मद् + क [प्रत्ययोत्तरपदयोश्च 7|2|98 इत्यनेन "युष्म" इत्यस्य "त्व" आदेशः]
→ मत् + क [खरि च 8|4|55 इति चर्त्वम्]
→ मत्क ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स इति प्रथमासमर्थातेषाम् इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानः, मुख्यः इत्यर्थः। देवदत्तः ग्रामणीः एषाम् देवदत्तकाः। ब्रह्मदत्तकाः। ग्रामणीः इति किम्? देवदत्तः शत्रुरेषाम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ॥
सिद्धान्तकौमुदी
देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥
स एषां ग्रामणीः - स एषा ग्रामणीः । ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । त्वत्काः मत्का इति । त्वमहं वा मुख्य एषामिति विग्रहः ।प्रत्ययोत्तरपदयोश्चे॑ति त्वमौ श्रृङ्खलमस्य । करभ इति । षष्ठर्थे सप्तमी ।बन्धन॑मिति करणे ल्युट् । अस्य करभस्य श्रृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः । श्रृङ्खलक इति । श्रृङ्खलेन बद्ध इति यावत् । करभः=बाल उष्ट्रः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.