Page loading... Please wait.
5|2|76 - अयःशूलदण्डाजिनाभ्यां ठक्ठञौ
॥ तस्मै पाणिनये नमः ॥
5|2|76
SK 1876
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ   🔊
सूत्रच्छेदः
अयःशूल-दण्डाजिनाभ्याम् (तृतीयाद्विवचनम्) , ठक्ठञौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
अन्विच्छति  5|2|75 (क्रियापदम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"अयःशूल-दण्डाजिनाभ्याम् अन्विच्छति" (इति) ठक्-ठञौ
सूत्रार्थः
तृतीयासमर्थाभ्याम् "अयःशूल" तथा "दण्डाजिन" शब्दाभ्याम् "अन्विच्छति" इत्यस्मिन् अर्थे यथासङ्ख्यम् ठक् तथा ठञ् प्रत्ययौ भवतः ।
"अन्विच्छति" इत्युक्ते इच्छां करोति । अस्मिन् अर्थे "अयःशूल" शब्दात् ठक्-प्रत्ययः , तथा "दण्डाजिन" शब्दात् ठञ्-प्रत्ययः अनेन सूत्रेण उच्यते । क्रमेण पश्यामः -

1. अयःशूलः - "अयः" इत्युक्ते लोहः । शूलः इति किञ्चन शस्त्रम् (spear)। लोहस्य शूलः यादृशः तीक्ष्णः अस्ति, तादृशेनैव तीक्ष्णेन / घोरेण उपायेन यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् "अयःशूल" शब्दात् ठक् प्रत्ययः भवति । अयःशूलेन अन्विच्छति सः आयःशूलिकः । One who wishes to take extreme measures to achieve something इत्यर्थः ।

2. "दण्डाजिन" - "दण्ड" (rod) तथा "अजिन" (fur used for sitting) एते द्वे संन्यासिनाम् वस्तुनी । यः कोऽपि स्वयं संन्यासी नास्ति, सः एते वस्तू धारयितुम् न अर्हति । परन्तु, संन्यासी न सत्यपि एतेषाम् एव साहाय्येन (इत्युक्ते, "अहम् संन्यासी अस्मि" इति दम्भं कृत्वा) यः कार्यपूर्तिम् इच्छति, तस्य निर्देशार्थम् "दण्डाजिन" शब्दात् ठञ्-प्रत्ययः भवति । दण्डाजिनेन अन्विच्छति सः दाण्डाजिनिकः ।One who wishes to project himself as a संन्यासिन् in order to achieve something - इत्याशयः ।

ज्ञातव्यम् - अस्मिन् सूत्रे "अयःशूलः" तथा "दण्डाजिनः" एतौ द्वौ अपि शब्दौ लक्ष्यार्थेन गृह्येते । अत्र "अयःशूलस्य साहाय्येन इच्छति" उत "दण्डाजिनस्य साहाय्येन इच्छति" एतादृशः अर्थः न क्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्विच्छति इत्येव। अयःशूलदण्डाजिनाह्ब्यां तृतीयासमर्थाभ्याम् अन्विच्छति इत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः। तीक्ष्णः उपायः अयञ्शूलम् उच्यते। तेन अन्विच्छति आयःशूलिकः साहसिकः इत्यर्थः दम्भो दण्डाजिनम्, तेन अन्विच्छति दाण्डाजिनिकः। दाम्भिकः इत्यर्थः।
`अयःशूलदण्डाजिनाभ्याम्` इति। तृतीयान्तनिर्देशादेवार्थात्? तृतीया समर्थविभक्तिलंभ्यत इत्याह--`तृतीयासमर्थातभ्याम्? इति॥
तृतीयासमर्थाभ्यामिति। निर्द्देशादेव तृतीया हीयम्, न पञ्चमी; पूर्वेण साहचर्यात्। तीक्ष्ण उपायोऽयःशूलमिति। यथायःशुलं तीक्षणं तथान्योऽपि तीक्षणं उपायोऽयःशूलमित्युपचारादुच्यत इत्यर्थः। दम्भोदण्डाजिनमिति। दम्भसाधनत्वात्। दम्भवन्तो हि प्रायेण दण्कडमजिनं च धारयन्ति। तेनेति। दम्भेन तु धारयतु मा वाऽदीधरदित्यर्थः, सर्वत्र मुख्यार्थाग्रहणेऽनभिधानमेव हेतुः ॥
सिद्धान्तकौमुदी
तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ - अयःशूल । अयःशूल, जण्डाजिन आभ्यां, तृतीयान्ताभ्यामन्विच्छतीत्यर्थे संज्ञायां ठक्ठञौ स्त इत्यर्थः । अयःशूलमिव अयःशूलम् । साहसमित्यर्थः । यो मृदुनोपायेनन्विष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति स आयःशूलिक॑ इति भाष्यम् । तदाह — तीक्ष्णोपाय इत्यादि । दम्भ इति । दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे लाभणिक इति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अयःशूलदण्डाजिनाभ्यां ठक्ठञ्ञौ (2094) (ठक्ठञ्ञोरधिकरणम्) (आक्षेपभाष्यम्) किं योऽयःशूलेनान्विच्छति स आयःशूलिकः? किं चातः? शिवभागवते प्राप्नोति।। (समाधानभाष्यम्) एवं तर्हि उत्तरपदलोपोऽत्र द्रष्टव्यः। अयः शूलमिव ‐ अयःशूलं। यो मृदुनोपायेनान्वेष्टव्यानर्थान् रभसेनान्विच्छति स उच्यते ‐ आयःशूलिकः।।