Page loading... Please wait.
5|2|72 - शीतोष्णाभ्यां कारिणि
॥ तस्मै पाणिनये नमः ॥
5|2|72
SK 1872
शीतोष्णाभ्यां कारिणि   🔊
सूत्रच्छेदः
शीत-उष्णाभ्याम् (पञ्चमीद्विवचनम्) , कारिणि (सप्तम्येकवचनम्)
अनुवृत्तिः
कन्  5|2|64 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"कारिणि" (इति) शीत-उष्णाभ्याम् कन्
सूत्रार्थः
द्वितीयासमर्थात् "शीत" तथा "उष्ण" शब्दाभ्याम् "कारी" अस्मिन् अर्थे कन्-प्रत्ययः भवति ।
"कारी" इति "कारिन्" इत्यस्य प्रथमैकवचनम् । करोति सः कारी । अस्मिन् अर्थे द्वितीयासमर्थात् "शीत" तथा "उष्ण" शब्दाभ्याम् "कन्" प्रत्ययः भवति । क्रमेण पश्यामः -

1. शीत = अस्य शब्दस्य अर्थः अत्र "मन्दता / शैथिल्यम् / आलस्यम्" इति अस्ति , न हि "शीतल" इति । यः मन्दरूपेण कार्यम् करोति, अलसः (lazy) अस्तिः तस्य निर्देशार्थम् "शीत"शब्दात् कन्-प्रत्ययः भवति । शीतं करोति शीतकः मन्दः ।

2. उष्ण = अस्य शब्दस्य अर्थः अत्र "शीघ्रता / दक्षता" इति अस्ति, न हि "उष्णता" इति । यः शीघ्रतया / दक्षतया कार्यम् करोति, तस्य निर्देशार्थम् "उष्ण"शब्दात् कन्-प्रत्ययः भवति । उष्णं करोति उष्णकः दक्षः ।

स्मर्तव्यम् - अस्मिन् सूत्रे "कारी" इति शब्दः णिनि-प्रत्ययान्तशब्दः अस्ति । अस्मिन् शब्दे परे कर्मणि द्वितीया 2|3|2 इत्यनेन द्वितीया विभक्तिः प्रयुज्यते । अतएव सूत्रे यद्यपि द्वितीयासामर्थ्यम् स्पष्टरूपेण न दीयते, तथापि अत्र द्वितीयासामर्थ्यम् एव स्वीक्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शीतोष्णाशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो, जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी, दक्ष उच्यते।
`क्रियाविशेषणात्` इति। क्रियाविशेषणस्य हि कर्मत्वं प्रतिपादितम्। `कारिणि` इति। ताच्छील्ये णिनिः। तस्य च प्रयोगे षष्ठी प्रतिषिद्धा, तस्मात्? कर्मणि द्वितीययैव भवितव्यम्। क्रियाविशेषणाच्छीतादिशब्दाद्द्वितीयासमर्थात्प्रत्ययो विज्ञायते। तेन नेह शोतोष्णशब्दो स्पर्शविषये वत्र्तमानौ प्रत्ययमुत्पादयतः। क्व तर्हि? मान्द्ये, शैघ्र्ये च; यस्मादावश्यके णिनिः। न स पदार्थोऽस्ति यः शीतोष्णस्पर्शौ नियोगतः करोति। तुषारातपावपि हि नावश्यं कुरुतः; प्रतिबन्धसम्भवात्। कर्त्तृशक्तिस्तु पदार्थानां नियतेति सा शक्तिः कर्त्तृत्वे कश्चिन्नियोगतो मन्दं करोति, कश्चित्? शीघ्रमिति युज्यत एवावश्यकत्वम्॥
शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह--क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः---शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णमुपटुअकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति। ठ्कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवतिऽ इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ॥
सिद्धान्तकौमुदी
करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥
शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् । शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः । य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्यानाओव करोति स उष्णक उच्यत इति भाष्ये । संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह — शीतकोऽलस इति । उष्णकः शीघ्रकारीति च ।
शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्याम् । शीतमिव शीतम् । मन्दमित्यर्थः । शूते सति कार्यकरणे पाटवाऽभावात् । उष्णमिवोष्णम् । शीग्रमित्यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योग लक्षणा षष्ठी तु क्रियाविशेषणान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति, अनभिधानात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शीतोष्णाभ्यां कारिणि (2090) (शीतोष्णशब्दयोर्मुख्यार्थेऽनिष्टापत्तिदर्शकभाष्यम्) किं यः शीतं करोति स शीतकः, यो वा उष्णं करोति स उष्णकः? किं चातः? तुषारे आदित्ये च प्राप्नोति।। (सिद्धान्तभाष्यम्) एवं तर्हि ‐ उत्तरपदालोपोऽत्र द्रष्टव्यः। शीतमिव शीतम्। उष्णमिवोष्णम्। य आशु कर्तव्यानर्थांश्चिरेण करोति स उच्यते ‐ शीतक इति। यः पुनरांशु कर्तव्यानर्थानाश्वेव करोति स उच्यते ‐ उष्णक इति।।