Page loading... Please wait.
5|2|68 - सस्येन परिजातः
॥ तस्मै पाणिनये नमः ॥
5|2|68
SK 1868
सस्येन परिजातः   🔊
सूत्रच्छेदः
सस्येन (तृतीयैकवचनम्) , परिजातः (प्रथमैकवचनम्)
अनुवृत्तिः
कन्  5|2|64 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"सस्येन परिजातः" (इति) कन्
सूत्रार्थः
तृतीयासमर्थात् सस्य (= गुण) शब्दात् परिजातः (= सर्वतः परिपूर्णः) अस्मिन् अर्थे कन्-प्रत्ययः भवति ।
अस्मिन् सूत्र प्रयुक्तयोः शब्दयोः अर्थः एतादृशः -

1. सस्यम् = गुणः (quality) । अत्र सस्य शब्दस्य अर्थः "धान्यम्" इति न स्वीक्रियते, अपितु "गुणः" इति स्वीक्रियते ।
2. परिजातः = परिपूर्णः (full of) इत्यर्थः ।

इदानीम् सूत्रार्थः स्पष्टः स्यात् - यत् किमपि गुणैः परिपूर्णम् अस्ति (full of appropriate qualities), इत्युक्ते यत् सर्वगुणसम्पन्नम् विद्यते, तथा च यस्मिन् कोऽपि दुर्गुणः न दृश्यते, तस्य निर्देशार्थम् "सस्य" शब्दात् "कन्" प्रत्ययः भवति । यथा -

1. सस्येन परिजातः सस्यकः साधुः । सर्वगुणसम्पन्नः साधुः - इति आशयः ।
2. सस्येन परिजातः सस्यकः मणिः । सः मणिः यस्मिन् कोऽपि दोषः न विद्यते - इति आशयः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कन् प्रत्ययः इत्येव स्वर्यते, न ठक्। निर्देशादेव तृतीयासमर्थविभक्तिः। सस्यशब्दात् तृतीयासमर्थात् परिजातः इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। सस्यशब्दो ऽयम् गुणवाचि। परिः सर्वतो भावे वर्तते। यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य इदम् अभिधानम्। सस्येन परिजातः सस्यकः शालिक। सस्यकः साधुः। सस्यको मणिः। आकरशुद्ध इत्यर्थः।
`सस्येन इति सहयोगलक्षणे तृतीया, इत्थम्भूतलक्षणे वा। `सस्यशब्दोऽयं गुणवाची` इति। सस्यशब्दो ह्रयं धान्यवचनोऽप्यस्ति, यथा--शालिः सस्यम्, यवाः सस्यमिति; तस्य ग्रहणं मा विज्ञायीत्येवमर्थमिदमुक्तम्--`इदमभिधानम्` इति। सस्यक इत्येतत्? कन्प्रत्यान्तम्॥
सस्यशब्दौ गुणवाचीति। न दान्यवाची; अनभिधानात्। केचितु ठ्शंसिदुहिगुहिभ्यो वाऽ इति क्यवन्तं शस्यशब्दं पठन्ति। सस्येनेति कर्तरि कृतीया। परिगतो जातः परिजातः, ठ्प्रादयो गताद्यर्थे प्रथमयाऽ इति समासः। समन्तात्सन्बद्धः परिगतः, तत्र सस्यस्य कर्तृत्वम्, तदाहृ--यो गुणैः सम्बद्धो जात इति ॥
सिद्धान्तकौमुदी
कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥
सस्येन परिजातः - सस्येन परिजातः । तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह — कन्स्वर्यते नतु ठगिति । स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम् । गुणवाचीति । व्याख्यानमेवात्र शरणम् । शस्येनेतीति । "शंसु स्तुतौ" इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं — संबद्ध इति ।
सस्येन परिजातः - सस्येन । कर्मकर्तरि तृतीयेयम् । परितो जातः — -परिजातः । फलितमाह — -संबद्ध इति । अतएवेति ।अके नो॑रिति निषेधादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.