Page loading... Please wait.
5|2|65 - धनहिरण्यात्‌ कामे
॥ तस्मै पाणिनये नमः ॥
5|2|65
SK 1865
धनहिरण्यात्‌ कामे   🔊
सूत्रच्छेदः
धन-हिरण्यात् (पञ्चम्येकवचनम्) , कामे (सप्तम्येकवचनम्)
अनुवृत्तिः
तत्र  5|2|63 (अव्ययम्) , कन्  5|2|64 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र कामे" (इति) धन-हिरण्यात् कन्
सूत्रार्थः
सप्तमीसमर्थात् "धन" तथा "हिरण्य" एताभ्यां शब्दाभ्याम् "काम" (इच्छा / अभिलाषा) इत्यस्य निर्देशार्थम् कन्-प्रत्ययः भवति ।
सप्तमीसमर्थात् "धन" शब्दात् तथा "हिरण्य" (= सुवर्णम्) शब्दात् "इच्छा / अभिलाषा" इत्यस्य निर्देशम् कर्तुम् "कन्" प्रत्यय भवति । यथा -

1. धने कामः धनकः । धनप्राप्तौ धनसङ्ग्रहे वा वर्त्तमाना इच्छा "धनक" नाम्ना ज्ञायते । यथा - देवदत्तस्य धनकः (= देवदत्तस्य धनप्राप्तेः इच्छा) ।
2. हिरण्ये कामः हिरण्यकः । हिरण्यप्राप्तौ विद्यमाना इच्छा "हिरण्यक" नाम्ना ज्ञायते । यथा - देवदत्तस्य हिरण्यकः (= देवदत्तरस्य सुवर्णप्राप्तेः इच्छा) ।

स्मर्तव्यम् - अनेन सूत्रेण जायमानौ "धनक / हिरण्यक" शब्दौ "इच्छा" अस्मिन् अर्थे प्रयुज्यते, न हि "यस्य इच्छा अस्ति" तस्य विषये । अतएव उदाहरणेषु "देवदत्तस्य धनकः" (= देवदत्तस्य इच्छा) इति उच्यते, न हि "देवदत्तः धनकः" इति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्र इत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। कामः इच्छा, अभिलाषः। धने कामः धनको देवदत्तस्य। हिरण्यको देवदत्तस्य।
`धने कामः` इति। धनविषय इच्छेत्यर्थः॥
काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ॥
सिद्धान्तकौमुदी
काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥
धनहिरण्यात् कामे - धनहिरण्यात्कामे । तत्रेत्यनुवर्तते । धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यानादिति भावः ।
धनहिरण्यात् कामे - धने काम इति ।तत्रे॑त्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः । उदरात् । आद्यूनशर्दार्थमाह ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
धनहिरण्यात्कामे (2083) (कन्प्रत्ययाधिकरणम्) (5645 एकदेश्युपसंख्यानवार्तिकम्।। 1 ।।) - धनहिरण्यात्कामाभिधाने - (भाष्यम्) धनहिरण्यात्कामाभिधान इति वक्तव्यम्।। (5646 अनिष्टोपत्तिप्रदर्शकवार्तिकम्।। 2 ।।) - षष्ठ्यर्थे ह्यनिष्टप्रसङ्गः - (भाष्यम्) षष्ठ्यर्थे हि सति अनिष्टं प्राप्नोति। धने कामोऽस्येति। तत्तर्हि वक्तव्यम्? (सिद्धान्तभाष्यम्) न वक्तव्यम्। कस्मान्न भवति ‐ धने कामोऽस्येति। अनभिधानात्।।