Page loading... Please wait.
5|2|6 - यथामुखसंमुखस्य दर्शनः खः
॥ तस्मै पाणिनये नमः ॥
5|2|6
SK 1807
यथामुखसंमुखस्य दर्शनः खः   🔊
सूत्रच्छेदः
यथामुख-सम्मुखस्य (षष्ठ्येकवचनम्) , दर्शनः (प्रथमैकवचनम्) , खः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"दर्शनः" (इति) यथामुख-सम्मुखस्य खः
सूत्रार्थः
षष्ठीसमर्थात् "यथामुख" शब्दात् तथा च "सम्मुख" शब्दात् "दर्शनः (दर्पणः)" अस्मिन् अर्थे ख-प्रत्ययः भवति ।
अस्मिन् सूत्रे प्रयुक्तः "दर्शन" इति शब्दः करणाधिकरणयोश्च 3|3|117 इत्यनेन दृश्-धातोः अधिकरणे ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति । "दृश्यते यस्मिन् ; सः दर्शनः" - इति अत्र अर्थः । यस्मिन् वस्तुनि प्रतिबिम्बस्य (reflection) दर्शनम् भवति, तत् वस्तु "दर्शन" इत्यनेन निर्दिश्यते ।यथा - दर्पणः (mirror), जलकुम्भः (a pot filled with water), स्थालिका (a steel plate) - आदयः । एतादृशस्य पदार्थस्य निर्देशार्थम् अस्मिन् सूत्रे "यथामुख" तथा "सम्मुख" शब्दाभ्याम् "ख" प्रत्ययः उक्तः अस्ति । क्रमेण पश्यामः -

1. "यथामुखम् दर्शनः" = यथामुख + ख → यथामुखीनः दर्पणः । मुखम् यथा प्रत्यक्षरूपेण विद्यते, तथैव यस्मिन् दर्पणे दृश्यते, सः "यथामुखीनः दर्पणः" । An object (E.g. mirror) that shows the exact reflection of the face, without any distortions or blurring - is referred as यथामुखीन ।

विशेषः -
[अ] अत्र "यथामुख" अयम् शब्दः "मुखस्य सदृशम्" अस्मिन् अर्थे प्रयुक्तः अस्ति । वस्तुतस्तु यथाऽसादृश्ये 2|1|7 इत्यनेन "यथा" इति शब्दः अव्ययीभावसमासे केवलम् "असादृश्यम्" अस्मिन् अर्थे एव प्रयुज्यते; अतः "सादृश्ये" अस्मिन् अर्थे "यथा" इत्यनेन सह अव्ययीभावसमासः भवितुमेव न अहर्ति । तर्हि अस्मिन् सूत्रे "यथामुख" इत्यस्य प्रयोगः "मुखस्य सदृशः" इत्यस्मिन् अर्थे कथम् भवति - इति प्रश्नः उपतिष्ठते । अस्यैव उत्तरार्थम् काशिकाकारः वदति - "निपातनात् सादृश्येऽव्ययीभावः" । इत्युक्ते, अत्र "यथामुखम्" शब्दः "मुखस्य सदृशम्" अस्मिन् अर्थे निपातनेन सिद्ध्यति (न हि केनचित् सूत्रेण) - इति आशयः ।

[आ] अत्र विग्रहवाक्ये अव्ययीभावसमासात् विहितस्य षष्ठ्येकचनस्य प्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन "अम्"-आदेशः भवति, अतः "यथामुखम्" इति अम्- प्रत्ययान्तम् रूपम् विग्रहवाक्ये प्रयुज्यते । यथामुखम् दर्शनः यथामुखीनः दर्पणः ।

2. सर्वस्य मुखस्य दर्शनः = सम्मुख +ख → सम्मुखीनः दर्पणः । यस्मिन् दर्पणे सम्पूर्णम् मुखम् दृश्यते, सः सम्मुखीनः दर्पणः । An object (E.g. mirror) that shows the reflection of the complete face (not just a part of it) is referred as सम्मुखीन ।

विशेषः - अत्र प्रयुक्तः "सम्मुख" शब्दः "सर्वम् मुखम्" अस्मिन् अर्थे ख-प्रत्ययस्य प्रयोगार्थम् निपात्यते । तदर्थम् "समम् (= सर्वम्) च तत् मुखम्" इति कर्मधारय-समासेन "सममुख" इति शब्दं कृत्वा अग्रे निपातनेन मकारोत्तर-अकारस्य लोपं कृत्वा "सम्मुख" शब्दः सिद्ध्यति ।विग्रहवाक्ये तु "सर्वस्य मुखस्य" इत्येव वक्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यथामुखशब्दात् सम्मुखशब्दात् षष्ठीसमर्थाद् दर्शनः इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। दृश्यते ऽस्मिनिति दर्शनः आदर्शादिः प्रतिबिम्बाश्रय उच्यते। निपातनात् सादृश्ये ऽव्ययीभावः। यथामुखं दर्शनः यथामुखीनः। सर्वस्य मुखस्य दर्शनः सम्मुखीनः।
`दृश्यतेऽस्मिन्निति दर्शनः` इति। अधिकरणे ल्युट्। `यथामुखम्` इति। `यथाऽसादृश्ये` 2|1|7 इत्यव्ययीभावः। मुखस्य सदृशं यथामुखम्। किं पुनस्तत्? आदर्शाश्रयं प्रतिबिम्बम्। ननु च `असादृश्ये` इति प्रतिषेधान्नात्र समासेन भवितव्यम्? इत्यत आह--`निपातनात्` इत्यादि। समासश्चायं पूर्वपदार्थप्रधानः। पूर्वपदं चासत्त्ववचनमिति प्रथमासमर्थादेव प्रत्यय उपपद्यते। अथ वा--`नाव्ययीभावादतोऽम्त्वपञ्चम्याः` 2|4|83 इति ज्ञापकादव्ययीभावाद्द्वितीयादयो भवन्तीत्यतो द्वितीयासामथ्र्यात्? प्रत्य उपपद्यते। `यथामुखं यतामुखीनः` इति। मुखसदृस्य दर्शनः` इति। कर्मणि षष्ठी। यत्राऽ‌ऽदर्शादौ सर्व मुखं दृश्यते स एवमुच्यते॥
दृश्यतेऽस्मिन्दर्शन इति। अधिकरणे। ल्युट्, कः पुनरसौ ? इत्याह--आदर्शादिरिति। आदिशब्देन जलादिकं गृह्यते। प्रतिबिम्बाश्रय इति। यो हि मुखादिप्रतिविम्बस्याश्रयस्तत्र मुखादिकं दृश्यते। मुखस्य सदृशं यथामुखं प्रतिविम्बम्, सादृश्यप्रतिषेधात्कथमत्र समासः? तत्राह--निपातनादिति। भट्टिकाव्ये तु पदार्थानतिवृतौ यथाशबप्द आश्रितः, तथा च मायामृगं प्रकृत्य भवति श्लोकः--ठ्यथामुखीनः सीतायाः पुप्लुवे वहुलो भवन्ऽ इति, यथामुखं दर्शन इत्यव्ययीभावस्यापि यथामुखशब्दस्योन्मतगङ्गादिवत् सत्वचनत्वात्कर्मशक्तियोगे सति दर्शनशब्दयोगे कृद्योगलक्षणा कर्मणि षष्ठी, तस्याः ठ्नाव्ययीभावात्ऽ इत्यम्भावः। अत एव पूर्वमुक्तम्--ठ्यथामुखशब्दात्संमुखशब्दाच्च षष्ठीसमर्थात्ऽ इति। समं मुखं संमुखमिति समशब्दः सर्वशब्दपर्यायः। निपातनादन्त्यलोपः, संमुखस्येति कर्मणि षष्ठी। प्रत्ययसन्नियोगेनान्त्यलोपनिपातनान्नेदं प्रयोगार्हम्, किं तर्हि ? प्रक्रियावाक्यम्। संशब्दस्तु न समशब्दस्यार्थे दृश्यते। सम्मुखीन इति। यत्रादर्शादौ सर्वं मुखं दृश्यते तदेवमुच्यते। कथं तहि ठ्संयुगे संमुखीनं तमुद्यन्तं प्रसहेत कःऽ इति ? अभिमुखावस्तानात्साधर्म्याद्भविष्यति ॥
सिद्धान्तकौमुदी
मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥
यथामुखसंमुखस्य दर्शनः खः - यथामुख । यथामुख, समुखं-आभ्यां षष्ठन्ताभ्यां दर्शन इत्यर्थे खःस्यादित्यर्थः । दृश्यतेऽस्मिन्निति दर्शनः= आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः , "यथाऽसादृश्ये" इति सादृश्ये तन्निषेधादित्यत आह — निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सर्वपर्ययस्येत्याह — समं सर्वं मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः ।
यथामुखसंमुखस्य दर्शनः खः - यथामुख । दृश्यतेऽस्मिन् दर्शनः=आदर्शादिः । अधिक,रणे ल्युट् ।असादृश्ये॑इति प्रतिषेधात्सादृश्ये कथं यथाशब्दस्य समासः । तत्राह — — निपातनादिति । एतच्च वृत्तिग्रन्थमनुसृत्योक्तम् । भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द आश्रितः । तथा च मायामृगं प्रकम्योक्तं — -॒यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्इति । यथामुखं दर्शन इति । अव्ययीभावस्यापि यथामुखशब्दस्येन्मत्तगङ्गादिवत्सत्त्ववचनत्वात्कर्मशक्तियोगे सति कृद्योगलक्षणा षष्ठी । तस्यानाव्ययीभावा॑दित्यमादेशः । सर्वस्य मुखस्येति ।संमुखस्ये॑ति नोक्तं, प्रत्ययसंनियोगेनैव समशब्दस्याऽन्त्यलोपनिपातनात् । संशब्दस्तचुसमशब्दार्थे न दृश्यते,संमुखो भव॑इत्यत्रअभिमुख॑इत्यर्थप्रतीतेः । तत्र च खप्रत्ययस्याऽनिष्यमाणत्वात् । कथं तर्हि — — ॒संयुगे संमुखीनं तमुद्गदं प्रसहेत कः॑इति भट्टिः । अभिमुखावस्थानात्सामथ्र्याद्भविष्यतीति हरदत्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
यथामुखसंमुखस्य दर्शनः खः (2024) (खप्रत्ययाधिकरणम्) (निपातनाभिप्रायशङ्काभाष्यम्) सममुखेति किं निपात्यते? (5702 निपातनार्थबोधकवार्तिकम्।। 1 ।।) - संमुखेति समस्यान्तलोपः - (भाष्यम्) संमुखेति समस्यान्तलोपो निपात्यते। सममुखस्य दर्शनः ‐ संमुखीनः।।