Page loading... Please wait.
5|2|48 - तस्य पूरणे डट्
॥ तस्मै पाणिनये नमः ॥
5|2|48
SK 1849
तस्य पूरणे डट्  
सूत्रच्छेदः
तस्य (षष्ठ्येकवचनम्) , पूरणे (सप्तम्येकवचनम्) , डट् (प्रथमैकवचनम्)
अनुवृत्तिः
संख्यायाः  5|2|47 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य पूरणे" (इति) सङ्ख्यायाः डट्
सूत्रार्थः
षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् "पूरणः" इत्यस्मिन् अर्थे "डट्" प्रत्ययः उच्यते ।
अस्य सूत्रस्य अर्थम् ज्ञातुम् आदौ "पूरणः" इति किम् तत् ज्ञेयम् । "पूर्यते अनेन" अस्मिन् अर्थे "पॄ (पूरणे)" धातोः ल्युट्-प्रत्ययं कृत्वा "पूरण" इति शब्दः सिद्ध्यति । "गणनायाः पूर्णता भवति" इति अर्थः अत्र विवक्षितः अस्ति । Ordinal number - इति आशयः ।

यथा - पञ्च जनाः सन्ति इति चिन्तयामः । "एतेषाम् गणना कर्तव्या चेत् कीदृशी कुर्यात्" इति प्रश्ने प्राप्ते -"अयम् प्रथमः, अयम् द्वितीयः, अयं तृतीयः" - एतादृशम् पृथक्करणम् कर्तुम् शक्यते । अत्र "द्वितीय", "तृतीय", "चतुर्थ" एतादृशाः शब्दाः गणनायाः पूर्णतायै प्रयुज्यन्ते, अतः एते सर्वे "पूरणवाचकाः शब्दाः" सन्ति इत्युच्यते । एतेषाम् निर्माणार्थम् यस्य प्रत्ययस्य साहाय्यम् स्वीक्रियते, सः प्रत्ययः "पूरणप्रत्ययः" नाम्ना ज्ञायते । वर्तमानसूत्रेण "डट्" इति पूरणप्रत्ययः पाठितः अस्ति ।

यथा -
1. एकादशानाम् पूरणः
= एकादशन् + डट्
→ एकादश् + अ [डित्त्वात् टेः 6|4|143 इति टिलोपः[
→ एकादश (eleventh इत्यर्थः)

2. द्वादशानाम् पूरणः द्वादशः । (twelfth इत्यर्थः)
3. विंशतीनाम् पूरणम् विंशः (twentieth इत्यर्थः) । प्रक्रिया इयम् -
विंशति + डट्
→ विंश + अ [ति विंशतेर्डिति 6|4|142 इति डित्-प्रत्यये परे "विंशति" शब्दस्य "ति" इत्यस्य लोपः]
→ विंश [अतो गुणे 6|1|97 इति पररूप-एकादेशः]

स्मर्तव्यम् -
1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यनेन स्त्रीत्वे विवक्षिते "ङीप्" प्रत्ययं स्वीकुर्वन्ति । यथा - एकादशी तिथी (eleventh day), षोडशी नदी (sixteenth river) - आदयः ।

2. यद्यपि डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, तथापि अयम् "आगमः" नास्ति, प्रत्ययः एव अस्ति इति स्मर्तव्यम् । अस्य ज्ञानं तु व्याख्यानादेव भवति ।

विशेषः - पूरणप्रत्ययानाम् प्रकरणे इदम् सूत्रम् औत्सर्गिकरूपेण डट्-प्रत्ययस्य विधानं करोति । अस्मात् अग्रे षष्ट्यादेश्चासंख्यादेः 5|2|58 इति यावत्सु सूत्रेषु अस्य डट्-प्रत्ययस्य केचन आगमाः / अपवादाः अपि विधीयन्ते । एतेषां सर्वेषाम् सङ्कलनम् अस्मिन् लेखे कृतम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्य इति षष्ठीसमर्थात् सङ्ख्यावाचिनः प्रातिपदिकात् पूरणे इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यते ऽनेन इति पूरणम्। येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः। एकादशानां पूरणः एकदशः। त्रयोदशः। यस्मिन्नुपसञ्जाते ऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः। इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति।
इह द्वे संख्याग्रहणे अनुवत्र्तते, तत्र चैकेन `संख्यावाचिनः प्रातिपदिकात्` इति ब्राउवता प्रकृतिर्विशेषिता। द्वितीयेन तु प्रत्ययार्थ विशेषयितुमाह--`येन` इत्यादि। संख्यानशब्दं समुच्चारयन्? संख्नावचनः संख्यानशब्देन प्रत्ययार्थो विशेष्यते इति दर्शयति। द्विविधो हि संख्याशबदः--संख्यानवचनः, संख्येयवचनश्च। तत्र यदि संख्येयवचनेन प्रत्ययार्थो विशेष्यते, तदायमर्थः स्यात्--संख्येयं मुष्टआदिकं येन पूर्यते द्रव्यान्तरेणातिरिक्तं क्रियते स च पूरण इति, ततश्च पञ्चानां मुष्टिकाणां घट इत्यत्रापि स्यात्। तस्मात्संख्यावचनेनैव प्रत्ययार्थो विशेषयित्तुं युक्तः। `सम्पद्यते` इति। पूय्र्यत इत्यस्यार्थमाचष्टे। एतेनैतद्दर्शयति--संख्यावचनेन प्रत्ययार्थो विशेष्यते। न मुष्टिकाणामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम्, किं तर्हि? सम्पत्तिरेवेति। `इह न भवति` इत्यादि। न हि घट उपजाते पञ्चत्वसंख्या मुष्टिकाणा सम्पदयते। किं तर्हि? तत्र पञ्चसंख्यकानामेव द्रव्यान्तरेणातिरिक्तता॥
तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह--येनेति। संख्येत्यस्य विवरणम्--संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु ठ्समर्थः पदविधिःऽ इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥
सिद्धान्तकौमुदी
एकादशानां पूरण एकादशः ॥
तस्य पूरणे डट् - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
एकादशानां पूरणः एकादशः॥
महाभाष्यम्
तस्य पूरणे डट् (2066) (डटोऽधिकरणम्) (5730 अतिप्रसङ्गापादकवार्तिकम्।। 1 ।।) - तस्य पूरण इत्यतिप्रसङ्गः - (भाष्यम्) तस्य पूरण इत्यतिप्रसङ्गो भवति। इहापि प्राप्नोति ‐ पञ्ञ्चानामुष्ट्रिकाणां पूरणो घट इति।। (5731 अतिप्रसङ्गनिरासवार्तिकम्।। 2 ।।) - सिद्धं तु संख्यापूरण इति वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? संख्यापूरण इति वक्तव्यम्। एवमपि घटे प्राप्नोति, संख्येयं ह्यसावदि्भः पूरयति। संख्यापूरण इति ब्रूमः, न ब्रूमः संख्येयपूरण इति।। (5732 प्रकारान्तरेणातिप्रसङ्गनिरासवार्तिकम्।। 3 ।।) - यस्य वा भावादन्यसंख्यत्वं तत्र - (भाष्यम्) अथ वा यस्य भावादन्या संख्या प्रवर्तते तत्रेति वक्तव्यम्। एवमपि द्वितीयेऽध्याये अष्टम इति प्राप्नोति, सर्वेषां हि तेषां भावात्संख्या प्रवर्तते। चरमोपजाते पूर्वस्मिंश्चानपगते इति वक्तव्यम्। एवमपि एकादशीद्वादश्यौ सौविष्टकृती, इदं द्वितीयमिदं तृतीयं, दश दशमानि ‐ इति न सिध्यति, सूत्रं च भिद्यते।। (वार्तिकप्रत्याख्यानभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तं तस्य पूरण इत्यतिप्रसङ्गः इति। परिहृतमेतत् ‐ सिद्धं तु संख्यापूरण इति वचनादिति। तत्तर्हि संख्याग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? संख्याया गुणस्य निमाने मयट् (47) इति। एवं तर्हि नेयं वृत्तिरुपालभ्यते। किं तर्हि? वृत्तिस्थानमुपालभ्यते।। वृत्तिरेवात्र न प्राप्नोति। किं कारणम्? प्रत्ययार्थाभावात्। नैष दोषः। वचनात्स्वार्थिको भविष्यति। अथवा पूर्वस्याः संख्यायाः परापेक्षयोत्पत्तिर्वक्तव्या। उत्तरा च संख्या आदेशो वक्तव्यः।। अथवा न्यूनेऽयं कृत्स्नशब्दो द्रष्टव्यः। चतुर्षु पञ्ञ्चशब्दः।। अथवा सर्व एव द्व्यादयोऽन्योन्यमपेक्षन्ते। यद्येवं द्वितीयेऽध्याये अष्टम इति प्राप्नोति। भवत्येव।। (वृत्त्युंपालम्भमारभ्यार्थस्य संग्रहश्लोकाः) प्रकृत्यर्थाद्वहिः सर्वा वृत्तिः प्रायेण लक्ष्यते। पूरणे स्यात्कथं वृत्तिर्वचनादिति लक्ष्यताम्।। 1 ।। तस्याः पूर्वा तु या संख्या तस्यां भवतु तद्धितः। आदेशश्चोत्तरा संख्या तथा न्याय्या भविष्यति।। 2 ।। न्यूने वा कृत्स्नशब्दोऽयम्पूर्वस्यामुत्तरा यदि। सार्मथ्यं च तया तस्यास्तथा न्याय्यं भविष्यति।। 3 ।। अन्योन्यं वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयो यदि। प्रवर्तन्ते तथा न्याय्या वृत्तिर्भवति पूरणे।। 4 ।। बहूनां वाचिका संख्या पूरणश्चैक इष्यते। अन्यत्वादुभयोर्न्याय्या वार्क्षी शाखा निदर्शनम्।। 5 ।।