Page loading... Please wait.
5|2|46 - शदन्तविंशतेश्च
॥ तस्मै पाणिनये नमः ॥
5|2|46
SK 1847
शदन्तविंशतेश्च   🔊
सूत्रच्छेदः
शदन्तविंशतेः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
डः  5|2|45 (प्रथमैकवचनम्) , इति  5|2|45 (अव्ययम्) , अधिकम्  5|2|45 (प्रथमैकवचनम्) , अस्मिन्  5|2|45 (सप्तम्येकवचनम्) , तद्  5|2|45 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तद् अस्मिन् अधिकम् इति" (इति) शदन्त-विंशतेः डः
सूत्रार्थः
"अस्मिन्" इत्यस्मिन् अर्थे "अधिकम्" इति वक्तव्ये "शत्" यस्य अन्ते अस्ति तादृशात् शब्दात्, तथा च "विंशति" शब्दात् प्रथमासमर्थात् ड-प्रत्ययः भवति ।
सूत्रार्थम् सम्यक् ज्ञातुम् आदौ केचन बिन्दवः ज्ञेयाः -

1. "शदन्त" इत्युक्ते सः शब्दः यस्य अन्ते "शत्" इति विद्यते । यथा - त्रिंशत्, चत्वारिंशत्, एकत्रिंशत्, द्विचत्वारिंशत् - एतादृशाः शब्दाः अनेन पदेन गृह्यन्ते ।
2. अस्मिन् सूत्रे "अधिकम् अस्मिन्" इति अर्थः उक्तः अस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - शतसहस्रयोरेवेष्यते । इत्युक्ते, "तत् अधिकम् अस्मिन् शते" ( A certain number more than hundred) तथा "तत् अधिकम् अस्मिन् सहस्रे" (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति ।
3. अस्मिन् सूत्रे "ड" इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये "ड्" इत्यस्य चुटू 1|3|7 इत्यनेन इत्संज्ञा भवति, तस्य तस्य लोपः 1|3|9 इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् टेः 6|4|143 इत्यनेन अङ्गस्य टिलोपः अपि विधीयते ।

इदानीम् कानिचन उदाहरणानि पश्यामः -

1. त्रिंशत् अधिकाः अस्मिन् शते
= त्रिंशत् + ड
→ त्रिंश् + अ [टेः 6|4|143 इति टिलोपः]
→ त्रिंश
यथा - "त्रिंशम् शतम्" । This is thirty more than hundred - इत्यर्थः ।

2. द्विचत्वारिंशत् अधिकाः अस्मिन् सहस्रे
= द्विचत्वारिंशत् + ड
→ द्विचत्वारिंश् + अ [टेः 6|4|143 इति टिलोपः]
→ द्विचत्वारिंश
यथा - द्विचत्वारिंशम् सहस्रम् । This is forty-two more than thousand - इत्यर्थः ।

3. विंशतिः अधिकाः अस्मिन् सहस्रे
= विंशति + ड
→ विंश + अ [ति विंशतेर्डिति 6|4|142 इति "ति" इत्यस्य लोपः]
→ विंश [अतो गुणे 6|1|197 इति पररूपम्]
यथा - विंशम् सहस्रम् ।

अत्र द्वे वार्त्तिके ज्ञातव्ये -

1. सङ्ख्याग्रहणम् च कर्तव्यम् । इत्युक्ते, "शदन्त" इत्यनेन केवलम् सङ्ख्यावाचिशब्दानां एव ग्रहणं भवति, अन्येषाम् न । यथा - "गोत्रिंशत् अधिका अस्मिन् शते" इत्यत्र वर्तमानसूत्रम् न प्रयुज्यते, यतः अत्र "गोत्रिंशत्" इति समस्तपदम् सङ्ख्यासंज्ञकम् नास्ति ।

2. विंशतेश्चान्तग्रहणम् कर्तव्यम् । इत्युक्ते, "विंशति" शब्दस्य विषये "तदन्तविधिः" स्वीकर्तव्यः, अत्रापि च सङ्ख्यावाचिशब्दानाम् एव ग्रहणम् कर्तव्यम्, अन्येषाम् न । यथा -
[अ] पञ्चविंशतिः अधिकाः अस्मिन् शते = पञ्चविंशम् शतम् ।
[आ] गोविंशतिः अधिकाः अस्मिन् सहस्रे" - इत्यत्र प्रत्ययः न विधीयते ।

अस्य सूत्रस्य विषये केचन बिन्दवः स्मर्तव्याः -

1. अस्य सूत्रस्य प्रयोगः "शतम्" / "सहस्रम्" एतयोः विषये एव भवति । यथा - "एकविंशतिः अधिका अस्मिन् त्रिंशति" इत्यत्र इदम् सूत्रम् न प्रयुज्यते ।

2.अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - प्रकृतिप्रत्ययार्थयोः समानजातीयत्वे एवेष्यते । इत्युक्ते, यत्र "शदन्त / विंशत्यन्त" शब्दः तथा च "शतम् / सहस्रम्" शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the "hundred / thousands" reference the same type of entity as the दशान्त represents.
यथा - "एकत्रिंशत् कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु" इत्यत्र "एकत्रिंशम् कार्षापणशतम्" इति प्रयोगः भवति, परन्तु "एकत्रिंशत् कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)" इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।

3. अस्मिन् सूत्रे "इति" अयम् शब्दः अनुवृत्त्या स्वीक्रियते । अस्य प्रयोजनम् "विवक्षा" इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र "विवक्षा" इत्यनेन "शत" तथा "सहस्र" एतयोः निर्देशः भवति । इत्युक्ते, केवलम् "शत" तथा "सहस्र" एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र "इति" शब्दः उक्तः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदस्मिन्नधिकम् इत्यनुवर्तते, डः इति च। शदन्तात् प्रातिपदिकात् विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकम् इत्येतस्मिन् विषये। त्रिंशदधिका अस्मिञ् छते त्रिंशं शतम्। शद्ग्रहने ऽन्तग्रहनं प्रत्ययग्रहणे यस्मात् स तदादेरधिकार्थम्। एकत्रिंश शतम्। एकचत्वारिंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोत्रिंशदधिका अस्मिन् गोशते इति। विंशतेश्च। विशं शतम्। तदन्तादपि इति वक्तव्यम्। एकविंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोविंशतिरधिका ऽस्मिन् गोशते इति।
ननु च `पङ्क्ति` 5|1|58 इत्यादौ सूत्रे तिंरशदादयः शब्दाः शत्प्रत्ययान्ताः, ततश्च प्रत्ययग्रहणपरिभाषयैव तदन्तात्? प्रत्ययो लभ्यते, तत्? किमन्तग्रहणेन? इत्याह--`शद्ग्रहणेऽन्तग्रहणम्` इत्यादि। यद्यन्तग्रहणं न क्रियेत, तदा प्रत्ययग्रहणपरिभाषया यस्मात्? स विहितस्तदादेरेव स्यान्; नाधिकात्। अतोऽधिकादपि यथा स्यादित्येवमर्थमन्तग्रहणम्। यदि तर्हि यस्मात्? प्रत्ययो विहितस्तदादेरधिकार्थमन्तग्रहणं केवलान्न प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन केवलादपि भविष्यति। `संख्याग्रहणञ्च कत्र्तव्यम्` इति। संख्या गृह्रते येन तत्? संख्याग्रहणं कत्र्तव्यम्। किं पुनः कत्र्तव्यम्? व्याख्यानम्। तत्रैवं व्याख्यानम्--`संख्याया अवयवे तयप्` 5|2|42 इत्यतः संख्याया इत्यनुवत्र्तते, तेन संख्याधिकादेव भविष्यति, नान्याधिकात्। `विंशतेश्च` इत्यादि। विंशतिशब्दाच्च तदन्ताच्च प्रातिपदिकाङ्डप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--विंशतिशब्दात्तावत्? साक्षात्? सूत्रोपात्तात प्रत्ययो भवति, तदन्तादपि; चकारस्यानुक्तसमुच्चयार्थत्वादिति। `संख्याग्रहणं च` इत्यादौ पूर्व एवार्थः। व्याख्यानमपि पूर्वकमेव॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥
शदन्तविंशतेश्च - शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे — डः स्यादुक्तेऽर्थेइति । दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः । तिंरशं शतमिति । हे सतिटि॑रिति टिलोपः । विंशमिति । विंशतिरिस्मिन्नधिका इति विग्रहः ।ति विंशते॑रिति तिशब्दस्य लोपः । अन्तग्रहणादेकतिंरशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् ।विंशतावप्यन्तग्रहण॑मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शदन्तविंशतेश्च (2064) (908 विधिसूत्रम् ।। 5 । 2 । 1 आ. 22) (अन्तग्रहणाक्षेपभाष्यम्) किमर्थं शद्ग्रहणेऽन्तग्रहणम्? (5722 अन्तग्रहणप्रयोजनवार्तिकम्।। 1 ।।) - शद्ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिकार्थम् - (भाष्यम्) शद्ग्रहणेऽन्तग्रहणं क्रियते प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीति इह न प्राप्नोति ‐ एकत्रिंशं शतम्। इष्यते चात्रापि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति-अन्तग्रहणमेवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतम्। किं तर्हीति? (5723 उपसंख्यानवार्तिकम्।। 2 ।।) - संख्याग्रहणं च - (भाष्यम्) संख्याग्रहणं च कर्तव्यम्। इह मा भूत् ‐ गौत्रिंशदधिका अस्मिञ्ञ् शत इति।। (5724 उपसंख्यानवार्तिकम्।। 3 ।।) - विंशतेश्च - (भाष्यम्) विंशतेश्चान्तग्रहणं कर्तव्यम्। इहापि यथा स्यात् ‐ एकविंशं शतम्। चकारात्संख्याग्रहणं च कर्तव्यम्। इह मा भूत्-गोविंशतिरधिका अस्मिञ्ञ्शत इति।।