Page loading... Please wait.
5|2|44 - उभादुदात्तो नित्यम्
॥ तस्मै पाणिनये नमः ॥
5|2|44
SK 1845
उभादुदात्तो नित्यम्  
सूत्रच्छेदः
उभात् (पञ्चम्येकवचनम्) , उदात्तः (प्रथमैकवचनम्) , नित्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
अयच्  5|2|43 (प्रथमैकवचनम्) , तयस्य  5|2|43 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
उभात् तयस्य नित्यम् उदात्तः अयच्
सूत्रार्थः
"उभ" शब्दात् विहितस्य तयप्-प्रत्ययस्य नित्यम् आद्युदात्तः "अयच्" आदेशः भवति ।
"उभ" (both) इति शब्दः लौकिकसंस्कृते "द्वौ" इत्यस्मिन् अर्थे सङख्यारूपेण प्रयुज्यते । अस्मात् शब्दात् संख्याया अवयवे तयप्‌ 5|2|42 इत्यनेन "अवयवाः अस्य" इत्यस्मिन् अर्थे "तयप्" प्रत्ययः विधीयते । अस्य तयप्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् "अयच्" इति आदेशः भवति । यथा -

उभौ (= द्वौ) अवयवौ अस्य
= उभ + तयप् [संख्याया अवयवे तयप्‌ 5|2|42 इति तयप्-प्रत्ययः]
→ उभ + अयच् [वर्तमानसूत्रेण "तयप्" इत्यस्य "अयच्" आदेशः]
→ उभ् + अयच् [यस्येति च 6|4|148 इति अकारलोपः]
→ उभय ।
एतादृशम् निर्मितः "उभय" शब्दः नित्यम् एकवचने एव प्रयुज्यते ।
उदाहरणम् - उभयः मणिः । An bead/gem with two parts - इत्यर्थः ।

अत्र कश्चन विशेषः ज्ञातव्यः । "उभ" शब्दस्य "द्वावपि" (both) इति अपि कश्चन अर्थः अस्ति, परन्तु अस्मिन् अर्थे "उभ" शब्दः सङ्ख्यावाची नास्ति । अस्मिन् अर्थे वस्तुतः संख्याया अवयवे तयप्‌ 5|2|42 इत्यनेन तयप्-प्रत्ययः न भवति । परन्तु अस्यां स्थितौ संख्याया अवयवे तयप्‌ 5|2|42 इत्यस्य योगविभागं कृत्वा केवलम् "तयप्" इति भिन्नं सूत्रं स्वीकृत्य "उभ" शब्दात् "अवयव" अस्मिन् अर्थे "तयप्"प्रत्ययः विधीयते, यस्य च वर्तमानसूत्रेण "अयच्" इति आदेशः भवति । यथा -
उभ + तयप्
→ उभ + अयच् [वर्तमानसूत्रेण "तयप्" इत्यस्य "अयच्" आदेशः]
→ उभ् + अयच् [यस्येति च 6|4|148 इति अकारलोपः]
→ उभय ।
एतादृशं निर्मितः "उभय" शब्दः" नित्यम् बहुवचने एव प्रयुज्यते । यथा - उभये देवमनुष्याः । द्वौ राशी समुदायस्य अवयवौ- एकः देवानां राशिः, अपरः मनुष्याणाम् - इति अत्र आशयः अस्ति । "One section of the group is gods and second section of the group is humans " - इत्यर्थः ।

अस्मिन् सूत्रे "उदात्तः" इति अपि निर्देशः क्रियते । अनेन निर्देशेन "उभय" इति शब्दः आद्युदात्तत्वम् प्राप्नोति । वस्तुतः "अयच्" प्रत्यये चकारः इत्संज्ञकः अस्ति, येन तद्धितस्य 6|4|164 इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वम् विधीयते । तत् बाधित्वा आद्युदात्तत्वम् कारयितुम् अत्र "उदात्तः" इति स्वीक्रियते ।

विशेषः -
1. अस्मिन् सूत्रे केवलम् "उदात्तः" इत्येव निर्देशः क्रियते, न हि "आद्युदात्तः" इति । तर्हि अनेन शब्देन "अयच्" इत्यस्य "आद्युदात्तत्वम्" कथं सिद्ध्यति - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - "वचनसामर्थ्यात् आदेरुदात्तत्वं विज्ञायते" । इत्युक्ते, अस्मिन् सूत्रे यदि "उदात्त" शब्दस्य ग्रहणं न क्रियेत, तर्हि तद्धितस्य 6|4|164 इत्यनेन प्रत्ययस्य अन्तोदात्तत्वम् विधीयेत । अतः "उदात्त" इत्यस्य ग्रहणम् अस्यैव अन्तोदात्तस्वरस्य बाधकं भवति । इत्युक्ते, प्रत्ययस्य अन्तिमः स्वरः अनेन उदात्तत्वं न प्राप्नोति , अपितु "आदि"स्वरः एव उदात्तत्वम् प्राप्नोति । अतः अत्र "उभय" शब्दस्य भकारोत्तर-अकारस्य आद्युदात्तत्वम् निर्दिश्यते ।

2. अस्मिन् सूत्रे उक्तः "अयच्" इति शब्दः "तयप्" प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, न हि स्वतन्त्रप्रत्ययरूपेण । अस्य प्रयोजनम् "ङीप्" प्रत्ययविधानम् इति अस्ति । स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव "उभय" शब्दः अपि ङीप्-प्रत्ययं एव स्वीकुर्यात्, येन "उभयी" इति शब्दः सिद्ध्येत् - इति चिन्तयित्वा अत्र आचार्येण "अयच्" इति तयप्-प्रत्ययस्य आदेशरूपेण उच्यते ।

विशेषः - यद्यपि "अयच्" इति प्रत्ययः काशिकायाम् तथा कौमुद्याम् - उभयत्र "तयप्" प्रत्ययस्य आदेशरूपेण पाठ्यते, तथापि भाष्यकारस्य चिन्तनम् अस्मिन् विषये सम्पूर्णरूपेण भिद्यते । भाष्यकारः अस्मिन् सूत्रे "तयस्य" इत्यस्य शब्दस्य अनुवृत्तिमेव न स्वीकरोति ; अतश्च "अयच्" इति शब्दः "तयप्" इत्यस्य आदेशरूपेण न मत्वा स्वतन्त्रप्रत्ययरूपेण स्वीकरोति । इत्युक्ते, भाष्यकारस्य मतेन "उभ" शब्दात् "अयच्" इति स्वतन्त्रः प्रत्ययः विधीयते । अस्मिन् विषये स्थानिवदादेशोऽनल्विधौ 1|1|56 इत्यत्र भाष्यकारः स्पष्टरूपेण वदति - "अयच् प्रत्ययान्तरम्" । इत्युक्ते, "अयच्" इति भिन्नरूपेण प्रत्ययः स्वीकर्तव्यः ; न हि तयप्-प्रत्ययस्य आदेशरूपेण - इति । अस्य कारणम् भाष्यकारेण एतादृशम् दीयते - यदि "उभ" शब्दात् विहितः "अयच्" इति प्रत्ययः तयप्-प्रत्ययस्य आदेशरूपेण स्वीक्रियते, तर्हि प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1|1|33 इत्यनेन यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति, तथैव "उभय" शब्दः अपि जस्-प्रत्यये परे विकल्पेनैव सर्वनामसंज्ञकः भवेत्, येन "उभय" शब्दस्य पुँल्लिङ्गस्य प्रथमाबहुवचनस्य रूपम् "उभयाः" इति अपि भवेत्, यत् न इष्यते । अतः "अयच्" इति प्रत्ययः स्वतन्त्ररूपेणैव ग्रहीतव्यः ।

परन्तु एवं क्रियते चेदपि दोषः उद्भवति । यदि "अयच्" इति तयप्-प्रत्ययस्य आदेशरूपेण न स्वीक्रियते, तर्हि स्त्रीत्वे विवक्षिते "उभय" इति शब्दः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यनेन ङीप्-प्रत्ययम् नैव प्राप्नुयात्, यतः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 अस्मिन् सूत्रे केवलम् "तयप्" इत्येव गृह्यते, न हि "अयच्" इति । अस्यां स्थितौ "उभयी" इति शब्दः एव न सिद्ध्येत् । अस्य समाधानम् अपि भाष्यकारः ददाति - मात्रच इत्येवं भविष्यति । कथम् ? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात् । इत्युक्ते, भाष्यकारस्य मतेन टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यत्र निर्दिष्टः "मात्रच्" इति शब्दः कस्यचन प्रत्ययस्य निर्देशं न करोति अपितु "प्रत्याहारस्य" निर्देशं करोति । "मात्रच्" इति अयम् प्रत्याहारः "मात्र + च्" इति विभज्य प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 इत्यस्मिन् सूत्रे विद्यमानात् "मात्र" प्रत्ययात् आरभ्य द्वित्रिभ्यां तयस्यायज्वा 5|2|43 इत्यस्मिन् सूत्रे विद्यमानम् "अयच्" प्रत्ययं यावत् सर्वेषाम् मध्यगानाम् प्रत्ययानाम् अपि ग्रहणं करोति । The word मात्रच् in the aforementioned sutra is considered a प्रत्याहार, which spans all the प्रत्ययाः between प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 and द्वित्रिभ्यां तयस्यायज्वा 5|2|43 । इत्युक्ते, "मात्रच्" इत्यनेन प्रत्याहारेण "मात्रच्, अण्, वतुप्, डति, तयप्, अयच्" एते षट्-प्रत्ययाः गृह्यन्ते । एवंप्रकारेण टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यस्मिन् सूत्रे "अयच्" प्रत्ययस्यापि ग्रहणम् क्रियते, येन "उभयी" इति शब्दः सिद्ध्यति ।
अस्मिन् विषये अधिकं जिज्ञासवः स्थानिवदादेशोऽनल्विधौ 1|1|56 इत्यस्य भाष्यम् पश्येयुः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उभशब्दात् परस्य तयपो नित्यम् अयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण एव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यम् अयजादेशो विधीयते। उभयो मणिः। उभये ऽस्य देवमनुष्याः।
`वचनसामथ्र्यात्` इत्यादि। यद्यन्तोदात्तः स्यादुदात्तवचनमनर्थकं स्यात्। अयचि च कृते चित्स्वरेणैव `सतिशिष्टस्वरो बलीयान्` (वा। 6.1.164) इत्यन्तोदात्तत्वस्य सिद्धत्वात्। आद्युदात्तत्वं ह्रन्यथा न सिध्यतीति तद्रथं क्रियसाणमर्थबद्वचनं भवतीति। `यदि लौकिको संख्या` इति। द्वित्रादिवत्। पूर्वेण योगेन तययो विधानम्, तस्यापरेण योगेन नित्यमयजादेशो विधीयते। `उभये देदमनुष्याः` इति। उभाववयवौ येषामित्युभये। कथं बहुत्वे देवमनुष्याणां द्वाववयवौ भवतः? यद्यप्यत्र बहुत्वमस्ति, द्वित्वमपि तु प्रातिपदिकयोरस्त्येव; अत्र हि द्वौ राशी समुदायस्यावयवौ--एको देवनां राशिः, अपरो मनुष्याणामित्यदोषः॥ बाल-मनोरमातदस्मिन्नधिकमिति दशान्ताड्डः 1822, 5.2.44 अथ मत्वर्थीयाः--तदस्मिन्नधिकं तदधिकमस्मिन्निति विग्रहे प्रथमान्ताद्दशन्शब्दान्तात्समासादस्मिन्नित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहम्। अत एव निर्देशात्पञ्चम्यर्थे सप्तमीत्याहुः। `औपश्लेषिकेऽधिकरणे सप्तमी`ति भाष्यम्। `सामीपिकमधिकरण`मिति कैयटः। एकादश माषा अधिका अस्मिन्निति। अस्मादित्यर्थः। अस्मिन् उपश्लिष्टा इति वा। न च व्यपदेशिवत्त्वे केवलदशन्शब्दादपि स्यादिति शङ्क्यं, व्यपदेशिद्भावोऽप्रातिपदिकेने`त्युक्तेः। बाल-मनोरमाउभादुदात्तो नित्यम् 569, 5.2.44 उभादुदात्तो नित्यं। स चोदात्त इति। आद्युदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम्। अत्र `अयच्प्रत्यय एव विधीयते, नतु तयप आदेशः` इति स्थानिवत्सूत्रभाष्ये स्पष्टम्। `तयप आदेश` इति मूलं तु वार्तिकानुरोधेन।**** इति बालमनोरमायाम् पाञ्चमिकाः। ****अथ परस्मैपदप्रक्रिया।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते -- शेषात्कर्तरीति।
उदातवचनसामर्थ्यादिति। अन्तोदातत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदातत्वं तु न भवति, ठनुदातं पदमेकवर्जम्ऽ इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदातत्वम्, उभयेत्यत्र चामन्त्रिताद्यौदातत्वं बाधितुमुदातवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्। उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः--उदात इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न ठ्प्रथमचरमतयऽ इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः। उदातग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्। अथ वा--दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; ततु तथा नाश्रितमित्येव। उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ॥
सिद्धान्तकौमुदी
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥। इति तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌ ।
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यं । स चोदात्त इति । आद्युदात्त इत्यर्थः । अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । अत्रअयच्प्रत्यय एव विधीयते, नतु तयप आदेशः॑ इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । "तयप आदेश" इति मूलं तु वार्तिकानुरोधेन ।**** इति बालमनोरमायाम् पाञ्चमिकाः । ****अथ परस्मैपदप्रक्रिया ।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते — शेषात्कर्तरीति ।
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यम् । इहचितः॑इत्यनेनैवान्तोदात्तत्वं सिद्धं, सर्वोदात्तत्वं तुअनुदात्तं पदमेकवर्ज॑मिति वचनाद्वाधितम् । न च हे उभयेति संबुद्ध्यन्ते आमन्त्रिताद्युदात्तत्वं बाधितुं वचनमिति शङ्क्यं, पुरस्तादपवादन्येन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचनसामथ्र्यादादेरेवायम् । प्रयुज्यते च तथा — -॒उभयं श्रृणवच्च न॑इति । तदेतत्सकलमभिप्रेत्याह — -स चेति ।
लघुसिद्धान्तकौमुदी
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः। उभयम्॥
महाभाष्यम्
उभादुदात्तो नित्यम् (1062) (उदात्तपदाक्षेपप्रयोजनभाष्यम्) किमर्थमुदात्त इत्युच्यते? उदात्तो यथा स्यात्। नैतदस्ति प्रयोजनम्, प्रत्ययस्वरेणाप्येष स्वरः सिद्धः। न सिध्यति। चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं प्रसज्येत। (उदात्तपदसार्मथ्यादिष्टार्थबोधकभाष्यम्) अथ उदात्त इत्युच्यमाने कुत एतत् ‐ आदेरुदात्तत्वं भविष्यति न पुनरन्तस्येति। उदात्तवचनसार्मथ्यात् यस्याप्राप्तः स्वरस्तस्य भविष्यति। कस्य चाप्राप्तः? आदेः। अन्तस्य पुनश्चित्स्वरेणैव सिद्धम्।।