Page loading... Please wait.
5|2|43 - द्वित्रिभ्यां तयस्यायज्वा
॥ तस्मै पाणिनये नमः ॥
5|2|43
SK 1844
द्वित्रिभ्यां तयस्यायज्वा   🔊
सूत्रच्छेदः
द्वित्रिभ्याम् (पञ्चमीद्विवचनम्) , तयस्य (षष्ठ्येकवचनम्) , अयच् (प्रथमैकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
द्वित्रिभ्याम् तयस्य अयच् वा
सूत्रार्थः
"द्वि" तथा "त्रि" एताभ्याम् शब्दाभ्याम् विहितस्य "तयप्" प्रत्ययस्य विकल्पेन "अयच्" इति आदेशः भवति ।
संख्याया अवयवे तयप्‌ 5|2|42 इत्यनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः "अवयवाः अस्य" अस्मिन् अर्थे "तयप्" इति प्रत्ययः विधीयते । यदि अस्य प्रत्ययस्य अङ्गम् "द्वि" तथा "त्रि" एतत् अस्ति, तर्हि अस्य प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन "अयच्" इति आदेशः भवति । यथा -

1. द्वौ अवयवौ अस्य
= द्वि + तयप् [संख्याया अवयवे तयप्‌ 5|2|42 इति तयप्-प्रत्ययः]
→ द्वि + अयच् ["तयप्" प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः "अयच्" आदेशः]
→ द्व् + अयच् [यस्येति च 6|4|148 इति इकारलोपः]
पक्षे "अयच्" आदेशस्य अप्राप्तौ "द्वितय" इति प्रातिपदिकम् अपि सिद्ध्यति । द्वौ अवयवौ यस्य तत् द्वयम् द्वितयम् वा ।

2. त्रयः अवयवाः अस्य
= त्रि + तयप् [संख्याया अवयवे तयप्‌ 5|2|42 इति तयप्-प्रत्ययः]
→ त्रि + अयच् ["तयप्" प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः "अयच्" आदेशः]
→ त्र् + अयच् [यस्येति च 6|4|148 इति इकारलोपः]
पक्षे "अयच्" आदेशस्य अप्राप्तौ "त्रितय" इति प्रातिपदिकम् अपि सिद्ध्यति । त्रयः अवयवाः यस्य तत् त्रयम् त्रितयम् वा ।

विशेषः - यदि आचार्यः अस्मिन् सूत्रे "तयस्य" इति न उक्त्वा "अयच्" प्रत्ययस्य स्वतन्त्ररूपेण विधानम् कुर्यात्, तर्हि अपि एते एव रूपे भवेताम् । एवं सति "अयच्" इति प्रत्ययः स्वतन्त्ररूपेण किमर्थम् न उच्यते , तयप्-प्रत्ययस्य आदेशरूपेण किमर्थम् उच्यते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् एतत् - "तयप्" प्रत्ययस्य आदेशरूपेण उक्तः अयच्-प्रत्ययः स्थानिवद्भावेन "तयप्" प्रत्ययस्य गुणान् अपि स्वीकरोति । यथा -
अ) स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव अयच्-प्रत्ययान्तशब्दाः अपि प्राप्नुवन्ति ; येन "द्वयी, त्रयी" एते रूपे सिद्ध्यतः । यदि "अयच्" इति स्वतन्त्ररूपेण ब्रूयात्, तर्हि स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः न विधीयेत ।
(आ) यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1|1|33 इत्यनेन विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति; तथैव "अयच्" प्रत्ययान्तशब्दाः अपि विकल्पेन सर्वनामसंज्ञकाः भवन्ति । सर्वनामसंज्ञायां प्राप्तायाम् जस्-प्रत्ययस्य विकल्पेन इकारादेशः भवति, येन "द्वये", "त्रये" एते रूपे सिद्ध्यतः । यदि अयच्-प्रत्ययः स्वतन्त्ररूपेण विधीयेत, तर्हि एते रूपे न सिद्ध्येताम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति। द्वौ अवयवौ अस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरम् अयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतयाल्पार्धकतिपय. नेमाश्च 1|1|33। इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः।
तयप्रत्ययग्रहणं किमर्थम्, यावता प्रकृत एवासावनुवर्त्तिष्यते? इत्याह--`तयग्रहणम्` इत्यादि। यदि तयब्ग्रहणं न क्रियते, तदा तयप्रत्ययादन्य एवायमयच्? प्रत्ययो विज्ञायेत, न तयबादेशः। किं पुनः स्याद्यदि प्रत्ययान्तरं स्यात्? तयष्काय्र्यमयचो न स्यात्। किं तत्? `प्रथमचरम्` 1|1|31 इत्यादिना जसि विभाषा सर्वनामसंज्ञा--द्वये, द्वयाः; `टिड्ढाणञ्` 4|1|15 इति ङोप्--द्वयो। ननु च पूर्वसूत्रेणैव विहितस्य तस्य इह चादेशार्थानुवृत्तिर्विज्ञायते। प्रयोजनान्तराभावात्, `द्वित्रिभ्याम्` इति। पञ्चमीनिर्देशः `तस्मादित्युत्तरस्य` 1|1|66 इति षष्ठन्तं सम्पादयिष्यते, अतोनेनान्तरेणापि तयब्ग्रहणं तयप्स्थानित्वं लभ्यत एव? नैतदस्ति; यद्यनुवृततिस्तयपोऽन्यार्या न स्यात्, ततोऽनुवृत्तिसमथ्र्यात्? तयपः स्थानित्वं विज्ञायेत। तस्य त्वनुवृत्तिरुत्तरार्थिपि भवति। `उभादुदात्तो नित्यम्` 5|2|44 इत्यव योगविबागेन तयब्विधातव्यः। न चानुवत्र्तमानः शक्यते विधातुम्। अत उत्तरार्थायामनुवृत्तौ सत्यां तयप्स्थानित्वमयुक्तमिति तयब्ग्रहणं क्रियते॥
ननु तयः प्रकृतः सोऽनुवर्तिष्यते, ठ्द्वित्रिभ्याम्ऽ इति पञ्चमी, ठ्तस्मादित्युतरस्यऽ इति तस्य षष्ठ।ल्न्ततां सम्पादयिप्यति; तत्किं ठ्तयस्यऽ इत्यनेन ? तत्राह--तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्, ठ्प्रथमचरमतयऽक इति चैष विधिर्न स्याद्--द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृतावेव वृतावेव पठ।ल्ते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदातत्वं न भवति ॥
सिद्धान्तकौमुदी
द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
द्वित्रिभ्यां तयस्यायज्वा - द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपोऽयचिःयस्येति चे॑ति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवम् त्रयम् ।
द्वित्रिभ्यां तयस्यायज्वा - त्रयमिति । ननुत्रयोऽवयास्तन्तवो यस्य त्रयं सूत्र॑मिति प्रयोगे संभवत्यपिमुनित्रय ॑मिति प्रयोगो न सङ्गच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः — -अवयवी त्वत्र समुदाय एव । स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम् । एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति ।
लघुसिद्धान्तकौमुदी
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.